जैनशासन में ध्वज परम्परा
जैनशासन में ध्वज परम्परा प्रतिष्ठातिलक ग्रंथ के पंचम परिच्छेद में देखें- ‘‘अथ ध्वजारोहण विधि:’’ ॐ सर्वद्रव्यपर्यायविषयवैशद्यपराकाष्ठाधिष्ठितकेवलज्ञाननिष्ठपरमेष्ठि-प्रतिष्ठादिवसात् षष्ठेऽहनि बृहच्छान्तिकयागमंडलाराधनां समासत: समापूर्य पंचदशा-द्यंतवितस्तिरूपषड्विधदैघ्र्यान्तमदैघ्र्यस्य, एकोनविंशत्यंगुलादिचतुर्विंशत्यंगुलांत-षड्विधव्यासान्यतमव्यासस्य, पदोनतद्व्याससमदैघ्र्य-सरज्जुपार्श्वमूलाग्र पौष्टिक-क्रमहानिरूपकपुल्लिकालंकृतशिखोपलक्षितस्य, शिखासमाभ्यंतरं मूलाग्रपौष्टिकक्रम-हानिरूपपादद्वयविराजितस्य, अष्टत्रयोदशाद्यंतयवव्यासकदलिच्छेदकलितशिखा-पादवर्जितपाश्र्वस्य, शिखापादविस्तारतिर्यग्गूढेषिकाभूषितस्य, शिखामूलैषिकामध्य-घटितरज्जुबंधस्य, हटद्धाटकघंटिकापुल्लिकासमुल्लसितस्यसुधौतसुश्लिष्टश्वेत-नूतनवास: परिकल्पितस्यास्य ध्वजस्य, ध्वजमस्तकाध: प्रथमे पदे छत्रत्रयं, द्वितीये पदे जिननाथपद्मयानप्रदर्शकं पद्मवाहनं, तृतीये पूर्णकलशं, तत्पाश्र्वयो: स्वस्तिवं, स्वस्तिकचूलिकाया: पार्श्वदीपदंडद्वयमुज्वलज्ज्वालवं, चतुर्थे श्वेतातपत्रं, तदुभयपार्श्वयो कुंदेंदुविशदचारुचामरद्वयं, पंचमे पदे छत्रं, तस्याध:प्रदेशे तत्र…