(शांति पाठ बोलते समय दोनों हाथों से पुष्पवृष्टि करते रहें)
शांतिजिनं शशिनिर्मलवक्त्रं, शील-गुणव्रत-संयम पात्रं।
अष्टशतार्चित-लक्षणगात्रं, नौमि जिनोत्तममंबुजनेत्रं।।१।।
पंचममीप्सितचक्रधराणां, पूजितमिंद्रनरेन्द्र गणैश्च।
शांतिकरं गणशांतिमभीप्सु: षोडशतीर्थकरं प्रणमामि।।२।।
दिव्यतरु: सुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ।
आतपवारणचामर युग्मे यस्य विभाति च मंडल तेज:।।३।।
तं जगदर्चित शांति-जिनेन्द्रं शांतिकरं शिरसा प्रणमामि।
सर्वगणाय तु यच्छतु शांतिं मह्यमरं पठते परमां च।।४।।
येऽभ्यर्चिता मुकुट-कुंडल-हार-रत्नै:
शक्रादिभि: सुरगणै: स्तुतपादपद्मा:।
ते मे जिना: प्रवरवंशजगत्प्रदीपा-
स्तीर्थंकरा सततशांतिकरा भवन्तु।।५।।
संपूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानां।।
देशस्य राष्ट्रस्य पुरस्य राज्ञ: करोतु शांतिं भगवान् जिनेन्द्र:।।६।।
क्षेमं सर्वप्रजानां प्रभवतु बलवान् धार्मिको भूमिपाल:।
काले काले च सम्यग्वर्षतु मघवा व्याधयो यांतु नाशम्।।
दुर्भिक्षं चौर-मारी क्षणमपि जगतां मास्म भूज्जीव लोके।
जैनेन्द्रं धर्मचक्रं प्रभवतु सततं सर्वसौख्यप्रदायि।।७।।
प्रध्वस्तघातिकर्माण: केवलज्ञानभास्करा:।
कुर्वन्तु जगतां शांतिं वृषभाद्या जिनेश्वरा:।।८।।
प्रथमं करणं चरणं द्रव्यं नम:।
शास्त्राभ्यासो जिनपतिनुति: संगति सर्वदार्यै:।
सद्वृत्तानां गुणगणकथा दोष-वादे च मौनम्।।
सर्वस्यापि प्रिय-हित-वचो भावना चात्मतत्त्वे।
सम्पद्यन्तां मम भव-भवे यावदेतेऽपवर्ग:।।१०।।
तव पादौ मम हृदये मम हृदयं तव पदद्वये लीनम्।
तिष्ठतु जिनेन्द्र! तावद्यावन्निर्वाण-सम्प्राप्ति:।।११।।
अक्खर-पयत्थहीणं मत्ता हीणं च जं मए भणियं।
तं खमउ णाणदेवय मज्झ वि दुक्खक्खयं दिंतु।।१२।।
दुक्खक्खओ कम्मक्खओ समाहिमरणं च बोहिलाहोय।
मम होउ जगद्बांधव! तव जिणवर चरणसरणेण।।१३।।
ज्ञानतोऽज्ञानतो वापि शास्त्रोक्तं न कृतं मया।
तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादाज्जिनेश्वर।।१।।
आह्वानं नैव जानामि नैव जानामि पूजनं।
विसर्जनं न जानामि क्षमस्व परमेश्वर।।२।।
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च।
तत्सर्वं क्षम्यतां देव रक्ष रक्ष जिनेश्वर।।३।।
आहूता ये पुरा देवा लब्धभागा यथाक्रमम्।
ते मयाऽभ्यर्चिता भक्त्या सर्वे यान्तु यथास्थितं।।४।।
सर्वमंगलमांगल्यं सर्वकल्याणकारकं।
प्रधानं सर्वधर्माणां जैनं जयतु शासनम्।।५।।