आद्यंताक्षरसंलक्ष्य-मक्षरं व्याप्य यत्स्थितम् ।
अग्निज्वालासमं नादं, बिन्दुरेखासमन्वितम् ।।१।
।अग्निज्वालासमाक्रान्तं, मनोमलविशोधनम् ।
देदीप्यमानं हृत्पद्मे, तत्पदं नौमि निर्मलं।।२।।
ॐ नमोर्हद्भ्य ईशेभ्य, ॐसिद्धेभ्यो नमो नमः।
ॐ नमः सर्वसूरिभ्यः, उपाध्यायेभ्य ॐ नमः।।३।।
ॐ नमः सर्वसाधुभ्यः, तत्त्वदृष्टिभ्य ॐ नमः।
ॐ नमः शुद्धबोधेभ्य-श्चारित्रेभ्यो नमो नमः।।४।।युग्मं
श्रेयसेस्तु श्रियेस्त्वेत-दर्हदाद्यष्टकं शुभं।
स्थानेष्वष्टसु सन्यस्तं, पृथग्बीजसमन्वितं।।५।।
आद्यं पदं शिरो रक्षेत्, परं रक्षतु मस्तकं।
तृतीयं रक्षेन्नेत्रे द्वे, तुर्यं रक्षेच्च नासिकाम् ।।६।।
पंचमं तु मुखं रक्षेत्, षष्ठं रक्षतु कंठिकां१।
सप्तमं रक्षेन्नाभ्यन्तं, पादान्तं चाष्टमं पुनः।।७।।
युग्मं पूर्वं प्रणवतः सान्तः, सरेफो द्वित्रिपंचषान् ।
सप्ताष्टदशसूर्यांकान्, श्रितो विंदुस्वरान् पृथक्।।८।।
पूज्यनामाक्षराद्यास्तु, पंचदर्शनबोधकं।
चारित्रेभ्यो नमो मध्ये, ह्रीं सांतसमलंकृतं।।९।।
ॐ ह्रां ह्रिं ह्रुं ह्रूं ह्रें ह्रैं ह्रौं ह्रः असिआउसा सम्यग्दर्शनज्ञानचारित्रेभ्यो ह्रीं नमः।
आराधक शुभ फल दो, नवबीजाक्षरयुतस्तुत: सिद्ध:।
अष्टादशशुद्धाक्षर-मंत्रोयं जाप्य एव वरभक्त्या।।१०।।
जम्बूवृक्षधरो द्वीपः, क्षारोदधिसमावृतः।
अर्हदाद्यष्टवैरष्ट-काष्ठाधिष्ठैरलंकृतः ।।११।।
तन्मध्ये संगतो मेरुः, कूटलक्षैरलंकृतः।
उच्चैरुच्चैस्तरस्तारः, तारामण्डलमण्डितः।।१२।।
तस्योपरि सकारान्तं, बीजमध्यास्य सर्वगं।
नमामि बिम्बमार्हंत्यं, ललाटस्थं निरञ्जनं।।१३।।
अक्षयं निर्मलं शांतं, बहुलं जाड्यतोज्झितं।
निरीहं निरहंकारं, सारं सारतरं घनम्।।१४।।
अनुश्रुतं शुभं स्फीतं, सात्विकं राजसं मतं।
तामसं विरसं बुद्धं, तैजसं शर्वरी समं।।१५।।
साकारं च निराकारं, सरसं विरसं परं।
परापरं परातीतं, परं परपरापरं।।१६।।
सकलं निष्कलं तुष्टं, निर्भृतं भ्रान्तिवर्जितं।
निरञ्जनं निराकांक्षं, निर्लेपं वीतसंशयं।।१७।।
ब्रह्माणमीश्वरं बुद्धं, शुद्धं सिद्धमभंगुरं।
ज्योतीरूपं महादेवं, लोकालोकप्रकाशकं।।१८।।
अर्हदाख्यः सवर्णान्तः, सरेफो बिंदुमण्डितः।
तुर्यस्वरसमायुक्तो, बहुध्यानादिमालितः।।१९।।
एकवर्णं द्विवर्णं च, त्रिवर्णं तुर्यवर्णकं।
पंचवर्णं महावर्णं, सपरं च परापरं।।२०।।
अस्मिन् बीजे स्थिताः सर्वे, वृषभाद्या जिनोत्तमाः।
वर्णैर्निजैर्निजैर्युक्ता, ध्यातव्यास्तोत्र संगताः।।२१।।
नादश्चन्द्रसमाकारो, बिंदुर्नीलसमप्रभः।
कलारुणसमासांतः, स्वर्णाभः सर्वतोमुखः।।२२।।
शिरः संलीन ईकारो, विनीला वर्णतः स्मृतः।
वर्णानुसारिसंलीनं, तीर्थकृन्मण्डलं नमः।।२३।।
चन्द्रप्रभपुष्पदन्तौ, नादस्थितिसमाश्रितौ।
बिन्दुमध्यगतौ नेमि-सुव्रतौ जिनसत्तमौ।।२४।।
पद्मप्रभवासुपूज्यौ, कलापदमधिश्रितौ।
शिरईस्थितिसंलीनौ, सुपार्श्वपार्श्वौ जिनोत्तमौ।।२५।।
शेषास्तीर्थंकराः सर्वे, हरस्थाने नियोजिताः।
मायाबीजाक्षरं प्राप्ता-श्चतुर्विंशतिरर्हतां।।२६।।
गतरागद्वेषमोहाः, सर्वपापविवर्जिताः।
सर्वदा सर्वलोकेषु, ते भवन्तु जिनोत्तमाः।।२७।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु पन्नगाः।।२८।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु नागिनी।।२९।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु गोनसाः।।३०।।
देवदेवस्य यच्चक्रं, तस्यं चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु वृश्चिकाः।।३१।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु काकिनी।।३२।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु डाकिनी।।३३।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु साकिनी।।३४।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु राकिनी।।३५।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु लाकिनी।।३६।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु शाकिनी।।३७।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु हाकिनी।।३८।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु भैरवा:।।३९।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु राक्षसाः।।४०।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु व्यंतरा:।।४१।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु भेकसाः।।४२।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु लीनसा:।।४३।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु ते ग्रहाः।।४४।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु तस्कराः।।४५।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु वह्नयः।।४६।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु शृंगिणः।।४७।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु दंष्ट्रिणः।।४८।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु रेलपाः।।४९।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु पक्षिणः।।५०।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु मुद्गलाः।।५१।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु जृम्भकाः।।५२।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु तोयदाः।।५३।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु सिंहकाः।।५४।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु शूकराः।।५५।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु चित्रकाः।।५६।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु हस्तिनः।।५७।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु भूमिपाः।।५८।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु शत्रवः।।५९।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु ग्रामिणः।।६०।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु दुर्जनाः।।६१।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसन्तु व्याधयः।।६२।।
देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा।
तयाच्छादितसर्वांगं, मां मा हिंसतु सर्वत:।।६३।।
श्रीगौतमस्य या मुद्रा, तस्या या भुवि लब्धयः।
ताभिरभ्यधिकं ज्योति-रर्हन् सर्वनिधीश्वरः।।६४।।
पातालवासिनो देवा, देवा भूपीठवासिनः।
स्वःस्वर्गवासिनो देवाः, सर्वे रक्षन्तु मामितः।।६५।।
येवधिलब्ध्यो ये तु, परमावधिलब्धयः।
ते सर्वे मुनयो दिव्या, मां संरक्षन्तु सर्वतः।।६६।।
१भवनव्यंतर ज्योतिष्कल्पेंद्रेभ्यो नमो नम:।
ये श्रुतावधयो देशा-वधयो योगिनायका:।।६७।।
परमावधयस्सर्वा-वधयो ये दिगंबरा:।
बुद्धि ऋद्धि युतास्सर्वौ-षधिऋद्धि श्रिताश्च ये।।६८।।
अनंतबलवृद्ध्याप्ता, ये तप्ततपसोन्नता:।
रसर्द्धि युंजो विक्रिय-र्द्धिभाज: क्षेत्रर्द्धिसंगता:।।६९।।
तप:सामर्थ्यसंप्राप्ता-क्षीणसद्ममहानसा:।
एतेभ्यो यतिनाथेभ्यो, नूतेभ्योपास्तवादिभि:।।७०।।
तीर्ण जन्मार्णवेभ्यस्सदृगृद्धिचारित्रभाग्भवै:।
भव्येशीभ्यो भदंतेभ्यो, नमोभीष्टपदाप्तये।।७१।।
ॐ श्रीः ह्रीश्च धृतिर्लक्ष्मी गौरी चंडी सरस्वती।
जयाम्बा विजया क्लिन्नाऽजिता नित्या मदद्रवा।।७२।।
कामांगा कामबाणा च, सुनन्दा नन्दमालिनी।
माया मायाविनी रौद्री, कला काली कलिप्रिया।।७३।।
एताः सर्वा महादेव्यो, वर्तन्ते या जगत्त्रये।
मम सर्वाः प्रयच्छन्तु, कान्तिं लक्ष्मीं धृतिं मतिं।।७४।।
दुर्जनाः भूतवेतालाः, पिशाचा मुद्गलास्तथा।
ते सर्वे उपशाम्यन्तु, देवदेवप्रभावतः।।७५।।
दिव्यो गोप्यः सुदुष्प्राप्यः, ऋषीणां मण्डलस्तवः।
भाषितस्तीर्थनाथेन, जगत्त्राणकृतोनघः।।७६।।
रणे राजकुले वह्नौ, जले दुर्गे गजे हरौ।
श्मशाने विपिने घोरे, स्मृतौ रक्षति मानवं।।७७।।
राज्यभ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदं।
लक्ष्मीभ्रष्टा निजां लक्ष्मीं, प्राप्नुवन्ति न संशयः।।७८।।
भार्यार्थी लभते भार्यां, पुत्रार्थी लभते सुतं।
धनार्थी लभते वित्तं, नरः स्मरणमात्रतः।।७९।।
स्वर्णे रूप्येथवा कांस्ये, लिखित्वा यस्तु पूजयेत्।
तस्यैवेष्टमहासिद्धि-र्गृहे वसति शाश्वती।।८०।।
भूर्जपत्रे लिखित्वेदं, गलके मूधरन वा भुजे।
धारितः सर्वदा दिव्यं, सर्वभीतिविनाशनं।।८१।।
भूतैः प्रेतैर्ग्रहैर्यक्षैः, पिशाचैर्मुद्गलैस्तथा।
वातपित्तकफोद्रेवैर्मुच्यते नात्र संशयः।।८२।।
भूर्भुवः स्वस्त्रयीपीठ-वर्तिनः शाश्वता जिनाः।
तैः स्तुतैर्वन्दितैर्दृष्टैर्यत्फलं तत्फलं स्मृतेः।।८३।।
एतद्गोप्यं महास्तोत्रं, न देयं यस्य कस्यचित्।
मिथ्यात्ववासिनो देये, बालहत्या पदे पदे।।८४।।
आचाम्लादितपः कृत्वा, पूजयित्वा जिनावलिं।
अष्टसाहस्रिको जाप्यः, कार्यस्तत्सिद्धिहेतवे।।८५।।
शतमष्टोत्तरं प्रातर्ये पठन्ति दिने दिने।
तेषां न व्याधयो देहे, प्रभवन्ति च सम्पदा।।८६।।
अष्टमासावधिं यावत्, प्रातः प्रातस्तु यः पठेत्।
स्तोत्रमेतन्महातेजस्त्वर्हद्बिम्बं स पश्यति।।८७।।
दृष्टे सत्यार्हते बिम्बे, भवे सप्तमके ध्रुवं।
पदं प्राप्नोति विश्रस्तं१, परमानन्दसम्पदां।।८८।।
इदं स्तोत्रं महास्तोत्रं, स्तुतीनामुत्तमं परं।
पठनात्स्मरणाज्जाप्यात्, सर्वदोषैर्विमुच्यते।।८९।।
।।इति स्तोत्रं।।