संप्रति केवलज्ञानस्य लक्षणप्ररूपणार्थमुत्तरसूत्रमवतार्यते-
तं च केवलणाणं सगलं संपुण्णं असवत्तं।।८१।।
सिद्धान्तचिंतामणिटीका-एतत्केवलज्ञानं अखण्डत्वात् सकलं कथ्यते।
कथमस्याखण्डत्वम् ?
समस्ते बाह्यार्थे अप्रवृत्तौ सत्यां खण्डता। न च तदस्ति, विषयीकृताशेषत्रिकाल-गोचरबाह्यार्थत्वात्। अथवा, कलास्तावदवयवा द्रव्य-गुण-पर्ययभेदावगमान्यथानुप-पत्तितोऽवगतसत्त्वा:, सहकलाभिर्वर्त्तत इति सकलम्। अनन्तदर्शनवीर्य-विरति-क्षायिक-सम्यक्त्वाद्यनन्तगुणै: सम्यक् परस्परपरिहारलक्षणविरोधे सत्यपि सहानवस्थान-लक्षणविरोधाभावेन पूर्णत्वात् संपूर्णं केवलज्ञानम्, सकलगुणनिधानमिति यावत्। सपत्नाश्शत्रव: कर्माणि न विद्यन्ते सपत्ना: यस्मिन् तदसपत्नं केवलज्ञानम् निर्म्मूलोन्मूलितस्वप्रतिपक्षघातिचतुष्कमिति यावत्। एतत्केवलज्ञानं स्वयं चैव उत्पद्यते इति ज्ञातव्यो भवति।
एतत्सकलविमलकेवलज्ञानस्वरूपो ममात्मास्ति शुद्धनिश्चयनयेन इति ज्ञात्वा ज्ञानावरणकर्मनिर्मूलनार्थं सर्वशक्त्या ममकाराहंकाररूपसंकल्पविकल्पान् त्यक्त्वा शुद्धबुद्धसिद्धस्वरूपश्चैतन्यधातुमयोऽयमात्मैव भावयितव्य: सन्ततमस्माभिरिति।
अधुना केवलज्ञानविषयप्ररूपणार्थमुत्तरसूत्रमवतार्यते श्रीमद्भूतबलिसूरिपुंगवेन-
सइं भयवं उप्पण्णणाणदरिसी सदेवासुर-माणुसस्स लोगस्स आगदिं गदिं चयणोववादं बंधं मोक्खं इड्ढिं ट्ठिदिं जुदिं अणुभागं तक्कं कलं माणो माणसियं भुत्तं कदं पडिसेविदं आदिकम्मं अरहकम्मं सव्वलोए सव्वजीवे सव्वभावे सम्मं समं जाणदि पस्सदि विहरदित्ति।।८२।।
सिद्धान्तचिंतामणिटीका-ज्ञानधर्ममाहत्म्यानि भग:, सोऽस्यास्तीति भगवान्। उत्पन्न ज्ञानेन द्रष्टुं शीलमस्येत्युत्पन्नज्ञानदर्शी, स्वयमुत्पन्नज्ञानदर्शी भगवान् सर्वलोकं जानाति।
कथं ज्ञानस्य स्वयमुत्पत्ति: ?
न कार्य-कारणयोरेकाधिकरणत्वतो भेदाभावात्। सौधर्मादयो देवा: असुराश्च भवनवासिन:। देवासुरवचनं देशामर्शकमिति ज्योतिषां व्यन्तराणां तिरश्चां च ग्रहणं कर्तव्यम्। सदेवासुरमानुषस्य लोकस्यागतिं जानाति। अन्यगते: इच्छितगतौ आगमनमागतिर्नाम। इच्छितगतेरन्यगतिगमनं गतिर्नाम। सौधर्मेन्द्रादिदेवानां स्वसंपदाया विरह: चयनं-च्यवनं नाम। अर्पितगतेरन्यगतौ समुत्पत्तिरुपपादो नाम। जीवानां विग्रहाविग्रहस्वरूपेण आगमनं गमनं चयनमुपपादं च जानातीति भणितं भवति। तथा पुद्गलानां आगमनं गमनं चयनमुपपादं च जानाति। पुद्गलेषु अर्पितपर्यायेण विनाश: चयनं, अन्यपर्यायेण परिणाम उपपादो नाम।धर्माधर्म-कालाकाशानां चयनमुपपादं च जानाति, तेषां गमनागमनाभावात्। लोक्यन्ते उपलभ्यन्ते अस्मिन् जीवादय: पदार्था इति आकाश: चैव लोक इति। तेन आधेये आधारोपचारेण धर्मादीनामपि लोकत्वसिद्धे:।
बन्धनं बन्ध:, बद्ध्यते अनेनास्मिन्निति वा बन्ध:। स: च बन्धस्त्रिविध:-जीवबन्ध: पुद्गलबन्धो जीवपुद्गलबन्धश्चेति। एकशरीरस्थितानामनन्तानन्तानां निगोदजीवानामन्योऽन्यबन्ध: सो जीवबन्धो नाम। द्वि-त्रि-आदि पुद्गलानां य: समवाय: स: पुद्गलबन्धो नाम। औदारिक-वैक्रियिक-आहार-तैजस कार्मणवर्गणानां जीवानां च यो बन्ध: स: जीवपुद्गलबन्धो नाम। येन कर्मणा जीवा अनन्तानन्ता एकस्मिन् शरीरे तिष्ठन्ति तत्कर्म जीवबन्धो नाम। येन स्निग्धरूक्षादिगुणेन पुद्गलानां बन्धो भवति स: पुद्गलबन्धो नाम। यैर्मिथ्यात्वासंयम-कषाय-योगादिभि: जीवपुद्गलयोर्बन्धो भवति स: जीवपुद्गलबन्धो भण्यते। एनं बन्धमपि स भगवान् जानाति।
मोचनं मोक्ष:, मुच्यते अनेनास्मिन्निति वा मोक्ष:। स: मोक्षस्त्रिविध:-जीवमोक्ष: पुद्गलमोक्षो जीवपुद्गलमोक्षश्चेति। एवं मोक्षकारणमपि त्रिविधं इति वक्तव्यं। बंधं बंधकारणं बंधप्रदेशबद्ध-बध्यमानजीवान् पुद्गलान् च, मोक्षं मोक्षकारणं मोक्षप्रदेशमुक्त-मुच्यमानजीवपुद्गलांश्च त्रिकालविषयान् जानातीति भणितं भवति।
भोगोपभोगरूप-हय-हस्ति-मणि-रत्नसंपदा संपत्कारणं च ऋद्धिर्नाम। त्रिभुवनगतसकलसंपदा देवासुरमनुष्यसंपत्कारणानि च जानातीति भणितं भवति।
षड्द्रव्याणामर्पितभावेन अवस्थानं अवस्थानकारणं च स्थिति: कथ्यते। द्रव्यस्थिति-कर्मस्थिति-कायस्थिति-भवस्थिति-भावस्थिति-आदिस्थितिं च सकारणं जानाति इति कथितं भवति।
द्रव्य-क्षेत्र-काल-भावैर्जीवादीनां द्रव्याणां मेलनं युतिर्नाम।
युति-बन्धयो: को विशेष: ?
एकीभावो बन्ध:, सामीप्यं संयोगो वा युति:। तत्र द्रव्ययुतिस्त्रिविधा-जीवयुति: पुद्गलयुति: जीवपुद्गलयुतिश्चेति। तत्र एकस्मिन् कुले ग्रामे नगरे बिले गुफायां अटव्यां वा जीवानां मेलनं जीवयुति: कथ्यते। वातेन भ्रम्यमानपत्राणामिव एकस्मिन् देशे पुद्गलानां मेलनं पुद्गलयुति: निगद्यते। जीवानां पुद्गलानां च मेलनं जीवपुद्गलयुतिरुच्यते। अथवा, द्रव्ययुति: जीवपुद्गलधर्माधर्मकालाकाशानामेकादिसंयोगेन उत्पादयितव्या। जीवादिद्रव्याणां नरकादिक्षेत्रै: सह मेलनं क्षेत्रयुति: कथ्यते। तेषां चैव द्रव्याणां दिवस-मास-संवत्सरादिकालै: सह मेलनं कालयुति: निगद्यते। क्रोध-मान-माया-लोभादिभि: सह भावयुतिरुच्यते। एतत्सर्वमपि युतिविकल्पं त्रिकालविषयं स: भगवान् जानाति।
षड्द्रव्याणां शक्तिरनुभागो नाम। स: च अनुभाग: षड्विध:-जीवानुभाग: पुद्गलानुभाग: धर्मास्तिकायानुभाग: अधर्मास्तिकायानुभाग: आकाशास्तिकायानुभाग: कालद्रव्यानुभागश्चेति। तत्र अशेषद्रव्यावगम: जीवानुभाग:। ज्वर-कुष्ठ-क्षयादिविनाशनं तदुत्पादनं च पुद्गलानुभाग:।
श्रीवीरसेनाचार्येण कथ्यते-‘‘जोणिपाहुडे भणिदमंत-तंतसत्तीयो पोग्गलाणुभागो त्ति घेत्तव्वो।।’’
जीवपुद्गलानां गमनागमनहेतुत्वं धर्मास्तिकायानुभाग:। तेषामवस्थानहेतुत्वं अधर्माकायानुभाग:। जीवादिद्रव्याणां आधारत्वमाकाशास्तिकायानुभाग:। अन्येषां द्रव्याणां क्रमाक्रमाभ्यां परिणमनहेतुत्वं कालद्रव्यानुभागो ज्ञातव्य:।
एवं द्विसंयोगादिना अनुभागप्ररूपणा कर्तव्या। यथा मृत्तिकापिंड-दण्ड-चक्र-चीवर-जल-कुंभकारादीनां घटोत्पादनानुभाग:। इममनुभागमपि जानाति भगवान्।
तर्को हेतुर्ज्ञापकमित्यनर्थान्तरम्। इममपि जानाति।चित्रकर्मपत्रच्छेदादि: कला नाम। इमां कलामपि जानाति भगवान्।मनोवर्गणाया निर्वर्तितं हृदयपद्मं मन: कथ्यते, मनोजनितज्ञानं वा मन: उच्यते। मनसा चिन्तितार्था मानसिका:। तानपि जानाति। राज्यपरिपालनं महाव्रतादीनामपि परिपालनं भुक्तिर्नाम। तं भुक्तं जानाति। यत्किंचित् त्रिष्वपि कालेषु अन्यस्मात् निष्पन्नं तत्कृतं नाम। पञ्चभिरिन्द्रियै: त्रिष्वपि कालेषु यत्सेवितं तत्प्रतिसेवितं नाम। आद्यं कर्म आदिकर्म कथ्यते। अर्थव्यंजनपर्यायभावेन सर्वेषां द्रव्याणामादिं जानातीति भणितं भवति। रह: अन्तरं, अरह: अनन्तरम्, अरह: कर्म अरहस्कर्म तं जानाति। शुद्धद्रव्यार्थिकनयविषयेन सर्वेषां द्रव्याणामनादित्वं जानातीति भणितं भवति। सर्वस्मिन् लोके सर्वजीवान् सर्वभावांश्च जानाति।
कश्चिदाशंकते-
सर्वजीवग्रहणं न कर्तव्यं, बद्धमुक्तपदै: गतार्थत्वात् ?
आचार्यदेव: समाधत्ते-
नैतत्, एकसंख्याविशिष्टबद्धमुक्तग्रहणं तत्र मा भवेदिति तत्प्रतिषेधार्थं सर्वजीवनिर्देश: कृत:। जीवा द्विविधा:-संसारिणो मुक्ताश्चेति। तत्र मुक्ता अनन्तविकल्पा:, सिद्धलोकस्य आदि-अन्ताभावात्।
कुतस्तदभाव: ?
प्रवाहस्वरूपेणानुवृत्ते:। ‘सव्वा सिद्धा सेहणं पडिसादिया, संताणं पडि अणादिया१’ सर्वे सिद्धा: सिद्ध्यपेक्षया सादिका:, संतानं प्रति अनादिका: इति सूत्राज्ज्ञायते। संसारिणो द्विविधास्त्रसा: स्थावराश्चेति। त्रसाश्चतुर्विधा:-द्वीन्द्रिया:त्रीन्द्रिया: चतुरिन्द्रिया: पञ्चेन्द्रियाश्चेति। पञ्चेन्द्रिया: द्विविधा:-संज्ञिनोऽसंज्ञिनश्चेति। एते सर्वे त्रसा द्विविधा: पर्याप्तापर्याप्तभेदेन। अपर्याप्ता द्विविधा:-लब्ध्यपर्याप्त-निर्वृत्यपर्याप्तभेदेन। स्थावरा: पञ्चविधा:-पृथ्वीकायिका अप्कायिकास्तेजस्कायिका वायुकायिका वनस्पतिकायिकाश्चेति। एते पञ्चापि स्थावरकाया: प्रत्येकं द्विविधा:-बादरा: सूक्ष्माश्चेति। तत्र बादरवनस्पतिकायिका द्विविधा-प्रत्येकशरीरा: साधारणशरीराश्चेति। अत्र प्रत्येकशरीरा: द्विविधा:-बादरनिगोदप्रतिष्ठिता बादरनिगोदा-प्रतिष्ठिताश्चेति। एते स्थावरकाया: सर्वेऽपि प्रत्येकं द्विविधा:-पर्याप्ता: अपर्याप्ताश्चेति। अपर्याप्ता द्विविधा:-लब्ध्यपर्याप्ता: निर्वृत्त्यपर्याप्ताश्चेति। तत्र वनस्पतिकायिका अनंतविकल्पा:, शेषा: असंख्यातविकल्पा:। एतान् सर्वजीवान् सर्वलोकस्थितान् केवली भगवान् जानातीति भणितं भवति।
भावा नवविधा:-जीवाजीव-पुण्य-पाप-आस्रव-संवर-निर्जरा-बंध-मोक्षभेदेन।
उक्तं च श्रीवीरसेनाचार्येण-
‘‘भावा णवविहा-जीवाजीव-पुण्ण-पाव-आसव-संवर-णिज्जरा-बंध-मोक्खभेएण१।’’
अत्र ग्रन्थे नवपदार्थानां य: क्रम: कथित: स एव पाक्षिकप्रतिक्रमणग्रन्थे श्रीमद्भगवद्गौतमस्वामिभिरुक्तो द्रष्टव्य: न चैष क्रम: परिवर्तयितव्य:।
तत्त्वार्थसूत्रे ग्रन्थे च अन्य: क्रमो वर्तते तस्य ग्रन्थापेक्षया तत्श्रद्धातव्यमिति।
उक्तं च-‘‘जीवाजीवास्रवबंधसंवरनिर्जरामोक्षास्तत्त्वम्।’’
द्रव्यसंग्रहग्रन्थे एषु एव सप्ततत्त्वेषु पुण्यपापमेलनेन नवपदार्था: विहिता: सन्ति।
तत्र१ जीवा: प्ररूपिता:। अजीवा द्विविधा:-मूर्ता: अमूर्ताश्चेति। तत्र मूर्ता एकोनविंशतिविधा:। तद्यथा-
एकप्रदेशिकवर्गणा संख्यातप्रदेशिकवर्गणा असंख्यातप्रदेशिकवर्गणा अनन्तप्रदेशिकवर्गणा आहारवर्गणा अग्रहणवर्गणा तैजसशरीरवर्गणा अग्रहणवर्गणा भाषावर्गणा अग्रहणवर्गणा मनोवर्गणा अग्रहणवर्गणा कार्मणवर्गणा ध्रुवस्कंधवर्गणा सान्तरनिरन्तरवर्गणा ध्रुवशून्यवर्गणा प्रत्येकशरीरवर्गणा ध्रुवशून्यवर्गणा बादरनिगोदवर्गणा ध्रुवशून्यवर्गणा सूक्ष्मनिगोदवर्गणा ध्रुवशून्यवर्गणा महास्कंधवर्गणा चेति। अत्र त्रयोविंशति-वर्गणासु चतु:षु धु्रवशून्यवर्गणासु अपनीतासु एकोनविंशतिविधा पुद्गला भवन्ति। प्रत्येकमनन्तविधाश्च सन्ति।अमूर्त्ता चतुर्विधा:-धर्मास्तिकाय: अधर्मास्तिकाय: आकाशास्तिकाय: कालश्चेति। कालो घनलोकमात्र:। शेषा एकविकल्पा:। आकाश: अनन्तप्रदेशिक:। कालोऽप्रदेशिक:। शेषा: असंख्यातप्रदेशिका: ज्ञातव्या:।शुभप्रकृतय: पुण्यं। अशुभप्रकृतय: पापं। तत्र घातिचतुष्कं पापं। अघातिचतुष्कं मिश्रं, तत्र शुभाशुभप्रकृतीनां संभवात्।मिथ्यात्वासंयमकषाययोगा: आस्रव:। तत्र मिथ्यात्वं पंचविधं, असंयमो द्विचत्वारिंशद्विध:।
उक्तं च- पंचरस-पंचवण्णा दोगंधा अट्ठफास सत्तसरा।
मणसा चोद्दसजीवा बादालीसं तु अविरमणं१।।३२।।
अनंतानुबंधि-प्रत्याख्यान-अप्रत्याख्यान-संज्वलनक्रोध-मान-माया-लोभ-हास्य-रति-अरति-शोक-भय-जुगुप्सा-स्त्री-पुरुष-नपुंसकभेदेन कषाय: पञ्चविंशतिविध:। योग: पञ्चदशविध:।
आस्रवप्रतिपक्ष: संवर: कथ्यते।
गुणश्रेण्या एकादशभेदभिन्नाया: कर्मगलनं निर्जरा उच्यते।
जीव-कर्मणां समवायो बन्ध: कथ्यते।
जीवकर्मणां नि:शेषविश्लेषो मोक्षो नाम। एतान् सर्वान् भावान् भगवान् केवली जानाति। समं-अक्रमेण जानाति। एतत् समपदस्य ग्रहणं केवलज्ञानस्य अतीन्द्रियत्वं व्यवधानादिनिवर्तनं च सूचयति, अन्यथा ‘सम’ ग्रहणानुपपत्ते:। संशय-
विपर्ययानध्यवसायाभावतस्त्रिकालगोचराशेषद्रव्यपर्यायग्रहणाद्वा सम्यग् जानाति भगवान् केवली।
अत्र कश्चिदाशज्र्ते-
अशेषबाह्यार्थग्रहणे सत्यपि न केवलिन: सर्वज्ञता, स्वरूपपरिच्छित्तेरभावात् ?
आचार्यदेव: समाधत्ते-
नैतत् वक्तव्यं, किंच-‘पस्सदि’ त्रिकालगोचरानन्तपर्यायोपचितमात्मानं च पश्यति इति ज्ञातव्यं।
पुन: कश्चिदाशंकां करोति-
केवलज्ञानोत्पत्त्यनन्तरं कृत्स्नकर्मक्षये सति वितनोरुपदेशाभावात् तीर्थाभाव: प्रसज्यते?
आचार्यदेव: समादधाति-
नैतत्, सूत्रे ‘विहरदि त्ति’ कथनेन चतुर्णामघातिकर्म्मणां सत्त्वात् देशोनां पूर्वकोटीं विहरतीति निमित्तेन केवलिनां भगवतां दिव्यध्वनिर्भवतीति निश्चेतव्यं।
इतो विस्तर:-
श्रीमद्गौतमस्वामिभि: बृहत्प्रतिक्रमणसूत्रे एवमेव प्रोक्तं, तथाहि-‘‘सुदं मे आउस्संतो! इह खलु समणेण भयवदा महदि-महावीरेण महाकस्सवेण सव्वण्हुणा सव्वलोगदरिसिणा सदेवासुरमाणुसस्स लोयस्स आगदि-गदि-चवणोववादं-बंधं मोक्खं इड्ढिं ठिदिं जुदिं अणुभागं तक्कं कलं मणो-माणसियं भुत्तं कयं पडिसेवियं आदिकम्मं अरुहकम्मं सव्वलोए सव्वजीवे सव्वभावे सव्वं समं जाणंता पस्संता विहरमाणेण समणाणं पंचमहव्वदाणि राइभोयणवेरमण-छट्ठाणि सभावणाणि समाउग-पदाणि सउत्तर-पदाणि सम्मं धम्मं उवदेसिदाणि१।’’
अस्मिन् षट्खंडागमे ग्रन्थे द्व्यशीतितमे सूत्रे श्रीमद्भूतबलिभट्टारकदेवेन केवलिनां भगवतां एव विशेषविवेचनं कृतं। अत: प्राक् बृहत्प्रतिक्रमणसूत्रे श्रीमद्गौतमगणधरदेवै: भगवतो महावीरस्य मुखारविंदात् मया यत् प्रत्यक्षरूपेण एव श्रुतं भो:! आयुष्मन्तो! भव्यात्मन:! इत्येवं मोक्षकारणं महाव्रतादिकं अस्ति। एतेषां महाव्रतादीनां धारिणो ये साधवस्तेषां व्रतेषु ये केचिदतिचारादयो दोषा: संजाता: तेषां क्षालनार्थं प्रतिक्रमणसूत्राणि प्ररूपितानीति ज्ञातव्यं भवति।
अत्रापि धवलाटीकायां श्रीमद्वीरसेनाचार्येण भावा नवविधा: प्ररूपिता:-‘‘भावा णवविहा जीवाजीव-पुण्ण-पाव-आसव-संवर-णिज्जरा-बंध-मोक्खभेएण१।’’
श्रीमद्गौतमस्वामिभिरपि नवपदार्थानां क्रम एवमेव कथितोऽस्ति-‘‘से अभिमद-जीवाजीव-उवलद्ध-पुण्ण-पाव-आसव-संवर-णिज्जर-बंध-मोक्ख-महिकुसले२।’’
अद्यतने केचित् साधवो विद्वान्सश्च अस्मिन् प्रतिक्रमणसूत्रपाठे परिवर्तनं कृतं तत्त्वार्थसूत्राधारेण, नैतत् सुष्ठु वर्तते। कदाचिदपि पूर्वाचार्याणां सूत्राणि न परिवर्तनीयानि सन्ति। मूलाचारे समयसारग्रन्थे च श्रीमत्कुंदकुंदाचार्येणापि एवमेव क्रमो विहितोऽस्ति, तत्रावलोकनीयो भवति।
एतादृशा: केवलिनो भगवन्त: असंख्यान् भव्यजीवान् समवसरणस्थितान् दिव्यध्वनिना धर्मामृतं पाययन्ति। दिव्यध्वनिलक्षणं कथितं श्रीमद्यतिवृषभाचार्येण-
अट्ठरहमहाभासा खुल्लयभासा सयाइं सत्त तहा।
अक्खरअणक्खरप्पय सण्णीजीवाण सयलभासाओ।।
एदासुं भासासुं तालुवदंतोट्ठकंठवावारे।
परिहरिय एक्ककालं भव्वजणे दिव्वभासित्तं१।।
तीर्थंकराणां उपदेशसारं संप्राप्यास्माभिरपि निजात्मतत्त्वं भावनीयमिति तात्पर्यार्थ:।
संप्रति केवलज्ञानगुणप्रतिपादनार्थं पुनरप्येकं सूत्रमवतार्यते-
सिद्धान्तचिंतामणिटीका-एवंगुणविशिष्टं केवलज्ञानं भवति।
अत्र कश्चिदाह-
कथं गुणस्य गुणा भवन्ति ?
आचार्यदेव: उत्तरयति-
अत्र केवलज्ञानेन केवलिनिर्देशात्। एवंविध: ‘केवली’ भवतीति भणितं भवति।
एवं केवलज्ञानावरणीयस्य कर्मण: प्ररूपणा कृता भवति।
इतो विस्तर:-
श्रीकुंदकुंददेवेनोक्तं-
केवलमिंदियरहियमसहायं तं सहावणाणं त्ति।
सण्णाणिदरवियप्पे विहावणाणं हवे दुविहं१।।११।।
केवलशब्दस्य व्याख्या श्रीमद्भट्टाकलंकदेवेन महत्त्वपूर्णमुक्तं-
‘‘तप:क्रियाविशेषान् वाङ्मानसकायाश्रयान् बाह्यानाभ्यन्तरांश्च यदर्थमर्थिन: केवन्ते सेवन्ते तत्केवलम्२।।’ प्रवचनसारग्रन्थेऽपि केवलज्ञानस्य लक्षणं कथितं-
तक्कालिगेव सव्वे सदसब्भूदा हि पज्जया तासिं।
वट्टंते ते णाणे विसेसदो दव्वजादीणं।।३७।।
जे णेव हि संजादा जे खलु णट्ठा भवीयपज्जाया
ते होंति असब्भूदा पज्जाया णाणपच्चक्खा।।३८।।
जदि पच्चक्खमजायं पज्जायं पलइयं च णाणस्स।
ण हवदि वा तं णाणं दिव्वं त्ति हि के परूवेंति३।।३९।।
वर्तमानकाले केचिद् विद्वांस: कथयन्ति-‘सर्वज्ञा: केवलिन: भूतान् विनष्टान् भाविन: अभूतान् च सर्वानपि पर्यायान् न जानन्ति। केवलं द्रव्याण्येव जानन्ति, नैतत् सुष्ठु। उपर्युक्तगाथा: पठित्वा शंका निर्मूलयितव्या।
श्रीमद्गौतमस्वामिभिरपि प्रोक्तं-
य: सर्वाणि चराचराणि विधिवद् द्रव्याणि तेषां गुणान्।
पर्यायानपि भूतभाविभवत: सर्वान् सदा सर्वदा।।
जानीते युगपत् प्रतिक्षणमत: सर्वज्ञ इत्युच्यते।
सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नम:१।।१।।
तात्पर्यमत्र-मतिश्रुतावधिमन:पर्ययज्ञानानि विभावज्ञानानि असंख्यातभेदभिन्नानि सन्ति। केवलज्ञानं एकमेव स्वभावज्ञानं कथ्यते। एतत्केवलज्ञानं कार्यं, मतिज्ञानभेदरूपं वीतरागस्वसंवेदनज्ञानं कारणं, तस्योत्पत्तौ कारणत्वात्। अतएव विभावज्ञानमपि सर्वथा हेयं नास्ति।
एतत्केवलज्ञानं निर्ग्रन्थसंज्ञस्य क्षीणकषायस्यान्त्यसमये त्रिषष्टिप्रकृतीनामभावे सति समुत्पद्यते।
यद्यपि शुद्धनयेन संसारिजीवा: अपि शश्वत्कर्ममलैरस्पृष्टत्वात् स्वभावज्ञानमया एव, तथापि अशुद्धनयेनानादिकर्मबंधनवशात् स्वभावज्ञानशून्या:। अथवा शक्तिरूपेण तेऽपि स्वभावज्ञानयुता: सन्ति न च व्यक्तिरूपेण, इति ज्ञात्वा ये संयता: निर्विकल्पसमाधिरूपस्वसंवेदनज्ञाने समस्तविभावपरिणामत्यागेन रतिं कुर्वन्ति त एव धन्यास्त एव परमाह्लादैकलक्षणसुखाविनाभूतं स्वभावज्ञानं लभन्त इति श्रद्दधानैरस्माभिरपि निश्चयनयेनाखण्डैकज्ञानप्रतिभास एव ममात्मा निर्मेघादित्यवदिति ध्यातव्यो भवति।
एवं द्वादशस्थले केवलज्ञानावरणकथनत्वेन केवलज्ञानज्ञानिनोरपि प्रतिपादकत्वेन पञ्चसूत्राणि गतानि।
सूत्रार्थ-
वह केवलज्ञान सकल है, सम्पूर्ण है और असपत्न है।।८१।।
सिद्धान्तचिंतामणिटीका-यह केवलज्ञान एकमात्र अखण्ड होने से सकल कहा जाता है।
शंका-इसमें अखण्डपना कैसे है ?
समाधान-समस्त बाह्य अर्थ में प्रवृत्ति नहीं होने पर ज्ञान में खण्डपना आता है, सो वह इस ज्ञान में संभव नहीं है, इस ज्ञान के विषय त्रिकालगोचर अशेष-सम्पूर्ण बाह्य पदार्थ हैं।
अथवा कला का नाम अवयव है, द्रव्य, गुण और पर्यायों के भेद ज्ञान अन्यथा नहीं बन सकने के कारण जिनका अस्तित्व निश्चित है ऐसे ज्ञान के अवयवों का नाम कला है, इन कलाओं के साथ वह अवस्थित रहता है इसलिए सकल है। ‘सम्’ का अर्थ सम्यक् है, सम्यक् अर्थात् परस्परपरिहार लक्षण विरोध के होने पर भी सहानवस्थानलक्षण विरोध न होने से चूँकि यह अनंतदर्शन, अनन्तवीर्य, विरति-चारित्र एवं क्षायिक सम्यक्त्व आदि अनंत गुणों से पूर्ण है, इसीलिए इसे सम्पूर्ण कहा जाता है। वह सकल गुणों का निधान है, यह उक्त कथन का तात्पर्य है। सपत्न का अर्थ शत्रु है, केवलज्ञान के शत्रु कर्म हैं। वे इसके नहीं रहे हैं, इसलिए केवलज्ञान असपत्न है। उसने अपने प्रतिपक्षी घातिचतुष्क का समूल नाश कर दिया है, यह केवलज्ञान स्वयं ही आत्मा से उत्पन्न होता है, यह उक्त कथन का तात्पर्य है।शुद्ध निश्चयनय से मेरी आत्मा इसी प्रकार के सकल-विमल-केवलज्ञानस्वरूप है, ऐसा जानकर ज्ञानावरण कर्म को निर्मूलन-जड़मूल से नष्ट करने हेतु सर्वशक्ति के साथ ममकार-अहंकाररूप संकल्प-विकल्पों का त्याग करके शुद्ध-बुद्ध-सिद्धस्वरूप चैतन्य धातुमय अपनी आत्मा की ही भावना हम सभी को भानी चाहिए।
अब केवलज्ञान का विषय प्ररूपित करने हेतु श्रीमान् भूतबली आचार्यवर्य सूत्र अवतरित करते हैं-
सूत्रार्थ-
स्वयं उत्पन्न हुए ज्ञान और दर्शन से युक्त भगवान् देवलोक और असुरलोक के साथ मनुष्यलोक की आगति, गति, चयन, उपपाद, बंध, मोक्ष, ऋद्धि, स्थिति, युति, अनुभाग, तर्क, कल, मन, मानसिक, भुक्त, कृत, प्रतिसेवित, आदिकर्म, अरह कर्म, सब लोकों, सब जीवों और सब भावों को सम्यक् प्रकार से युगपत् जानते हैं, देखते हैं और विहार करते हैं।।८२।।
सिद्धान्तचिंतामणिटीका-ज्ञान-धर्म के माहात्म्यों का नाम ‘भग’ है, वह जिनके हैं, वे ‘भगवान्’ कहलाते हैं। उत्पन्न हुए ज्ञान के द्वारा देखना जिसका स्वभाव है, उसे उत्पन्नज्ञानदर्शी कहते हैं। स्वयं उत्पन्न हुए ज्ञान दर्शन स्वभाव वाले भगवान सब लोक को जानते हैं।
शंका-ज्ञान की उत्पत्ति स्वयं कैसे हो सकती है ?
समाधान-ऐसा नहीं कहना, क्योंकि कार्य और कारण का एकाधिकरण होने से इनमें कोई भेद नहीं है। सौधर्मादिक देव और भवनवासी असुर कहलाते हैं। यहाँ देवासुर वचन देशामर्शक है इसलिए इससे ज्योतिषी, व्यन्तर और तिर्यंचों का भी ग्रहण करना चाहिए। देवलोक और असुरलोक के साथ मनुष्यलोक की आगति को जानते हैं। अन्य गति से इच्छित गति में आना आगति है। इच्छित गति से अन्य गति में जाना गति है।
सौधर्मादिक देवों का अपनी सम्पदा से विरह होना चयन-च्यवन है। विवक्षित गति से अन्य गति में उत्पन्न होना उपपाद है। जीवों के विग्रह के साथ तथा बिना विग्रह के आगमन, गमन, चयन और उपपाद को जानते हैं, यह उक्त कथन का तात्पर्य है तथा पुद्गलों के आगमन, गमन, चयन और उपपाद को जानते हैं। पुद्गलों में विवक्षित पर्याय का नाश होना चयन है। अन्य पर्यायरूप से परिणमना उपपाद है।धर्म, अधर्म, काल और आकाश के चयन और उपपाद को जानते हैं, क्योंकि इनका गमन और आगमन नहीं होता, जिसमें जीवादिक पदार्थ लोके जाते हैं-अवलोकित किये जाते हैं अर्थात् उपलब्ध होते हैं उसकी लोक संज्ञा है। यहाँ लोक शब्द से आकाश लिया गया है इसलिए आधेय में आधार का उपचार करने से धर्मादिक द्रव्य भी लोक सिद्ध होते हैं।बंधने का नाम बंध है अथवा जिसके द्वारा या जिसमें बंधते हैं, उसका नाम बंध है। वह बंध तीन प्रकार का है-जीवबंध, पुद्गलबंध और जीव-पुद्गलबंध। एक शरीर में रहने वाले अनन्तानंत निगोद जीवों का जो परस्पर बंध है, वह जीव बंध कहलाता है। दो, तीन आदि पुद्गलों का जो समवाय संबंध होता है, वह पुद्गलबंध कहलाता है तथा औदारिक वर्गणाएं, वैक्रियिक वर्गणाएं, आहारक वर्गणाएं, तैजस वर्गणाएं और कार्मण वर्गणाएं इनका और जीवों का जो बंध होता है, वह जीव पुद्गलबंध कहलाता है। जिस कर्म के कारण अनन्तानन्त जीव एक शरीर में रहते हैं उस कर्म की जीवबंध संज्ञा है। जिनके द्वारा स्निग्ध और रूक्ष आदि गुणों से पुद्गलों का बंध होता है, वह पुद्गलबंध कहलाता है। जिन मिथ्यात्व, असंयम, कषाय और योग आदि के निमित्त से जीव और पुद्गलों का बंध होता है वह जीव-पुद्गलबंध कहलाता है। इस बंध को भी भगवान् जानते हैं।
छूटने का नाम मोक्ष है अथवा जिसके द्वारा या जिसमें मुक्त होते हैं वह मोक्ष कहलाता है। वह मोक्ष तीन प्रकार का है-जीवमोक्ष, पुद्गल मोक्ष और जीव-पुद्गलमोक्ष। इसी प्रकार मोक्ष का कारण भी तीन प्रकार कहना चाहिए। बंध, बंध का कारण, बंध प्रदेश, बद्ध एवं बध्यमान जीव और पुद्गल तथा मोक्ष, मोक्ष का कारण, मोक्ष प्रदेश, मुक्त एवं मुच्यमान जीव और पुद्गल, इन सब त्रिकालविषयक पदार्थों को केवलज्ञानी जानते हैं, यह उक्त कथन का तात्पर्य है।
भोग व उपभोगरूप घाेड़ा, हाथी, मणि व रत्नरूप सम्पदा तथा उस सम्पदा की प्राप्ति के कारण का नाम ऋद्धि है। तीन लोक में रहने वाली सब सम्पदाओं को तथा देव, असुर और मनुष्य भव की सम्प्राप्ति के कारणों को भी जानते हैं, यह उक्त कथन का तात्पर्य है।
छह द्रव्यों का विवक्षित भाव से अवस्थान और अवस्थान के कारण का नाम स्थिति है। द्रव्यस्थिति, कर्मस्थिति, कायस्थिति, भवस्थिति और भावस्थिति, आदि स्थिति को वह केवलज्ञान सकारण-कारण सहित जानता है, यह उक्त कथन का तात्पर्य है।
द्रव्य, क्षेत्र, काल और भाव के साथ जीवादि द्रव्यों के सम्मेलन-मिलने का नाम युति है।
शंका-युति और बंध में क्या भेद है ?
समाधान-एकीभाव का नाम बंध है और समीपता या संयोग का नाम युुति है।
उनमें से द्रव्ययुति तीन प्रकार की है-जीवयुति, पुद्गल युति और जीव-पुद्गलयुति। इनमें से एक कुल, ग्राम, नगर, बिल, गुफा या अटवी में जीवों का मिलना जीवयुति है। वायु के कारण हिलने वाले पत्तों के समान एक स्थान पर पुद्गलों का मिलना पुद्गलयुति है। जीव और पुद्गलोें का मिलना जीव-पुद्गलयुति है अथवा जीव, पुद्गल, धर्म, अधर्म, काल और आकाश इनके एक आदि संयोग के द्वारा द्रव्ययुति उत्पन्न करानी चाहिए। जीवादि द्रव्यों का नारकादि क्षेत्रों के साथ मिलना क्षेत्रयुति है। उन्हीं द्रव्यों का दिन, महीना और वर्ष आदि कालों के साथ मिलाप होना कालयुति है। क्रोध, मान, माया और लोभादिक के साथ उनका मिलाप होना भावयुति है। त्रिकालविषयक उन सब युतियों के भेद को वे केवलज्ञानी भगवान् जानते हैं।छह द्रव्यों की शक्ति का नाम अनुभाग है। वह अनुभाग छह प्रकार का है-जीवानुभाग, पुद्गलानुभाग, धर्मास्तिकायानुभाग, अधर्मास्तिकायानुभाग, आकाशास्तिकायानुभाग और कालद्रव्यानुभाग। इनमें से समस्त द्रव्यों का जानना जीवानुभाग है। ज्वर, कुष्ठ और क्षय आदि का विनाश करना और उत्पन्न कराना इसका नाम पुद्गलानुभाग है।
श्री वीरसेनाचार्य कहते हैं-योनिप्राभृत में कहे गये मंत्र-तंत्ररूप शक्तियों का नाम पुद्गलानुभाग है, ऐसा यहाँ ग्रहण करना चाहिए।जीव और पुद्गलों के गमन और आगमन में हेतु होना धर्मास्तिकायानुभाग है। उन्हीं के अवस्थान में हेतु होना अधर्मास्तिकायानुभाग है। जीवादि द्रव्यों का आधार होना आकाशास्तिकायानुभाग है। अन्य द्रव्यों के क्रम और अक्रम से परिणमन में हेतु होना कालद्रव्यानुभाग जानना चाहिए।इसी प्रकार द्विसंयोगादिरूप से अनुभाग का कथन करना चाहिए। जैसे-मृत्तिकापिण्ड-मिट्टी का पिण्ड, दण्ड, चक्र, चीवर, जल और कुम्हार आदि का घटोत्पादनरूप अनुभाग। इस अनुभाग को भी भगवान जानते हैं।तर्क, हेतु और ज्ञापक, ये एकार्थवाची शब्द हैं। इसे भी भगवान जानते हैं।चित्रकर्म और पत्रछेदन आदि का नाम कला है। कला को भी वे भगवान जानते हैं।मनोवर्गणा से बने हुए हृदय-कमल का नाम मन है, अथवा मन से उत्पन्न हुए ज्ञान को मन कहते हैंं मन से चिंतित पदार्थों का नाम मानसिक है। उन्हें भी जानते हैं।राज्य का परिपालन और महाव्रतादि का परिपालन करने का नाम भुक्ति है, उस भुक्त को भी भगवान जानते हैं। जो कुछ तीनों ही कालों में अन्य के द्वारा निष्पन्न होता है, उसका नाम कृत है। पाँचों इन्द्रियों के द्वारा तीनों ही कालों में जो सेवित होता है, उसका नाम प्रतिसेवित है। आद्य कर्र्म का नाम आदि कर्म है। अर्थपर्याय और व्यंजनपर्यायरूप से सब द्रव्यों की आदि को जानते हैं, यह उक्त कथन का तात्पर्य है।
रहस् शब्द का अर्थ अन्तर और अरहस् शब्द का अर्थ अनन्तर है। अरहस् ऐसा जो कर्म वह अरह: कर्म कहलाता है। उसको जानते हैं। शुद्ध द्रव्यार्थिकनय से विषयरूप से सब द्रव्यों की अनादिता जानते हैं, यह उक्त कथन का तात्पर्य है। सम्पूर्ण लोक में सब जीवों और सब भावों को भगवान् जानते हैं।
यहाँ ‘सर्वजीव’ पद को ग्रहण नहीं करना चाहिए, क्योंकि बद्ध और मुक्तपद के द्वारा उसके अर्थ का ज्ञान हो जाता है ?
आचार्यदेव इसका समाधान करते हैं-
ऐसा नहीं है, क्योंकि एक संख्या विशिष्ट बद्ध और मुक्त का ग्रहण वहाँ पर न होवे, इसलिए इसका प्रतिषेध करने के लिए ‘सर्वजीव’ पद का निर्देश किया है।
जीव दो प्रकार के हैं-संसारी और मुक्त। इनमें मुक्त जीव अनन्त भेदरूप हैं अर्थात् अनन्त हैं, क्योंकि सिद्ध लोक का आदि और अन्त नहीं पाया जाता।
शंका-सिद्धलोक के आदि और अन्त का अभाव कैसे है ?
समाधान-क्योंकि उसकी प्रवाहस्वरूप से अनुवृत्ति है तथा सब सिद्ध जीव सिद्धि की अपेक्षा सादि हैं और सन्तान की अपेक्षा अनादि हैं, ऐसा सूत्रवचन से ज्ञात होता है। संसारी जीव दो प्रकार के हैं-त्रस और स्थावर। त्रस जीव चार प्रकार के हैं-द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय और पंचेन्द्रिय। पंचेन्द्रिय जीव दो प्रकार के हैं-संज्ञी और असंज्ञी। ये सब त्रस जीव पर्याप्त और अपर्याप्त के भेद से दो प्रकार के हैं। अपर्याप्त जीव लब्ध्यपर्याप्त और निर्वृत्यपर्याप्त के भेद से दो प्रकार के हैं। स्थावर जीव पाँच प्रकार के हैं-पृथ्वीकायिक, जलकायिक, अग्निकायिक, वायुकायिक और वनस्पतिकायिक। इन पाँचों ही स्थावरकायिक जीवों में प्रत्येक दो प्रकार के हैं-बादर और सूक्ष्म। इनमें बादर वनस्पतिकायिक जीव दो प्रकार के हैं-प्रत्येक शरीर और साधारण शरीर। यहाँ प्रत्येक शरीर जीव दो प्रकार के हैं-बादरनिगोदप्रतिष्ठित और बादर निगोदअप्रतिष्ठित। ये सब स्थावरकायिक जीव भी प्रत्येक दो प्रकार के हैं-पर्याप्त और अपर्याप्त। अपर्याप्त दो प्रकार के हैं-लब्ध्यपर्याप्तक और निर्वृत्यपर्याप्तक। इनमें से वनस्पतिकायिक अनन्त प्रकार के और शेष असंख्यात प्रकार के हैं। केवली भगवान समस्त लोक में स्थित इन सब जीवों को जानते हैं, यह उक्त कथन का तात्पर्य है।
जीव-अजीव-पुण्य-पाप-आस्रव-संवर-निर्जरा-बंध और मोक्ष के भेद से भाव-पदार्थ नव प्रकार के होते हैं।
श्री वीरसेनाचार्य ने भी कहा है-
जीवाजीव-पुण्य-पाप-आस्रव-संवर-निर्जरा-बंध और मोक्ष ये नौ भेद भाव के हैं। यहाँ इस ग्रंथ में नव पदार्थों का जो क्रम कहा गया है वही क्रम पाक्षिक प्रतिक्रमण में श्रीमान् गौतम गणधर भगवान ने कहा है, उसे देखना चाहिए और उनमें कोई परिवर्तन नहीं करना चाहिए।
तत्त्वार्थसूत्र ग्रंथ में इनका क्रम कुछ भिन्न प्रकार से है, उस ग्रंथ की अपेक्षा उनका श्रद्धान करना चाहिए, ऐसा यहाँ अभिप्राय है।
जैसा कि तत्त्वार्थसूत्र में कहा है-‘‘जीव-अजीव-आस्रव-बंध-संवर-निर्जरा और मोक्ष ये सात तत्त्व हैं।’’
द्रव्यसंग्रह ग्रंथ में इन्हीं सात तत्त्वों में पुण्य और पाप को मिलाकर नव पदार्थ बताये गये हैं।
उनमें से धवला टीका के आधार से जीवों का कथन कर आये हैं। अजीव दो प्रकार के हैं-मूर्त और अमूर्त। इनमें से मूर्त पुद्गल उन्नीस प्रकार के हैं। जो इस प्रकार हैं-
एक प्रदेशी वर्गणा, संख्यात प्रदेशी वर्गणा, असंख्यातप्रदेशीवर्गणा, अनंतप्रदेशीवर्गणा, आहारवर्गणा, अग्रहणवर्गणा, तैजसशरीरवर्गणा, अग्रहणवर्गणा, भाषावर्गणा, अग्रहणवर्गणा, मनोवर्गणा, अग्रहणवर्गणा, कार्मणवर्गणा, ध्रुवस्कंधवर्गणा, सान्तरनिरन्तरवर्गणा, ध्रुवशून्यवर्गणा, प्रत्येकशरीरवर्गणा, ध्रुवशून्यवर्गणा, बादरनिगोदवर्गणा, ध्रुवशून्यवर्गणा, सूक्ष्मनिगोदवर्गणा, ध्रुवशून्यवर्गणा और महास्कंधवर्गणा। इन तेईस वर्गणाओं में से चार ध्रुुवशून्यवर्गणाओं के निकाल देने पर उन्नीस प्रकार के पुद्गल होते हैं और वे प्रत्येक अनंत भेदों को लिए हुए हैं।
अमूर्त चार प्रकार के हैं-धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय और काल। काल घनलोक प्रमाण है, शेष एक-एक है। आकाश अनन्तप्रदेशी है, काल अप्रदेशी है और शेष असंख्यातप्रदेशी हैं ऐसा जानना चाहिए।
शुभ प्रकृतियों का नाम पुण्य है और अशुभ प्रकृतियों का नाम पाप है। यहाँ घातिचतुष्क पापरूप हैं। अघाति चतुष्क मिश्ररूप है, क्योंकि इनमें शुभ और अशुभ दोनों प्रकृतियाँ संभव हैं। मिथ्यात्व, असंयम, कषाय और योग ये आश्रव हैं। इनमें से मिथ्यात्व पाँच प्रकार का है। असंयम बयालीस प्रकार का है। कहा भी है-
गाथार्थ-पाँच रस, पाँच वर्ण, दो गंध, आठ स्पर्श, सात स्वर, मन और चौदह प्रकार के जीव, इनकी अपेक्षा अविरमण अर्थात् इन्द्रिय व प्राणीरूप असंयम बयालीस प्रकार का है।।३३।।
अनन्तानुबंधी क्रोध, मान, माया और लोभ, प्रत्याख्यानावरण क्रोध, मान, माया और लोभ, अप्रत्याख्यानावरण क्रोध, मान, माया और लोभ, संज्वलन क्रोध, मान, माया और लोभ, हास्य, रति, अरति, शोक, भय, जुगुप्सा तथा स्त्रीवेद, पुरुषवेद और नपुंसकवेद से कषाय पच्चीस प्रकार की है। योग पन्द्रह प्रकार का है।
आस्रव के प्रतिपक्ष का नाम संवर है।
ग्यारह भेदरूप श्रेणि के द्वारा कर्मों का गलना निर्जरा है।
जीवों और कर्म-पुद्गलों के समवाय का नाम बंध है। जीव और कर्म का नि:शेष-पूर्ण रूप से विश्लेष-अलग होना मोक्ष है। इन सब भावों को केवली भगवान् जानते हैं। समं अर्थात् अक्रम से-युगपत्-एक साथ जानते हैं। यहाँ जा
‘समंं’ पद का ग्रहण किया है वह केवलज्ञान अतीन्द्रिय है और व्यवधानादि से रहित है, इस बात को सूचित करता है, अन्यथा सब पदार्थों का युगपत् ग्रहण करना नहीं बन सकता। संशय, विपर्यय और अनध्यवसाय का अभाव होने से अथवा त्रिकालगोचर समस्त द्रव्यों और उनकी पर्यायों का ग्रहण होने से केवली भगवान् सम्यक् प्रकार से जानते हैं।
यहाँ कोई शंका करता है-
शंका-केवली भगवान के अशेष बाह्य पदार्थों का ग्रहण होने पर भी उनका सर्वज्ञ होना संभव नहीं है, क्योंकि उनके स्वरूपपरिच्छित्ति अर्थात् अपने को जानने का अभाव है ?
आचार्यदेव इसका समाधान करते हैं-
समाधान-ऐसा नहीं कहना चाहिए, क्योंकि सूत्र में ‘पस्सदि’ कहा है अर्थात् वे त्रिकालगोचर अनन्त पर्यायों से उपचित आत्मा को भी देखते हैं, ऐसा जानना चाहिए।
पुन: कोई आशंका करता है-
शंका-केवलज्ञान की उत्पत्ति होने के बाद सब कर्मों का क्षय हो जाने पर शरीर रहित हुए केवली उपदेश नहीं दे सकते, इसलिए तीर्थ का अभाव प्राप्त होता है ?
आचार्यदेव इसका भी समाधान देते हैं-
समाधान-ऐसा नहीं कहना, क्योंकि सूत्र में ‘विहरदि’ ऐसा कहा है अर्थात् चार अघाति कर्मों का सत्त्व होने से वे कुछ कम एक पूर्व कोटि काल तक विहार करते हैं, इसलिए केवली भगवान की दिव्यध्वनि खिरती है, उनका उपदेश होता है यह निश्चय करना चाहिए।
इसका विस्तृत वर्णन करते हैं-
श्रीमान् गौतम गणधर स्वामी ने वृहत्प्रतिक्रमण सूत्र में ऐसा ही कहा है, जो इस प्रकार है-‘‘हे आयुष्मन्तों! मैंने काश्यपगोत्रीय, सर्वज्ञ, सर्वलोकदर्शी, महाश्रमण भगवान महति-महावीर की दिव्यध्वनि सुनी है। उन्होंने समस्त देव-असुर-मानव आदि से सहित तीनों लोकों को प्रत्यक्ष जान और देखकर सबकी आगति-गति-च्यवन (कहाँ से कौन सा जीव च्युत होता है), जन्म (कहाँ और वैâसे जन्म लेता है), बंध-मोक्ष-ऋद्धि-स्थिति-द्युति-अनुभाग-तर्कशास्त्र-कला-मन और मानसिक स्थिति-भूत-कृत-प्रतिसेवित-कृषि आदि षट्कर्म, द्वीप-समुद्र आदि अकृत्रिम कर्म तथा सम्पूर्ण लोक के सभी जीवों के समस्त भावों को भी युगपत्-एक साथ जान लिया और देख लिया है। वे भगवान् महावीर श्रीविहार करते हुए जब समवसरण में विराजमान हुए तब उन्होंने अपनी दिव्यध्वनि के द्वारा मुनियों के लिए सम्यक् प्रकार से पाँच महाव्रत तथा रात्रिभोजन त्यागरूप छठे अणुव्रत का, पच्चीस भावना, उत्तरपदों सहित आठ मातृकापद आदि धर्म का उपदेश दिया था।’’
इस षट्खण्डागम ग्रंथ में ८२वें सूत्र में भट्टारक श्री भूतबली आचार्यदेव ने केवली भगवन्तों का ही विशेष विवेचन किया है अत: पहले वृहत्प्रतिक्रमण सूत्र में श्रीमान् गौतम गणधर देव ने कहा है कि मैंने भगवान् महावीर के मुख से जो बातें प्रत्यक्ष रूप से सुनी हैं उन्हीं को आप सुनें अर्थात् हे आयुष्मान् भव्यात्माओं! महाव्रत आदि मोक्ष प्राप्ति के कारणभूत हैं। इन महाव्रत आदि के धारक जो साधुगण हैं, उनके व्रतों में कुछ अतिचार आदि जो कोई दोष उत्पन्न हो जाते हैं उनके क्षालन हेतु प्रतिक्रमण सूत्र प्ररूपित किये हैं, ऐसा यहाँ जानना चाहिए।
यहाँ षट्खण्डागम की धवला टीका में कथित श्री वीरसेनाचार्य के अनुसार ही नव प्रकार के भाव-पदार्थ प्ररूपित किये हैं-‘‘जीव-अजीव-पुण्य-पाप-आस्रव-संवर-निर्जरा-बंध और मोक्ष के भेद से भाव नव प्रकार के होते हैं।’’
श्री गौतम स्वामी ने भी नव पदार्थों का क्रम इसी प्रकार कहा है-
‘‘जीव-अजीव-पुण्य-पाप-आस्रव-संवर-निर्जरा-बंध और मोक्ष के भेद से नव पदार्थ उपलब्ध होते हैं।’’
वर्तमान में कुछ साधु एवं विद्वानों ने इस प्रतिक्रमणसूत्रपाठ में तत्त्वार्थसूत्र के आधार से परिवर्तन कर दिया है, किन्तु यह ठीक नहीं है। पूर्वाचार्यों के द्वारा कथित सूत्र कभी भी परिवर्तनीय नहीं होते हैं। मूलाचार एवं समयसार ग्रंथ में श्री कुंदकुंद आचार्य ने भी यही क्रम नौ पदार्थों का लिया है, वहाँ अवलोकन करना चाहिए।
इस प्रकार केवली भगवान् समवसरण में स्थित असंख्य भव्य जीवों को दिव्यध्वनि के द्वारा धर्मामृत का पान कराते हैं।
श्रीयतिवृषभ आचार्य ने तिलोयपण्णत्ति ग्रंथ में दिव्यध्वनि का लक्षण कहा है-
गाथार्थ-अठारह महाभाषा, सात सौ क्षुद्रभाषा तथा और भी जो संज्ञी जीवों की समस्त अक्षरात्मक-अनक्षरात्मक भाषायें हैं, उनमें तालु, दांत, ओष्ठ और कंठ के व्यापार से रहित होकर एक ही समय में केवली भगवान भव्य प्राणियों को दिव्यध्वनि के द्वारा उपदेश देते हैं।।९०१-९०२।।
उन तीर्थंकर भगवन्तों के उपदेश का सार प्राप्त करके हम लोगों को भी निज आत्मतत्त्व की भावना भानी चाहिए, ऐसा तात्पर्य अर्थ जानना।
अब केवलज्ञान गुण के प्रतिपादन हेतु पुन: एक सूत्र अवतरित होता है-
सूत्रार्थ-
सिद्धान्तचिंतामणिटीका-इस प्रकार के गुणों से विशिष्ट केवलज्ञान होता है।
यहाँ कोई शंका करता है-
शंका-गुण में गुण वैâसे हो सकते हैं ?
आचार्यदेव इसका समाधान देते हैं-
समाधान-यहाँ केवलज्ञान के द्वारा केवलज्ञानी का निर्देश किया है। इस प्रकार के केवली होते हैं यह उक्त कथन का तात्पर्य है।
इस प्रकार केवलज्ञानावरणीय कर्म की प्ररूपणा की गई है।
अब इसका विस्तार करते हैं-
श्री कुंदकुंददेव ने नियमसार में कहा है-
गाथार्थ-जो केवल, इन्द्रियरहित और असहाय है वह स्वभावज्ञान है तथा विभावज्ञान सम्यक्ज्ञान और मिथ्याज्ञान के भेद से दो प्रकार का होता है।।११।।
श्रीमान् भट्टाकलंक आचार्यदेव ने भी केवल शब्द की व्याख्या महत्त्वपूर्ण शब्दों में की है-
मन-वचन-काय के आश्रयपूर्वक बाह्य और आभ्यंतर तपक्रियाओं का जो महापुरुष सेवन करते हैं-पालन करते हैं, वह केवल कहलाता है।
प्रवचनसार ग्रंथ में भी केवलज्ञान का लक्षण कहा है-
गाथार्थ-विशेष रीति से सभी द्रव्य-समूह की विद्यमान और अविद्यमान (अतीत-अनागत) सम्पूर्ण पर्यायें वर्तमानकालीन पर्यायों के समान ही उस ज्ञान में वर्तती हैं। जो पर्यायें अभी उत्पन्न नहीं हुई हैं और जो होकर नष्ट हो गई हैं, वे पर्यायें असद्भूत-अविद्यमान हैं, ये सब पर्यायें ज्ञान के प्रत्यक्ष हैं। यदि भविष्यत् पर्यायें और नष्ट हुई भूतकालीन पर्यायें ज्ञान के प्रत्यक्ष नहीं हैं तो वह ज्ञान ‘‘दिव्य’’ है, ऐसे कौन
कहेंगे ?।।३७-३८-३९।।
विशेषार्थ-उन सभी द्रव्यों से संबंधित अपने-अपने प्रदेश, काल, आकार आदि विशेषता को लिए हुए जो भी सद्भूत-वर्तमान और असद्भूत-अविद्यमान भूत-भविष्यत् पर्यायें हैं, वे सब अतीन्द्रिय केवलज्ञान में तत्काल हुई-वर्तमान पर्यायों के समान ही झलकती हैं।
जैसे कि दीवाल पर बने हुए चित्रों में बाहुबली-भरत आदि हो चुके मनुष्यों के रूप और महापद्म तीर्थंकर आदि आगे होने वाले महापुरुषों के रूप भी वर्तमान के समान ही देखे जाते हैं, वैसे ही केवलज्ञान में भी तीन काल की समस्त पर्यायें वर्तमान के समान ही स्फुरायमान हो जाती हैं अथवा अतीत और अनागत पर्यायों के जो ज्ञेयाकार हैं वे उस ज्ञान में वर्तमान ही रहते हैं इसलिए जो पर्यायें अभी उत्पन्न नहीं हुई हैं और जो होकर नष्ट हो गई हैं वे पर्यायें यद्यपि असद्भूत हैं तो भी केवलज्ञान में प्रत्यक्ष ही हैं। यदि वे उस ज्ञान में प्रत्यक्ष न होवें, तो उस ज्ञान को ‘‘दिव्य’’ है, ऐसा निश्चय से कौन कहेंगे। अर्थात् कोई भी नहीं कहेंगे, वह ज्ञान असहाय है, क्योंकि अन्य की अपेक्षा नहीं रखता है और क्षायोपशमिक ज्ञान से मिश्रित नहीं है। इस कारण वही स्वभावज्ञान कहलाता है, क्योंकि वह इक्षु की मधुरता के समान आत्मा का सहज स्वभाव है। नियमसार ग्रंथ में ‘टीकाकार श्री पद्मप्रभ मलधारी देव ने इस स्वभाव ज्ञान के कार्यकारण की अपेक्षा दो भेद कर दिये हैं। उसमें सहज विमल केवलज्ञान है वह कार्य स्वभावज्ञान है और परम पारिणामिक भाव में स्थित तीनों काल में उपाधि रहित जो सहजज्ञान है वह कारणस्वभाव ज्ञान है, क्योंकि वह केवलज्ञान का कारण है अथवा केवलज्ञान कार्य है और वीतराग स्वसंवेदन ज्ञान कारण है, क्योंकि उसकी उत्पत्ति में वह कारण है। यह केवलज्ञान स्वभावज्ञान है। निर्ग्रन्थसंज्ञक क्षीणकषाय गुणस्थानवर्ती मुनि के अंतिम समय में कर्मों की तिरेसठ प्रकृतियों का अभाव हो जाने पर प्रगट होता है।
सिद्धान्तचिंतामणिटीका-वर्तमान में कुछ विद्वान् कहते हैं कि सर्वज्ञ केवली भगवान् भूतकाल की नष्ट हो चुकी पर्यायों को एवं भविष्य की जो पर्यायें अभी बनी ही नहीं है उन सबको नहीं जानते हैं। वे केवल द्रव्य को ही जानते हैंं, ऐसा कथन ठीक नहीं है। ऊपर में कही गई श्री कुन्दकुन्ददेव की यह गाथा पढ़कर उन सभी को अपनी शंका निर्मूल कर लेनी चाहिए।
श्रीमान् गौतमगणधर स्वामी ने भी वीरभक्ति में कहा है-
श्लोकार्थ-जो जगत् के समस्त द्रव्यों को, उनके गुणों को तथा उनकी चर-अचर समस्त भूत-भावि-वर्तमान पर्यायों को भी सदा विधिवत् युगपत् प्रतिक्षण जानते हैं वे सर्वज्ञ कहलाते हैं, ऐसे सर्वज्ञ जिनेश्वर महति महावीर भगवान को मेरा नमस्कार है।।१।।
यहाँ तात्पर्य यह है कि मति-श्रुत-अवधि और मन:पर्यय ये विभावज्ञान असंख्यात भेद वाले हैं और केवलज्ञान एकमात्र स्वभावज्ञान कहा गया है। यह केवलज्ञान कार्य है तथा मतिज्ञान भेदरूप वीतरागस्वसंवेदनज्ञान कारण है, क्योंकि वह केवलज्ञान की उत्पत्ति का कारण होता है अतएव विभावज्ञान भी सर्वथा हेय नहीं है ऐसा समझना चाहिए। यह केवलज्ञान निर्ग्रन्थ महामुनियों को क्षीणकषाय गुणस्थान के अन्त समय में त्रेसठ कर्मप्रकृतियों के नाश करने पर प्राप्त होता है-उत्पन्न होता है।
यद्यपि शुद्धनय से संसारीजीव भी शश्वत्-सदाकाल कर्मबल से अस्पृष्ट होने से स्वभावज्ञानमयी ही हैं, फिर भी अशुद्धनय से अनादिकाल से कर्मों से बंध हुआ होने के कारण स्वभाव ज्ञान से शून्य हैं अथवा शक्तिरूप से वे भी स्वभावज्ञान से सहित हैं, व्यक्तरूप से नहीं। ऐसा जानकर जो संयत महामुनिराज निर्विकल्प समाधिरूप स्वसंवेदन ज्ञान में समस्त विभाव परिणामों का त्याग करके रति-प्रीति करते हैं वे ही वास्तव में धन्य माने जाते हैं, वे ही परमाल्हाद एक लक्षण सुख के अविनाभूत स्वभावज्ञान को प्राप्त करते हैं ऐसा श्रद्धान करते हुए हमें भी निश्चयनयस्वरूप अखण्डज्ञानमय प्रतिभासरूप ही मेरी आत्मा भी बादलों से रहित सूर्य के समान है, ऐसा ध्यान करना चाहिए।
इस प्रकार बारहवें स्थल में केवलज्ञानावरण के कथन और केवलज्ञानी का भी प्रतिपादन करने वाले पाँच सूत्र पूर्ण हुए।