मंगलाचरण
गणिनीज्ञानमतीस्तवनम्
शार्दूलविक्रीडित छन्द-
यज्ज्ञानं च भवाब्धितीरतरणे नौकासमं वर्त्तते।
यद्वाणी शुभमानसाम्बुजरविर्शास्त्रार्थसम्बोधिनी।।
यत्कीर्तिः खलु दिक्षु विस्तृततरा चन्द्रोज्ज्वला शर्मदा।
वन्देऽहं स्वात्मैकसाधनरतां श्रीज्ञानमत्यार्यिकाम् ।।१।।
यस्याः शान्तिरनल्पकोपशमने धैर्यं वरं सौख्यकृत्।
नानाग्रन्थसुरत्नवृन्दरचितं सद्बोधिरत्नप्रदम् ।।
दुर्दान्तप्रतिवादिवादनिपुणा गणिनीपदालंकृता।
वन्देऽहं स्वात्मैकसाधनरतांश्रीज्ञानमत्यार्यिकाम् ।।२।।
नाना तर्कपरायणा गुणयुता लावण्यपूर्णामुखा।
न्यायव्याकरणादिग्रन्थरचना नैपुण्यसिद्धा वरा।।
तीर्थोद्धारधुरन्धरा मतिवरा वात्सल्यरत्नाकरा।
वन्देऽहं स्वात्मैकसाधनरतां श्रीज्ञानमत्यार्यिकाम् ।।३।।
वैराग्यद्रुमवर्धने जलधरा साध्वी सभाग्रेसरा।
शिष्याणामुपकारकार्यकुशला सिद्धान्तपारंगता।।
सम्यग्दर्शन ज्ञानचक्रसहिता सद्ब्रह्मचर्यार्चिता।
वन्देऽहं स्वात्मैकसाधनरतां श्रीज्ञानमत्यार्यिकाम् ।।४।।
छोटेलाल इति श्रुतस्सुजनको यस्यास्ति धर्मोद्यतः।
गार्हस्थ्ये कुशला सतीगुणयुता माता मता मोहिनी।।
आर्या रत्नमती प्रसिद्धनाम्ना यज्जन्मदात्री सती।
वन्देऽहं स्वात्मैकसाधनरतां श्रीज्ञानमत्यार्यिकाम् ।।५।।
यन्नामस्मरणं प्रकाशकरणं बोधिं समाधिप्रदम् ।
भव्यानां सकलार्थसिद्धिसदनं संसारपापापहम् ।।
अज्ञानानलदाहशान्तिसलिलं यद्दर्शनं शर्मदं।
वन्देऽहं स्वात्मैकसाधनरतां श्रीज्ञानमत्यार्यिकाम् ।।६।।
जम्बूद्वीपकृतिः सुनिर्मितवती यस्या समालम्बने।
यस्याः प्रेरणया हि ज्योतिःप्रभा ज्ञानस्य संचारिणी।।
गणिनी ज्ञानमती सुभारतमणिः चारित्रचक्रेश्वरी।
वन्देऽहं स्वात्मैकसाधनरतां श्रीज्ञानमत्यार्यिकाम् ।।७।।
सम्प्रत्यस्ति न शान्तिसागरमुनिः चारित्रचक्रीगुरुः।
तद्वाचः शुभमासतेऽत्र गणिनीमातुः प्रयासेन च।।
या रत्नत्रयधारिणी श्रुतवरा तस्याः समालम्बने।
वन्देऽहं स्वात्मैकसाधनरतां श्रीज्ञानमत्यार्यिकाम् ।।८।।
अनुष्टुप छंद
ज्ञानमत्यार्यिका माता, जीयात् वर्ष शतं भुवि।
चन्दनामतिशिष्यायाः, पूर्यात् सर्वं मनोरथं।।
अथ गणिनी ज्ञानमती महापूजा प्रतिज्ञापनाय पुष्पांजलिं क्षिपेत्।