व्रतादानव्रतत्याग: कार्यो गुरुसमक्षत:।
नो चेत्तन्निष्फलं ज्ञेयं कुत: शिक्षादिकं भवेत्।।
यो स्वयं व्रतमादत्ते स्वयं चापि विमुञ्चति।
तद्व्रतं निष्फलं ज्ञेयं साक्ष्याभावात् कुत: फलम्।।
गुरुप्रद्दिष्टं नियमं सर्वकार्याणि साधयेत्।
यथा च मृत्तिकाद्रोण: विद्यादानपरो भवेत्।।
गुर्वभावतया त्यक्तं व्रतं किं कार्यकृद् भवेत्।
केवलं मृतिकावेश्म किं कुर्यात् कर्तृवर्जितम्।।
अतो व्रतोपदेशस्तु ग्राह्यो गुर्वाननात् खलु।
त्याज्यश्चापि विशेषेण तस्य सातिशया पुन:।।
क्रममुल्लंघ्य यो नारी नरो वा गच्छति स्वयम्।
स एव नरवं याति जिनाज्ञागुरुलोपत:।।