एवं सम्यग्ज्ञानलक्षणप्रमाणं प्रत्यक्षपरोक्षभेदं द्रव्यपर्यायात्मकार्थविषयमज्ञाननिवृत्त्यादिफलं च प्रतिपाद्येदानीं प्रमाणाभासं निरूपयन्नाह—
प्रत्यक्षाभं कथंचित्स्यात्प्रमाणं तैमिरादिकं।।
यद्यथैवाविसंवादि प्रमाणं तत्तथा मतं।।१।।
स्याद्भवेत्। किं प्रत्यक्षाभं प्रत्यक्षप्रमाणाभासमित्यर्थ: अक्षमिंद्रियानिंद्रियं प्रति नियतं प्रत्यक्षं ज्ञानमात्रं तदिवाभातीति व्युत्पत्ते:। किंविशिष्टं तैमिरादिकं तिमिरादागतं तैमिरं तदादिर्यस्याशुभ्रमणादेस्तथोक्तं। तत्किं स्यात् प्रमाणं भवति। कथं कथंचित् भावप्रमेयापेक्षया द्रव्यापेक्षया वा न सर्वथा प्रमाणाभासमेव। बहिरर्थाकारविषय एव ज्ञानस्य विसंवादात्। स्वरूपापेक्षया तस्याविसंवादात्। अत्राविनाभावं दर्शयति यदित्यादि-यत् ज्ञानं यथैव यावद्विषयावबोधनप्रकारेणाविसंवादि विसंवादो गृहीतार्थव्यभिचारस्तद्रहितं अविसंवादि तत् ज्ञानं तथा तावद्विषयावबोधनप्रकारेण प्रमाणं मतमिष्टं परीक्षवैâरिति। तथाहि सर्वं संशयादिकं प्रमाणाभासं स्वरूपापेक्षया द्रव्यापेक्षया वा प्रमाणं भवति तत्राविसंवादित्वात्। यद्यत्राविसंवादि तत्तत्र प्रमाणं यथा रसे रसज्ञानं। अविसंवादि च संशयादिकं स्वरूपे द्रव्यरूपादौ वा। ततस्तत्र तत्कथंचित्प्रमाणमिति। विसंवाद एव खल्वप्रामाण्यनिबंधनं अविसंवादश्च प्रामाण्यनिबंधनमिति न्यायस्य सकलवादिसंमतत्वात्। सर्वथाप्रमाणाभासत्वस्य न्यायशून्यत्वात्। बहि:प्रमेयापेक्षायां प्रमाणं तन्निभं च ते इति वचनात्। न हि ज्ञानं स्वरूपे विसंवादि तस्याहंप्रत्ययसिद्धत्वात्। प्रसिद्धे च विषये प्रवर्तमानं कथमप्रमाणं स्यादिति।।
अथेदानीं यत्सौगतै: परिकल्प्यते विकल्पज्ञानं प्रत्यक्षाभासमिति तन्निराकुर्वन्नाह—
स्वसंवेद्यं विकल्पानां विशदार्थावभासनं।।
संहृताशेषचिंतायां सविकल्पावभासनात्।।२।।
भवतिं। किं स्वसंवेद्यं स्वेन तत्त्वज्ञानात्मना संवेद्यं ग्राह्यं स्वसंवेद्यं ज्ञानस्वरूपमित्यर्थ:। वेद्यवेदका-कारद्वयाविरोधात् ज्ञानस्य अन्यथा अवस्तुत्वापते:। किंविशिष्टं विशदार्थावभासनं अर्थस्य परमार्थसतोऽव-भासनमवबोधनमर्थावभासनं। विशदं स्पष्टं तच्च तदर्थावभासनं च तत्तथोक्तं। केषां विकल्पानां घटोऽयं गौरयं शुक्लोऽयं गायकोऽयमित्यादि निश्चयज्ञानानां। कुत: सविकल्पावभासनात् विकल्पो जात्याद्याकारावबोध: सह विकल्पेनेति सविकल्पकं तस्यावभासनादनुभवात्। कदा संहृताशेषचिंतायां संहृता नष्टा अशेषा: स्मृत्यादयश्चिंता विकल्पा यस्यामवस्थायां सा तथोक्ता तस्यां। चक्षुरादिबुद्धौ जात्याद्याकारविशेषस्याव-बोधनस्याप्रतिहतत्वात्ततो विकल्पज्ञानस्य प्रत्यक्षाभासत्वमयुक्तमित्यर्थ:।।
ननु स्वसंवेदनादिप्रत्यक्षबुद्धौ विकल्पा न संत्येवानुपलक्षणादिति प्रत्यवस्थां निराकुर्वन्नाह—
प्रतिसंविदितोत्पत्तिव्यया: सत्योऽपि कल्पना:।।
प्रत्यक्षेषु न लक्षेरंस्तत्स्वलक्षणभेदवत्।।३।।
न लक्षेरन् न विविच्येरन्। का: कल्पना विकल्पा:। केषु प्रत्यक्षेषु स्वसंवेदनादिषु। किंविशिष्टा अपि सत्योऽपि विद्यमाना अपि। पुन: कथंभूता: प्रतिसंविदितोत्पत्तिव्यया: उत्पत्ति: स्वरूपलाभ: व्ययोऽभावप्रत्यय: प्रतिसंविदितौ प्रतिप्राणिसमुपलब्धौ उत्पत्तिव्ययौ यासां तास्तथोक्ता:। न खलु सत्त्वं विना उत्पादव्यय-वत्त्वमनुभूयते। अन्यथाऽतिप्रसंगात्। न चोत्पादव्ययवत्त्वं विकल्पानामसिद्धं कार्यकारणप्रबंधेन प्रवर्तमानत्वात्। न हि निर्विकल्पकाद्विकल्प उत्पत्तुमर्हति। तस्याकिंचित्करणत्वात् विकल्पोत्पादनशक्तिवैकल्यात्। ननु सतां विकल्पानां प्रत्यक्षबुद्धावनुपलक्षणे किं कारणमिति चेत्प्रतिपत्तुरशक्तिरप्रणिधानं चेति ब्रूम:। अत्र निदर्शनमाह-तदित्यादि। तेषां विकल्पानां स्वलक्षणं स्वरूपं तस्य भेद: सजातीयविजातीयव्यावृत्ति:स इव तद्वत्। अयमर्थ: यथा प्रतीतोत्पादव्यया सत्यपि स्वलक्षणव्यावृत्ति: कल्पनासु न लक्ष्यते अनुमानत एव तत्सिद्धे: तथा प्रत्यक्षेषु कल्पना अपि न लक्ष्यंत इति। तर्हि कथमलक्षितानां तासां तत्राप्स्तित्वसिद्धिरिति चेन्न। पुनस्तद्विषयस्मरणान्यथानुपपत्त्या तत्सिद्धे:। संहृतसकलविकल्पावस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था। तत्रापि गोदर्शनं निश्चयात्मकमेव पुनस्तद्विषयस्मरणान्यथानुपपत्ते:। यत्र निश्चयाभावस्तत्र स्मरणं नोत्पद्यते यथा गच्छत्तृणस्पर्शने। अस्ति च पुन: तत्स्मरणमित्यनुमानविकल्पास्तित्वसिद्धे: तत्स्वलक्षणव्यावृत्तिसिद्धिवत्। न हि तद्यावृत्तिरध्यक्षत: सिद्धा तथाऽननुभवनात्। तत: स्थितं निश्चय: प्रमाणमविसंवादादिति।।
एतदेव समर्थयमान: प्राह—
अक्षधीस्मृतिसंज्ञाभिश्चिंतयाऽऽभिनिबोधिवैâ:।।
व्यवहाराविसंवादस्तदाभासस्ततोऽन्यथा।।४।।
प्रमाणमित्यनुवर्तते। तेनाभिसंबंधादक्षध्यादीनां प्रथमांतत्त्वमर्थवशाद्विभक्तिविपरिणाम इति न्यायात्। तत एवं व्याख्यायते-अक्षधीस्मृतिसंज्ञाभिश्चिंतयाऽऽभिनिबोधिवैâश्च व्यवहारे हानोपदानरूपेऽवि-संवादाव्यभिचार: सकलव्यवहारिणां प्रतीतिसिद्ध:। ततस्तानि प्रमाणं भवंतीत्यर्थ:। अक्षैर्जनिता धी: अक्षधी:। सांव्यवहारिकप्रत्यक्षं। स्मृतिरतीतार्थावमर्शिनी। संज्ञा प्रत्यभिज्ञा। चिंता तर्क: आभिनिबोधिकमनुमानं। अभिनिबोधो हेतोरन्यथानुपपत्तिनियमनिश्चयस्तत्र भवमाभिनिबोधिकमिति व्याख्यानात्। एतैश्च प्रमेयं परिच्छेद्य प्रवर्तमानो हानादिफले न विसंवाद्यते इति कथं न प्रामाण्यं तेषामिति। नन्वेवं तेषां प्रामाण्यं कथमित्याशंकां निराकरोति-ततो व्यवहाराविसंवादादन्यथा तद्विसंवादप्रकारेण। तदाभास: प्रमाणाभासोऽक्षाध्यादेरिति। न खल्वर्थक्रियाव्यभिचारिण: प्रमाणत्वमतिप्रसंगात्। तत्र प्रत्यक्षाभासा: संशयविपर्यासानध्यवसायादर्शनादय:। अतस्मिंस्तदिति परामर्श: स्मृत्याभास:। अतत्सदृशे तत्सदृशमिदमतस्मिंस्तदेवेद मित्यााfद प्रत्यभिज्ञानाभास:। असंबद्धे व्याप्तिग्रहणं तर्काभास:। असिद्धविरुद्धानैकांतिकाकिंचित्कारा हेत्वाभासा:। प्रत्यक्षादिबाधित: साध्याभास:। साध्यसाधनोभयविकला दृष्टांताभासा:। विस्तर: परीक्षामुखालंकारादौ द्रष्टव्य:।।
अथेदानीं श्रुतज्ञानस्य प्रमाणेतरव्यवस्थां प्रतिपादयति—
प्रमाणं श्रुतमर्थेषु सिद्धं द्वीपांतरादिषु।।
अनाश्वासं न कुर्वीरन् ×ाâचित्तद्व्यभिचारत:।।५।।
व्यवहाराविसंवाद इत्यनुवर्तते। आप्तवचनादिनिबंधनं मतिपूर्वकमर्थज्ञानं श्रुतं तच्च प्रमाणं सिद्धमेव। केन सिद्धमिति चेत् व्यवहाराविसंवादादित्युच्यते। प्रत्यक्षादिवत्। केषु अर्थेषु प्रमेयेषु। कीदृक्षु द्वीपांतरादिषु प्रकृतो जम्बूद्वीप:। तस्मादन्ये धातकीखंडादयो द्वीपांतराणि तान्यादिर्येषां कालस्वभावव्यवहितानां ते तथोक्ता: तेषु। देशकालाकारविप्रकृष्टेष्वित्यर्थ:। न हि श्रुतादर्थं परिच्छिद्य प्रवर्तमानो रसायनादिक्रियायां विसंवाद्यते ग्रहणादौ वा मलयादिप्राप्तौ वा। ततोऽनाश्वासमविश्वासं न कुर्वीरन् परीक्षका:। कुत: ×ाâचित्तद्व्यभिचारत: ×ाâचिन्नदीतीरे मोदकादिप्रतिपादने तस्य श्रुतस्य व्यभिचारो विसंवादस्तस्मात्। न हि ×ाâचिद्विसंवादादप्रामाण्ये ज्ञानस्य सर्वत्राप्रामाण्यं शंकनीयं प्रत्यक्षादिष्वपि तथात्वप्रसंगात् सकलव्यवहारविलोपापत्ते:। श्रुतविषये वादिनां विप्रतिपत्तिदर्शनादप्रामाण्यमिति चेत् प्रत्यक्षादावपि तत एवाप्रामाण्यमस्तु विशेषाभावात्। यथैव हि परलोकपुण्यपापसर्वज्ञादौ श्रुतविषये वादिनां विप्रतिपत्तिस्तथा प्रत्यक्षादिविषयेऽपि जीवाद्यर्थे सदसन्नित्यानित्यादिविप्रतिपत्तिरस्तीति। ततोऽविसंवाद१कृता प्रामाण्येतरव्यवस्था श्रुतस्यान्यस्य वा प्रतिपत्तव्या न्यायत्वात्।
श्रुतस्य सर्वत्राप्रामाण्यशंकायामतिप्रसंगं दर्शयति—
प्राय: श्रुतेर्विसंवादात्प्रतिबंधमपश्यतां।
सर्वत्र चेदनाश्वास: सोऽक्षलिंगधियां सम:।।६।।
चेद्यदि भवेत्। क: अनाश्वास: अविश्वास:। ×ाâ सर्वत्र अविसंवादिश्रुतिप्रामाण्ये। केषां प्रतिबंधमपश्यतां शब्दार्थयो: सहजयोग्यतालक्षणं संबंधमनीक्षमाणानां सौगतानां। कस्मात् विसंवादात्। कस्या: श्रुतेरागमस्य। कथं प्राय: ×ाâचित्कदाचिदित्यर्थ:। तदा सोऽनाश्वास: सम: समान:। कासां अक्षलिंगधियां अक्षमिंद्रियं लिंगं हेतु: ताभ्यां जनिता धियो ज्ञानानि तासामपि प्रसक्तमित्यर्थ:। ×ाâचित्कदाचिद्विसंवाददर्शनात्। अदुष्टकारणजन्यं प्रत्यक्षमनुमानं वा अर्थं न विसंवदतीति चेदाप्तवचनाददुष्टादुद्भूतं श्रुतमपि किं विसंवदेदिति समानं।
सर्वत्र श्रुतस्यानाश्वासेऽनिष्टांतरमावेदयति—
आप्तोक्तेर्हेतुवादाच्च बहिरर्थाविनिश्चये।।
सत्येतरव्यवस्था का साधनेतरता कुत:।।७।।
का भवेन्न काऽपीत्यर्थ:। का सा सत्येतरव्यवस्था सत्यं सुगतवचनं इतरच्चासत्यं कपिलादिवचनं तयोर्व्यवस्था विभाग:। तथा साधनेतरता च साधनं स्वेष्टसिद्धिनिबंधनं लिंगं सत्त्वादि इतरच्च साधनाभासं तयोर्भाव: साधनेतरता। साऽपि कुत: कस्माद्व्यवतिष्ठते इत्यर्थ:। कस्मिन् सति बहिरर्थाविनिश्चये बहिरर्थस्य विप्रकृष्टस्य प्रमेयस्याविनिश्चयेऽप्रतीतौ। कस्मादाप्तोक्ते: यो यत्रावंचक: स तत्राप्त: तस्योक्तिर्वचनं तत:। न केवलमाप्तोक्तेरपि तु हेतुवादाच्च साधनप्रयोगाच्च। अयमर्थ: आप्तोक्तेर्बहिरर्थाविनिश्चये सुगतेतरवचनयो: सत्येतरव्यवस्था का ? अर्थाविषयत्वाविशेषात्। हेतुवादाच्च बहिरर्थाविनिश्चये साधनेतरता कुत: बहिरर्थशून्यत्वाविशेषादिति।।
नन्वस्तु सुगतवचनस्याप्यप्रामाण्यं प्रत्यक्षानुमानयोरेव प्रामाण्यात्पुंसां विचित्राभिप्रायत्त्वेनार्थव्यभि-चारादिति दाशबलशंकां निरस्यति—
पुंसश्चित्राभिसंधेश्चेद्वागर्थव्यभिचारिणी।।
कार्यं दृष्टं विजातीयाच्छक्यं कारणभेदि िंक।।८।।
चेद्यदि। वागाप्तवचनं। अर्थव्यभिचारिणी बाह्यार्थविसंवादिनी स्यात्। कस्मात् चित्राभिसंधे:। चित्र: सत्यासत्यादिनानारूपोऽभिसंधिरभिप्रायो विवक्षा तस्मात्। कस्य पुंसो वक्तु: सरागा अपि वीतरागवच्चेष्टंते इति वचनात्। तर्हि विजातीयादपि कारणात् कार्यं दृष्टमविरुद्धं स्यात्। ततस्तत्कारणभेदि कारणं प्रतिनियतं स्वात्मलाभनिबंधनं भिनत्ति विजातीयाद्विशिनष्टीत्येवंशीलं ंिकं शक्यं स्यान्न स्यादेवेत्यर्थ:। तस्य यत: कुतश्चिदुत्पत्तेरविरोधात्। न खल्वनियतकारणजन्यं कार्यं कारणभेदं गमयत्यशक्ते:। तत: कार्यस्य कारणव्यभिचारादलिंगत्वमित्यनुमानोच्छेद इति भाव:। सत् विवेचितं कार्यं कारणं नातिवर्तत इति चेत् सुप्रयुक्ता वागपि यथार्थविवक्षां नातिवर्तते इति कथमर्थव्यभिचार:। ननु विवक्षाधिरूढ एव बागर्थो न बाह्य इति चेन्न। विवक्षायास्तदव्यभिचारात्। वक्तुरिच्छा हि विवक्षा। न च बाह्यार्थनियमं तदिच्छानियमो युज्यते अतिप्रसंगात्। करशाखाशिखराधिकरणकरेणुशतास्तित्वादिप्रतिपादनवचनानां प्रतारणत्वाद-प्रामाण्यसिद्धे:। रागद्वेषमोहाक्रांतपुरुषवचनस्यागमाभासत्वात्। तत: सिद्धं श्रुतं प्रमाणं द्वीपांतराद्यर्थेषु विसंवादाभावादिति साधूक्तं।।
प्रमाणाभं कर्थचिद्यदकलंकप्रभांजितं।।
गाव:सौर्यो विवृण्वंति तदेतत्स्यान्मताश्रयात्।।१।।
इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणसंज्ञायां प्रमाणाभासपरिच्छेदश्चतुर्थ:।।
इति भट्टाकलंकशशांकस्मृते लघीयस्त्रये
प्रमाणप्रवेश: प्रथम:।