दीक्षानन्तरं हि सा स्वां स्वाध्याय-मनन-चिन्तनानां धारासु निबध्नाति इति निश्चप्रचम्।
जैनवाङ्गमयस्य विविधविषयाणाम् अध्यात्मागमदर्शन-न्याय-व्याकरण-साहित्यादिविषयाणां सम्यगध्ययनानुशीलनाध्यापनै: परमप्रावीण्यमाप्तवत्येषा संस्कृत-प्राकृतापभ्रंश-कन्नड़-मराठी-गुजराती-त्यादिभाषासु तन्निबद्ध वाङ्गमयेषु च प्रकाम-पाण्डित्यमप्यधिगतवत्येषा सम्प्रति राष्ट्रस्य सर्वश्रेष्ठाग्र-गण्यविदुषी-रूपेण सुप्रतिष्ठिता स्वकीयं ‘ज्ञानमती’-ति नाम सार्थक्यं प्रादात्।
१९९२ तमे खिष्टाब्दस्य अक्टूबरमासस्य अष्टमे दिनाज्र् ‘अन्तर्राज्यीय चरित्र-निर्माणसंगोष्ठ्या: शुभप्रसङ्गे’ हस्तिनापुरे अहं तु प्रथममेव तस्या: दर्शनेन ज्ञानेन चातितपस्वितया विनयेन दाक्षिण्येन च मधुरालापतया च नि:संगतया च प्रशान्तत्वेन च निरभिमानतया च महानुभावत्वेन च शुचितया चोपरुढगौरवोऽनभूवम्, तदानीन्तु तस्या: संघेन दर्शितसद्भावेन स्ववृत्तान्तकथनेन तया च मौनतया हृतहृदय: सुतरामारोपितभक्तिरभवत्।