नमस्कारपञ्चत्रिंशत्कायां सप्तम्यां सप्त पञ्चम्या:
पञ्चचतुर्दश्याश्चतुर्दश नवम्या: नवोपवासा: कथिता:।
एतन्नमोकारपञ्चत्रिंशत्कमेतदक्षरसमुदायं विभज्यैकेकाक्षरस्योपवास:
करणीय:। अस्मिन् व्रते न मासतिथ्यादिको नियम:,
केवलां तिथिं प्रपद्य भवतीति तिथिसावधिकानि व्रतानि।