पुष्पाञ्जलिस्तु भाद्रपदशुक्लां पञ्चमीमारभ्य
शुक्लानवमीपर्यन्तं यथाशक्ति पञ्चोपवासा: भवन्ति।।
पुष्पांजलिव्रतं पञ्चदिनपर्यंतं करणीयम्। तत्र केतकीकुसुमादिभि:
चतुर्विंशतिविकसितसुगंधित-सुमनोभिश्चतुर्विंशतिजिनान् पूजयेत्।
यथोक्तकुसुमाभावे पूजयेत् पीततन्दुलै:।
पञ्चवर्षानन्तरं उद्यापनं कार्यम्।
केवलज्ञानसम्प्राप्तिरेतस्य परमं फलम्।
तिथिक्षये वा तिथिवृद्धौ पूर्वोक्त एव क्रम: स्मर्तव्य:।
पुष्पाञ्जलिव्रते पंचमीषष्ठ्योरुपवास: सप्तम्यां पारणा अष्टमीनवम्योरुपवास: दशम्यां पारणा,
एकान्तरेण तु तिथिक्षये चादिदिने गृहीते पारणाद्वयंं मध्ये कार्यम्;
पञ्चम्यामष्टम्यां च षष्ठ्यामष्टम्यां वा यथैकान्तरं स्यात्तथा कार्यम्;
एतत् पुष्पांजलिव्रतं कर्मरोगहरं मुक्तिप्रदं च पारम्पर्येण भवति।