मंगलं पार्श्वनाथोऽर्हन्, पितरौ तस्य मंगलम्।
मंगलं गर्भकल्याणं, वाराणसी च मंगलम्।।१।।
शासनं वीरनाथस्य, वर्तते भुवि सांप्रतम्।
गौतमादिमहर्षीणा-मनुवीचिपरंपरा।।२।।
तस्यां च मूलसंघेऽस्मिन्, कुंदकुंदान्वयो महान्।
बलात्कारगण: ख्यात:, शारदागच्छ इत्यपि।।३।।
एतस्यां मणिमालायां, प्रथमाचार्यविश्रुत:।
श्रीशान्तिसागराख्योऽसौ, चारित्रचक्रभृद् महान्।।४।।
तस्य पट्टाधिपोऽप्याद्य:, गुरु: श्रीवीरसागर:।
यस्माज्ज्ञानमती जाता, ह्यल्पज्ञाहं किलार्यिका।।५।।
नवत्रिपंचद्व्यंकेऽब्दे१, वैशाखेऽसितपक्षके।
दीक्षाविधेर्द्वितीयायां-मनुवाद: प्रपूर्यते।।६।।
अर्हन्मुद्रांकिता यावद्, यावत्संघश्चतुर्विध:।
तावद् दीक्षाविधिर्ग्रंथो, दीक्षां भव्याय दीयताम्।।७।।
यावन्मुक्तिर्न मे तावत्, जैनीदीक्षा भवे भवे।
जैनी वाणी हृदि स्थेयात्, जिने भक्ति: स्थिरा भवेत्।।८।।