बीस तीर्थंकर नाम स्तुति:
श्रीमान् सीमंधरो देव:, भगवान् श्री युगमंधर:।
बाहुस्वामी सुबाहुश्च, श्री सुजात:स्वयंप्रभु:।।१।।
वृषभाननतीर्थेशो-ऽनंतवीर्य: जिनेश्वर:।
सूरिप्रभ: श्रीविशाल-कीर्तिर्वङ्काधरो जिन:।।२।।
चंद्राननो भद्रबाहु:, भुजंगमस्तथेश्वर:।
नेमिप्रभो वीरसेन: , महाभद्रो महानपि।।३।।
देवयशोऽजितवीर्यश्-चेत्येते विंशतिर्जिना:।
कुर्वंतु मंगलं नित्यं, विद्यमाना विदेहजा:।।४।।
जम्बूद्वीपेऽथ मध्येऽस्ति, मेरो: पूर्वापरदिशो:।
पूर्वापरविदेहौ तन्मध्ये नद्यौ च द्वे अपि।५।।
ततश्चतुर्भागेष्वपि, चतुर्वक्षारशैलत: ।
त्रिविभंगानदीभिश्चा-प्यष्टौ भागा विदेहके।।६।।
द्वात्रिंशत् ये विदेहा स्यु:, तावंत: प्रतिमेर्वपि।
विदेहनामक्षेत्राणि, षष्ट्युत्तरशतानि वै।।७।।
सीताया उत्तरे भागे, ह्यास्ते सीमंधरो जिन:।
दक्षिणे राजते चापि, युगमंधरतीर्थकृत् ।।८।।
सीतोदापाचि श्री बाहु:, सुबाहुरुत्तरे तटे।
प्रत्यहं विहरन्तो ये, कुर्युरत्रापि मंगलं।।९।।
पंचमहाविदेहेषु, चतुष्चतुर्जिनेश्वरा:।
एवं विंशतयोऽप्येते, विहरंति सदा भुवि।।१०।।
हीनादपि विंशतियो, युगपत् चाधिका अपि।
सप्तत्युत्तरशतानि, तीर्थंकरा भवंत्यपि।।११।।
भरतैरावतस्थानां , संख्येयं दशमेलने।
तांस्तान् सर्वांश्च वंदेऽहं, ज्ञानमत्यै श्रियै ध्रुवं।।१२।।
केचिच्च द्वित्रिकल्याणा,अपि तत्र भवंत्यमी:।
सर्वे पुनंतु मे चित्तं, पंचकल्याणनायका:।।१३।।
स्तोत्रमेवं पठेन्नित्यं, दर्शनं प्राक् करोत्यसौ।
सीमंधरजिनस्यानु, सर्वकल्याणभाग् भवेत् ।।१४।।
अथ जिनयज्ञप्रतिज्ञापनाय मण्डलस्योपरि पुष्पाञ्जलिं क्षिपेत्।