पूर्वदिने भोजनसमये भाजनतिरस्कारविधिं विधाय आहारं गृहीत्वा चैत्यालये आगच्छेत् ततो बृहत्प्रत्याख्यानप्रतिष्ठापने सिद्धयोगभक्ती पठित्वा गुरुपार्श्वे प्रत्याख्यानं सोपवासं गृहीत्वा आचार्य शान्ति-समाधिभक्ती: पठित्वा गुरो: प्रणामं कुर्यात्।
अथ दीक्षादाने दीक्षादातृजन: शान्तिक-गणधरवलयपूजादिकं यथाशक्ति कारयेत्। अथ दाता तं स्नानादिकं कारयित्वा यथायोग्यालज्ररयुक्तं महामहोत्सवेन चैत्यालये समानयेत्। स देवशास्त्रगुरुपूजां विधाय वैराग्य-भावनापर: सर्वैै: सह क्षमां कृत्वा गुरोरग्रे तिष्ठेत। ततो गुरोरग्रे संघस्याग्रे च दीक्षायै यांचां कृत्वा तदाज्ञया सौभाग्यवतीस्त्रीविहितस्वस्तिकोपरि श्वेतवस्त्रं प्रच्छाद्य तत्र पूर्वदिशाभिमुख: पर्यंकासनं कृत्वा आसते, गुरुश्चोत्तराभिमुखो भूत्वा, १संघाष्टकं संघं च परिपृच्छ्य लोचं कुर्यात्।
अथ तद्विधि:-बृहद्दीक्षायां लोचस्वीकारक्रियायां पूर्वाचार्येत्यादिकमुच्चार्य सिद्ध-योगिभक्ती कृत्वा-
ॐ नमोऽर्हते भगवते श्रीमते प्रक्षीणाशेषदोषकल्मषाय दिव्यतेजो-मूर्तये नम: श्रीशांतिनाथाय शान्तिकराय सर्वपापप्रणाशनाय सर्वविघ्न-विनाशनाय सर्वरोगापमृत्युविनाशनाय सर्वपरकृतक्षुद्रोपद्रवविनाशनाय सर्वक्षामडामरविनाशनाय ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अमुकस्य (दीक्षार्थी का नाम) सर्वशान्तिं कुरु कुरु स्वाहा।
इत्यनेन मंत्रेण गन्धोदकादिकं त्रिवारं मंत्रयित्वा शिरसि निक्षिपेत्। शान्तिमंत्रेण गन्धोदकं त्रि:परिषिच्य मस्तकं वामहस्तेन स्पृशेत्। ततो दध्यक्षतगोमयदूर्वांकुरान् मस्तके वर्धमानमंत्रेण निक्षिपेत्-
ॐ णमो भयवदो वड्ढमाणस्स रिसिस्स जं चक्कं जलंतं गच्छइ आयासं पायालं लोयाणं भूयाणं जये वा विवादे वा थंभणे वा रणंगणे वा रायंगणे वा मोहणे वा सव्वजीवसत्ताणं अपराजिदो भवदु रक्ख रक्ख स्वाहा?-वर्धमान मंत्र:।
तत: पवित्रभस्मपात्रं गृहीत्वा ‘‘ॐ णमो अरहंताणं रत्नत्रयपवित्रीकृतोत्त-मांगाय ज्योतिर्मयाय मतिश्रुतावधिमन:पर्ययकेवलज्ञानाय अ सि आ उ सा स्वाहा’’ इदं मंत्रं पठित्वा शिरसि कर्पूरमिश्रितं भस्म परिक्षिप्य ‘‘ॐ ह्रीं श्रीं क्लीं ऐं अर्हं अ सि आ उ सा स्वाहा’’ अनेन प्रथमं केशोत्पाटनं कृत्वा पश्चात् ‘‘ॐ ह्रां अर्हद्भ्यो नम:, ॐ ह्रीं: सिद्धेभ्यो नम:, ॐ ह्रूं सूरिभ्यो नम:, ॐ ह्रौं पाठकेभ्यो नम:, ॐ ह्र: सर्वसाधुभ्यो नम:’’ इत्युच्चरन् गुरु: स्वहस्तेन पंचवारान् केशान् उत्पाटयेत्। पश्चादन्य: कोऽपि लोचावसाने बृहद्दीक्षायां लोचनिष्ठापन-क्रियायां पूर्वाचार्येत्यादिकं पठित्वा सिद्धभक्ति: (क्तिं) कर्तव्या (कुर्यात्) तत: शीर्षं प्रक्षाल्य गुरुभक्तिं दत्वा वस्त्राभरणयज्ञोपवीतादिकं परित्यज्य तत्रैवावस्थाय दीक्षां याचयेत्। ततो गुरु: शिरसि श्रीकारं लिखित्वा ‘‘ॐ ह्रीं अर्हं अ सि आ उ सा ह्रीं स्वाहा’’ अनेन मंत्रेण जाप्यं १०८ दद्यात्। ततो गुरुस्तस्यांजलौ केशरकर्पूरश्रीखंडेन श्रीकारं कुर्यात्। श्रीकारस्य चतुर्दिक्षु-
रयणत्तयं च वंदे, चउवीसजिणं तहा वंदे।
पंचगुरूणं वंदे चारणजुगलं तहा वंदे।।
इति पठन् अंकान् लिखेत्। पूर्वे ३ दक्षिणे २४ पश्चिमे ५ उत्तरे २ इति लिखित्वा ‘‘सम्यग्दर्शनाय नम:, सम्यग्ज्ञानाय नम:, सम्यक्चारित्राय नम:’’ इति पठन् तन्दुलैरञ्जलिं पूरयेत्तदुपरि नालिकेरं पूगीफलं च धृत्वा सिद्धचारित्रयोगिभक्तिं पठित्वा व्रतादिकं दद्यात्। तथा हि-
वदसमििंददियरोधो लोचो आवासयमचेलमण्हाणं।
खिदिसयणमदंतवणं ठिदिभोयणमेयभत्तं च।।१।।
इति पठित्वा तद्व्याख्या विधेया कालानुसारेणेति निरूप्य पंचमहाव्रतपंच-समितीत्यादि पठित्वा सम्यक्त्वपूर्वकं दृढव्रतं सुव्रतं समारूढं ते भवतु इति त्रीन् वारान् उच्चार्य व्रतानि दत्वा तत: शान्तिभक्तिं पठेत्। तत: आशी: श्लोकं पठित्वा अंजलिस्थं तन्दुलादिकं दात्रे दापयित्वा, अथ षोडशसंस्कारारोपणं-
१. अयं सम्यग्दर्शनसंस्कार इह मुनौ स्फुरतु।
२. अयं सम्यग्ज्ञानसंस्कार इह मुनौ स्फुरतु।
३. अयं सम्यक्चारित्रसंस्कार इह मुनौ स्फुरतु।
४. अयं बाह्याभ्यन्तरतप:संस्कार इह मुनौ स्फुरतु।
५. अयं चतुरंगवीर्यसंस्कार इह मुनौ स्फुरतु।
६. अयं अष्टमातृमंडलसंस्कार इह मुनौ स्फुरतु।
७. अयं शुद्ध्यष्टकावष्टंभसंस्कार इह मुनौ स्फुरतु।
८. अयं अशेषपरीषहजयसंस्कार इह मुनौ स्फुरतु।
९. अयं त्रियोगासंगमनिवृत्तिशीलतासंस्कार इह मुनौ स्फुरतु।
१०. अयं त्रिकरणासंयमनिवृत्तिशीलतासंस्कार इह मुनौ स्फुरतु।
११. अयं दशासंयमनिवृत्तिशीलतासंस्कार इह मुनौ स्फुरतु।
१२. अयं चतु: संज्ञानिग्रहशीलतासंस्कार इह मुनौ स्फुरतु।
१३. अयं पंचेन्द्रियजयशीलतासंस्कार इह मुनौ स्फुरतु।
१४. अयं दशधर्मधारणशीलतासंस्कार इह मुनौ स्फुरतु।
१५. अयमष्टादशसहस्रशीलतासंस्कार इह मुनौ स्फुरतु।
१६. अयं चतुरशीतिलक्षगुणसंस्कार इह मुनौ स्फुरतु।
इति प्रत्येकमुच्चार्य शिरसि लवंगपुष्पाणि क्षिपेत्।
‘णमो अरहंताणं’ इत्यादि ‘ॐ परमहंसाय परमेष्ठिने हं स हं स हं हां ह्रं ह्रौं ह्रीं ह्रें ह्र: जिनाय नम: जिनं स्थापयामि संवौषट्, ऋषिमस्तके न्यसेत्। अथ गुर्वावली पठित्वा अमुकस्य अमुकनामा त्वं शिष्य इति कथयित्वा संयमाद्युपकरणानि दद्यात्।
(पिच्छिका प्रदान)
णमो अरहंताणं भो अन्तेवासिन्! षड्जीवनिकायरक्षणाय मार्दवादि-गुणोपेतमिदं पिच्छिकोपकरणं गृहाण गृहाणेति।
(ग्रंथ प्रदान)
ॐ णमो अरहंताणं मतिश्रुतावधिमन:पर्ययकेवलज्ञानाय द्वादशांगश्रुताय नम: भो अन्तेवासिन््! इदं ज्ञानोपकरणं गृहाण गृहाणेति।
(कमण्डलु प्रदान)
कमंडलुं वामहस्तेन उद्धृत्य-
ॐ णमो अरहंताणं रत्नत्रयपवित्रीकरणांगाय बाह्याभ्यन्तरमलशुद्धाय नम: भो अन्तेवासिन्! इदं शौचोपकरणं गृहाण गृहाणेति।
ततश्च समाधि-भक्तिं पठेत्। ततो नवदीक्षितो म्ाुनिर्गुरुभक्त्या गुरुं प्रणम्य अन्यान् मुनीन् प्रणम्योपविशति यावद्व्रतारोपणं न भवति तावदन्ये मुनय: प्रतिवन्दनां न ददति, ततो दातृप्रमुखा जना उत्तमफलानि अग्रे निधाय तस्मै नमोऽस्त्विति प्रणामं कुर्वन्ति।
ततस्तत्पक्षे द्वितीयपक्षे वा सुमुहूर्त्ते व्रतारोपणं कुर्यात्। तदा रत्नत्रयपूजां विधाय पाक्षिकप्रतिक्रमणपाठ: पठनीय:। तत्र पाक्षिकनियमग्रहणसमयात् पूर्वं यदा वदसमदीत्यादि पठ्यते तदा पूर्ववद्व्रतादि दद्यात्। नियमग्रहणसमये यथायोग्यं एकं तपो दद्यात् (पल्यविधानादिकं)। दातृप्रभृतिश्रावकेभ्योऽपि एकं एकं तपो दद्यात्। ततोऽन्ये मुनय: प्रतिवंदनां ददति।