जिनाधीशं मुनिं चन्द्रमकलज्र्ं पुन: पुन:।।
अनंतवीर्यमानौमि स्याद्वादन्यायनायकम्।।१।।
न तज्ज्ञात्वाऽभिमानेन किन्तु मादृक्प्रतीतये।।
लघीयस्त्रयतात्पर्यवृत्तिं वक्ष्ये यथाश्रुतम्१।।२।।
श्रीमतो न्यायशास्त्ररत्नाकरस्यामेयप्रमेयमणिगणगर्भस्यातिगम्भीरस्य बालानां दुरवगाहतया हिताहितविशेषविज्ञानार्थं प्रवचनार्थमुद्धृत्य प्रतिपिपादयिषु: सकलतार्किकचक्रचूडामणिमरीचिमेचकितचरण-नखमयूखोल्लेखो भगवान् भट्टाकलज्र्देव: पोतायमानं लघीयस्त्रयाख्यं प्रकरणं प्रारभमाणस्तदादौ निर्विघ्नतादिफलचतुष्टयजुष्टं परममङ्गलमङ्गीकुरुते—
धर्मतीर्थकरेभ्योऽस्तु। स्याद्वादिभ्यो नमो नम:।।
वृषभादिमहावीरान्तेभ्य: स्वात्मोपलब्धये१।।१।।
अवयवार्थप्रतिपत्तिपूर्विका समुदायार्थप्रतिपत्तिरिति न्यायादस्यादिश्लोकस्य तावदवयवार्थ: कथ्यते।। अस्तु भूयात्। किं ? नमो नम: भृशं पुन: पुनर्वा नमस्कार: प्रणाम इत्यर्थ:। अनेन नमस्कृतावास्तिक्यमास्थितं भृशादौ द्विर्वचनविधानात्। केभ्य: ? वृषभादिमहावीरान्तेभ्य:। वृषभ: पुरुजिन: आदि: प्रथमावयवो येषां ते वृषभादय:। महावीरो वर्धमानजिन: अन्तोऽवसानावयवो येषां ते महावीरान्ता:। वृषभादयश्च ते महावीरान्ताश्च ते तथोक्तास्तेभ्य:। नम: शब्दयोगे चतुर्थीविधानात्। इदमेवाह परममङ्गलं यज्जिनेन्द्रनमनं नाम मलगालनमङ्गाद्गालनलक्षणफलस्यात एव समाप्तेऽपि (?)। मलं पापं गालयति ध्वंसयति मङ्गं पुण्यं लात्यादत्ते अस्मादिति वा मङ्गलमिति निर्वचनात्। ननु जिनेन्द्रनमस्कारवत् श्रुतादिनमस्कारस्यापि मंगलत्वेन तेऽपि किमिति न नमस्कृता इत्याशंक्येदं विशेषणमाह-धर्मतीर्थकरेभ्य इति। धर्म एव तीर्थं, धर्मस्य प्रतिपादकं तीर्थं, धर्माय प्रवर्तनं तीर्थमिति वा धर्मतीर्थं प्रवचनं परमागम इति यावत्। तत्कुर्वन्ति स्वोपज्ञतया प्रतिपादयन्तीति धर्मतीर्थकरास्तेभ्य:। कोऽयं धर्म इति चेत्-उत्तमक्षमादिलक्षणो जीवादिवस्तुस्वभावो जीवस्य सुखप्रद: शुभधर्मरूप: पुद्गलपरिणामश्च धर्म इत्युच्यते। स एव तीर्थं संसारोत्तरणकारणत्वादुत्तमक्षमादे: सामानाधिकरण्याविरोधात्। तस्य तीर्थमित्यप्यविरुद्धं जीवादितत्त्वप्रतिपादकत्वात्प्रवचनस्य। तस्मै तीर्थमिति चानुमतमेवाभिनवपुण्यास्रवप्रयोजनत्वात्परमागमस्येत्यत इदमुपपन्नं। वृषभादिमहावीरान्ता अर्हन्त एव स्वहितैषिभिर्नमस्कार्या धर्मतीर्थकरत्वात्। योऽर्हन्न भवति स न धर्मतीर्थकरो यथा रथ्यापुरुष:। धर्मतीर्थकराश्चैते तस्मात्त एव नमस्कारार्हा इत्यविनाभावनियमनिश्चयैकलक्षणात्साधनात्साध्यसिद्धिरबाधनात्। नन्वनैकान्तिकमिदं धर्मतीर्थत्वं अनर्हत्स्वपि सुगतादिषु दर्शनात्। तेऽपि हि स्वाभिप्रेतधर्मागमप्रतिपादकत्वेन तत्तद्वादिभिरभिधीयन्ते इति चेत् तद् व्यवच्छेदनार्थमाह-स्याद्वादिभ्य इति। स्यात्कथञ्चित् सदसदात्मकं वस्तु वदन्तीत्येवंशीला: स्याद्वादिनस्तेभ्य इति। तथा हि अर्हन्त एव धर्मतीर्थकरा: स्याद्वादित्वात्। न खल्वनर्हतां स्याद्वादित्वमुपपन्नं यतो धर्मतीर्थकरत्वं तेषां प्रकल्प्येत। क्षणिकनित्यत्वादिसर्वथैकान्तवादित्वेन तद्विरुद्धत्वात्। ननु किमर्थं मंगलं शास्त्रकारेणाभिधीयते इत्याशज्रयामाह-स्वात्मोपलब्धये स्वस्य नमस्कर्तुरात्मा अनन्तज्ञानादि-स्वरूपं तस्योपलब्धि: सिद्धिस्तस्यै। सिद्धि: स्वात्मोपलब्धिरित्यभिधानात्। ज्ञानावरणादिमलविलयादनन्तज्ञानादि-स्वरूपलाभस्य मंगलफलत्वोपपत्ते:।।
ननु सुगतादीनां सर्वथैकान्तवादिनामपि धर्मतीर्थकरत्वमविरुद्धमेव बाधकप्रमाणाभावात् तत्तीर्थेऽपि प्रमाणादिलक्षणप्रतिपादनसम्भवादिति प्रत्यवस्थां निराकुर्वन् स्याद्वादवर्त्मनो निष्कण्टकशुद्ध्यर्थमाह—
सन्तानेषु निरन्वयक्षणिकचित्तानामसत्स्वेव चे-।
त्तत्त्वाहेतुफलात्मनां स्वपरसज्र्ल्पेन बुद्ध: स्वयम्।।
सत्त्वार्थं व्यवतिष्ठते करुणया मिथ्याविकल्पात्मक:।
स्यान्नित्यत्ववदेव तत्र समये नार्थक्रिया वस्तुन:।।२।।
बुद्ध: क्षणिवैâकान्तवादी। चेद्यदि। स्वयं आत्मना। व्यवतिष्ठते न निर्वाति (?)। किमर्थं सर्वार्थं दु:खाद्विनेयजनोद्धरणार्थं। कया करुणया कृपया। ‘तिष्ठन्त्येव पराधीना येषां तु महती कृपा’ इति वचनात्। केन व्यवतिष्ठते स्वपरसज्र्ल्पेन स्व: प्रतिपादको बुद्ध: पर: प्रतिपाद्यो दिङ्नागादि: तयो: संकल्पोऽसत: सदारोपो यस्तेन। केषु सन्तानेषु प्रबन्धेषु। किंविशिष्टेषु असत्स्वेव अपरमार्थसत्स्वेव। केषां निरन्वय-क्षणिकचित्तानां क्षणे निरंशकालविशेषे भवानि क्षणिकानि, चित्तानि ज्ञानानि, क्षणिकानि चित्तानि क्षणिकचित्तानि; अन्वयो द्रव्यं तस्मान्निष्क्रान्तानि निरन्वयानि परस्परात्यन्तभिन्नानीत्यर्थ:। तानि च तानि क्षणिकचित्तानि च तेषां। कथम्भूतानां तत्त्वाहेतुफलात्मनां हेतु: कारणं फलं च कार्यं ते आत्मानौ स्वरूपे येषां तानि तथोक्तानि। तत्त्वे परमार्थे न हेतुफलात्मानि तत्त्वाहेतुफलात्मानि तेषामिति। तदा स बुद्ध: कथं धर्मतीर्थकर: स्यादित्यभिप्राय:। मिथ्याविकल्पात्मकत्वात् मिथ्या असत्यो विकल्प: स्वरूपसज्र्ल्प: आत्मा स्वरूपं यस्यासौ तथोक्त:। प्रथमान्तस्यापि हेतुप्रयोगसम्भवात्। किंवत् नित्यत्ववत् यथा वस्तुन: सर्वथानित्यत्वे परमार्थसति व्यवतिष्ठमाना ईश्वरकपिलब्रह्माणो धर्मतीर्थकरा (न) भवन्ति मिथ्याविकल्पात्मकत्वात्तथा बुद्धोऽपीत्यर्थ:।। नन्विदं सर्वमिष्टमेव प्रतिभासाद्वैतस्यैव परमार्थसत्त्वादिति कश्चित्तं प्रत्याह-तत्रेत्यादि, तत्र तस्मिन् समये संगत: समस्तज्ञानेष्वनुगतोऽय: प्रतिभास: समयस्तस्मिन् प्रतिभासाद्वैते। वस्तुनोऽद्वयपदार्थस्य। अर्थक्रियाऽनुभवो न स्यात् मिथ्याविकल्पात्म-कत्वाविशेषात्। ननु स्वप्नेन्द्रजालप्रत्ययवत्सर्वप्रत्ययानां निरालम्बनत्वेन कथमनुमानस्य प्रामाण्यं यतोऽर्हन्नेव धर्मतीर्थकर: साध्यत इति माध्यमिकमतमाशंक्याह-तत्र तस्मिन् समये सम: स्वप्नोद्बोधसाधारणोऽयो बोधस्तस्मिन्। अर्थस्य हेयोपादेयरूपस्य। क्रिया हानोपादानलक्षणा। न स्यात्। कथं वस्तुत: परमार्थत:। पाठान्तरापेक्षयेदमुक्तं। न खल्वप्रमाणा-द्धानादिव्यवस्थाऽतिप्रसंगात्। अनेन विभ्रमैकान्तोऽपि निरस्त:। तत एव यथा क्षणिकत्वाद्येकान्तानां मिथ्याविकल्पात्मकत्वं तथा यथाऽवसरं शास्त्रकार: स्वयमेव वक्ष्यतीत्युपरम्यते।
तदेवं कण्टकशुद्धिं विधाय सम्बन्धाभिधेयशक्यानुष्ठानेष्टप्रयोजननिर्देशपूर्वकं प्रमाणस्य लक्षण-भेदोपलक्षणार्थमिदं सूत्रमाह—
प्रत्यक्षं विशदं ज्ञानं। मुख्यसंव्यवहारत:।।
परोक्षं शेषविज्ञानं। प्रमाणे इति संग्रह:।।३।।
चत्वारो हि प्रतिपाद्या:। व्युत्पन्नोऽव्युत्पन्न: सन्दिग्धो विपर्यस्तश्च। तत्र नाद्यतुर्यौ व्युत्पाद्यौ व्युत्पित्सा-विरहात्। अव्युत्पन्नस्तु लोभभयादिना व्युत्पित्सामापाद्य व्युत्पाद्य:। सन्दिग्धश्च स्वसन्दिग्धार्थप्रश्नकाले व्युत्पाद्य:। तदेतद्व्युत्पाद्यद्वयं प्रति प्रमाणस्योद्देशलक्षणपरीक्षा: प्रतिपाद्यन्ते शास्त्रप्रवृत्तेस्त्रिविधत्वात्। तत्रार्थस्य नाममात्रकथनमुद्देश:। उद्दिष्टस्यासाधारणस्वरूपनिरूपणं लक्षणम्। प्रमाणबलात्तल्लक्षणविप्रतिपत्तिपक्षनिरास: परीक्षा। तत्र प्रमितिरित्युद्देश:। सर्वशून्यवादिनामपि स्वेष्टानिष्टसाधनदूषणान्यथानुपपत्त्या तदभ्युपगमप्रसिद्धे:। तच्च ज्ञानमेव भवतीति लक्षणनिर्देश: अव्याप्त्यादिदोषविधुरत्वात्। प्रमाणत्वान्यथानुपपत्तेरिति हेतुवादरूपा परीक्षा। ततस्तल्लक्षणविप्रतिपत्तिनिरांकरणात्। तथाहि प्रकर्षेण संशयविपर्यासानध्यवसायव्यवच्छेदेन मिमीते जानाति स्वपरस्वरूपं, मीयतेऽनेनेति मितिमात्रं वा प्रमाणमिति व्युत्पत्ते:। निश्चयव्यवहाराभ्यां द्रव्यपर्याययोर-भेदेतरविवक्षया तथा निरुक्ते: सम्भवात्। न चाज्ञानेन संशयादिव्यवच्छेद: शक्यस्तदविरोधात्। यद्यस्य हि विरोधि तदेव तस्य व्यवच्छेदकं नान्यत् प्रकाश इवान्धकारस्य। तदव्यवच्छेदकं चाज्ञानात्मकं सन्निकर्षादिति कथं प्रामाण्यमास्तिघ्नुवीत। न हि रूपवद्रसेऽपि चक्षुस्संयुक्तसमवायलक्षण: सन्निकर्षो विद्यमानोऽपि तत्प्रमाहेतु:। न चक्षुषोऽपि रूपसन्निकर्षोऽस्ति तस्याप्राप्तार्थप्रकाशकत्वात्। न खलु पर्वताद्यर्थप्रदेशं प्रति चक्षुर्गच्छति नाप्यसौ चक्षुर्देशमागच्छति येन तत्संयोग: स्यात्। योग्यप्रदेशावस्थानस्यैव तयो: प्रतीते:। तत्तेज: संयोगोऽस्त्येवेति चेन्न तेज:संयोगात्तमस एव विच्छेदान्न संशयादेरविरोधादित्युक्तमेव। तन्न सन्निकर्ष: प्रमाणमचेतनत्वात् घटादिवत्। नापि कारकसाकल्यं तस्याप्यचेतनत्वाविशेषात्। किञ्च कारकसाकल्यस्य प्रमाणत्वे कर्तृकर्मादीनामपोद्धारायोगान्निरालम्बनं निष्कलं१ च प्रमाणं स्यात्। कारकसाकल्ययोरत्यन्तभेदादयमदोष इति चेत्तदा कथं प्रमाणतत्साकल्ययोरभेद: स्यात्। प्रमाणस्य करणत्वेन तदात्मकत्वायोगात्। अकरणमेव प्रमाणमिति चेन्न क्रियाकारकव्यतिरेकेण तत्सिद्धेरर्थक्रियाशून्यत्वात् खपुष्पवत्। कारकसमुदायपक्षेऽपि तत्प्रमितौ तत्साकल्यलक्षणप्रमाणान्तरे कल्प्यमाने तत्प्रमितावपि तथेत्यनवस्थाप्रसंगात्। ततो न कारकसाकल्यमपि प्रमाणमज्ञानत्वादेव। इंद्रियवृत्ति: प्रमाणमित्यप्यसम्भाव्यमचेतनत्वाविशेषात् सन्निकर्षवत्। किञ्च इंद्रियाणां वृत्तिरुन्मीलनादिव्यापार: संशयादिव्यवच्छेदो वा प्रथमपक्षे न प्रमाणता व्यभिचारात्। क्वचित्संशयादावपि तद् व्यापारदर्शनात्। द्वितीयपक्षे तु ज्ञानमेव प्रमाणमित्यायातं अज्ञाना त्तद् व्यवच्छेदा-नुपलब्धे:। ज्ञानोत्पत्तिकारणत्वादिन्द्रियाणामुपचारत: प्रमाणत्वं सर्वत्रानुमतमेव। ज्ञातृव्यापारस्य प्रामाण्यमपि ज्ञानात्मकत्वे सत्येव सुघटं। संशयादिविच्छित्तिफलस्य तेनैव व्याप्यत्वात्। अज्ञानात्मकत्वे तु तत्र तद् व्यवच्छेदकं किञ्चिदर्थान्तरमनुसरणीयं तस्यापि तथात्वेऽनवस्थापत्ते:। नन्वज्ञानमपि सन्निकर्षादिकं संशयादिव्य-वच्छेदकारणमस्तु को दोष इति चेन्न। संशयादेरज्ञानविशेषत्वेन ज्ञानसामान्येन व्याप्यत्वात्। न च व्यापकेन व्याप्यं व्यवच्छेद्यतेऽन्यथा व्याप्यव्यापकभावविरोधात्। ननु संशयादेर्ज्ञानविशेषत्वेन ज्ञानसामान्येन व्याप्यत्वात्कथं ज्ञानेन विरोध इति चेन्न। अत्र सम्यग्ज्ञानस्यैव ज्ञानत्वेन विवक्षितत्वात्संशयादेश्च मिथ्याज्ञानत्वेन सम्यग्ज्ञानेन विरोधसिद्धे:। तत: साधूक्तं ज्ञानमेव प्रमाणमज्ञाननिवृत्त्यन्यथानुपपत्तेरिति।। ननु ज्ञानं प्रमाणमस्तु विज्ञानाकारगोचरे एव। तत्तु निर्विकल्पकमेव विकल्पस्यावस्तुविषयत्वादिति सौगतविप्रतिपत्तिं निराकुर्वन्नाह-विज्ञानमिति। विशेषस्य जात्याद्याकारस्य ज्ञानमवबोधनं निश्चयो यस्य तद्विज्ञानं। विशेषेण वा संशयादिव्य-वच्छेदेन ज्ञानमवबोधनं यस्य तद्विज्ञानमिति। न पुनर्निर्विकल्पकं दर्शनं तस्य व्यवहारानुपयोगात्। न खलु हानादिरूपं फलं व्यवहारिणां निर्विकल्पकदर्शनेन निर्वर्त्यते अन्यथा निश्चयवैफल्यप्रसङ्गात्। विभ्रमैकान्तेऽपि संव्यवहारविशेषानुपपत्ते:। संशयादिव्यवच्छेदादेव हि ज्ञानं संव्यवहारहेतुर्न तु भ्रान्ते:। यत: सर्वमपि ज्ञानं भ्रान्तं स्यात्। ननु निश्चयात्मकमपि ज्ञानं न बहिरर्थालम्बनं तस्यैवाभावादिति ज्ञानाद्वैतवादिन:। अर्थनिश्चयात्मकमेव ज्ञानं न स्वरूपावबोधकं स्वात्मनि क्रियाविरोधादिति यौगादय:। तदेतन्मत-द्वयनिराकरणार्थमिदमेवार्थाप्यते-विज्ञानमिति-विविधं स्वापूर्वार्थगोचरं ज्ञानमवबोधनं यस्य तद्विज्ञानमिति व्याख्यानात्। न हि बहिरर्थशून्यं ज्ञानं प्रमाणं यतो बहिरर्थशून्यता तस्य साध्येत। तत्साधनानुमानस्य बहिरर्थालम्बनत्वात्। अन्यथा साध्य-साधनयोरविशेषात्। किञ्च ज्ञानसत्त्वमन्तर्मुखानु-भवबलादभ्युपगच्छन् बहिर्मुखानुभवबलात् ज्ञेयं नाभ्युपगच्छतीति किमपि महाद्भुतम्। एकस्य सम्यक्त्वमन्यस्य मिथ्यात्वमित्यपि स्वेच्छाकारित्वमेव न प्रेक्षावत्वमविशेषात्। तन्न बहिरर्थशून्यं ज्ञानम्। न च प्रमाणान्तरेण निश्चितोऽपि संशयाद्यालीढापूर्वार्थ इत्युच्यते तत्रैव प्रमाणस्य साफल्यात्। नापि स्वरूपानवबोधनं, अवबोधनस्य प्रकाशरूपत्वात्। तस्य च स्वपरविषयत्वेन प्रतीतिसिद्धत्वात्। इदं नीलादिकमहं वेद्मीत्यन्तर्बहिरालम्बन-स्यानुभवस्य सिद्धे:। अन्यथा बाह्यार्थानुभवस्याप्यपलापापत्ते:। स्वात्मनि क्रियाविरोध इत्यप्यनुपपन्नं, अन्यतरानुपलम्भसाध्यत्वाद्विरोधस्य। उपलभ्यते च ज्ञाने स्वरूपावबोधनद्वयं प्रदीपवत्। यथैव हि प्रदीपप्रकाशनयोरेकत्राविरोध: सकलसम्मतस्तथा स्वरूपावबोधनयोरप्यात्मन्यविरोधोऽङ्गीकर्तव्य एव न्यायायातत्वात्। अन्यथा पक्षपातप्रसङ्गात्। तत: साधूक्तं विज्ञानं स्वापूर्वार्थव्यवसायात्मकं ज्ञानमिति।।
तच्च प्रत्यक्षमेवेति चार्वाका विप्रतिपद्यन्ते। प्रत्यक्षानुमाने एवेति सौगतवैशेषिका:। प्रत्यक्षानुमानागमा इति सांख्या:। प्रत्यक्षानुमानोपमानागमानीति नैयायिका:। प्रत्यक्षानुमानागमोपमानार्थापत्तय इति प्रभाकरा:। प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावा इति भाट्टा:। तत्समस्तविप्रतिपत्तिविक्षेपार्थमिदमाह-प्रमाणे इति संग्रह इति। सकलप्रमाणभेदप्रभेदानां संख्यासङ्ग्रहो द्वैविध्यमेव, नैकत्वादि, तत्रान्यभेदानामन्तर्भावात्। संक्षेपेण सामस्त्येन वा ग्रह: सङ्ग्रह इति व्याख्यानात्। ननु प्रमाणमित्येकत्वसंख्ययैवालं तत्रैवेतत्संख्यान्तर्भावात् किं तद्वित्वेनेति चेन्न। भेदगणनाया एव संख्यात्वादेकत्वस्य चाभेदत्वात्। द्रव्यार्थिकनयविवक्षया तदभ्युपगमात्। पर्यायार्थिकनयविवक्षया तु प्रमाणभेदानां द्वित्वस्यैव सङ्ग्रहत्वात्। नन्वस्तु द्वित्वं प्रमाणस्य प्रत्यक्षानुमान-भेदादित्याशज्रमपाकुर्वन् प्रत्यक्षपरोक्षभेदादिति मनसि कृत्वा तत्राद्यं तावदाह-प्रत्यक्षं विशदमिति यद्विशदं स्पष्टप्रतिभासनं ज्ञानं तत्प्रत्यक्षप्रमाणं भवति। अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा। तमेव क्षीणोपशान्तावरणं क्षीणावरणं वा प्रतिनियतं परानपेक्षं तत् प्रत्यक्षमिति व्युत्पत्ते:। न ह्यविशदस्वरूपस्य प्रमाणस्य प्रत्यक्षत्वमुपपन्नं अतिप्रसङ्गात्। तच्च प्रत्यक्षं द्विधेति प्रतिपादयति-मुख्यसंव्यवहारत:। मुख्यं च संव्यवहारश्च तावाश्रित्य प्रत्यक्षं द्वेधा भवतीति भाव:। तत्र मुख्यं प्रत्यक्षमवधिमन:पर्ययकेवलभेदभिन्नं अशेषतो वैशद्यादिन्द्रिया-दिनिरपेक्षत्वाच्च। स्वावरणविशेषविश्लेषप्रादुर्भूतं हि तन्मुख्यत: प्रत्यक्षव्यपदेशभाग्भवति प्रत्यक्षमन्यदिति सिद्धान्तानुरोधात् प्रत्यक्षताऽनुपचारात्। यत्पुनरिन्द्रियानिन्द्रियनिमित्तं मतिज्ञानं तत्सांव्यवहारिकं प्रत्यक्षमित्युच्यते देशतो वैशद्यसम्भवात्। समीचीनप्रवृत्तिरूपो व्यवहार: संव्यवहारस्तमाश्रित्य प्रवृत्ते: प्रत्यक्षतोपचाराविरोधात्। आद्ये परोक्षमिति हि मुख्यवचनं ततो नायमपसिद्धान्त:। इदानीं परोक्षलक्षणमाह-परोक्षं शेषमिति। शेषमवितथं ज्ञानं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदभिन्नं परोक्षं प्रमाणमित्याख्यायते। तस्य परप्रत्ययापेक्षया प्रवृत्ते: प्रत्यक्षादिनिमित्तत्वात्स्मृत्यादे:। अत्र प्रमाणे इत्यनेनाभिधेयवत्त्वमस्य शास्त्रस्य सूचितं भवति। अनेन प्रमाणनयनिक्षेपाणामभिधानात्तच्छून्यस्यैव वन्ध्यासुतो यातीत्यादिवदनादरणीयत्वात्। सम्बन्धश्च वाच्यवाचकभावलक्षण: सुघट एव। शास्त्रतदभिधेययोस्तत्सद्भावात्। अन्यथा दश दाडिमानि षडपूपा इत्यादिवाक्यवदप्रयोजकत्वात्। शक्यानुष्ठानेष्टप्रयोजनं च साक्षात्प्रमाणादिविषयाज्ञाननिवृत्ति-लक्षणमुपलक्ष्यत एव, शास्त्राध्ययनानन्तरभावित्वात्तस्य। परम्परया तु हानादिरूपं हिताहितप्राप्तिपरिहार-समर्थत्वात्प्रवचनस्य। निष्प्रयोजनस्य प्रवृत्त्यनङ्गत्वात्काकदन्तपरीक्षावत्। तत: साधूक्तं प्रत्यक्षमित्यादि।
ननु विशदं प्रत्यक्षमित्युक्तं तत्कीदृशं ज्ञानस्य वैशद्यमित्याशंक्याह—
अनुमाद्यतिरेकेण विशेषप्रतिभासनम्।
तद्वैशद्यं मतं बुद्धेरवैशद्यमत: परम्।।४।।
तन्मतमिष्टं स्याद्वादिभि:। किं वैशद्यं विशदस्य भावो वैशद्यं। कस्या: बुद्धे: ज्ञानस्य। किं तत् यद्विशेषप्रतिभासनं विशेषस्य वर्णसंस्थानाद्याकारस्य प्रतिभासनमवबोधनं। विशेषेण वा प्रतीत्यन्तराव्यवधानेन प्रतिभासनं। कथं अनुमाद्यतिरेकेण अनुमानमादिर्येषामागमादीनां तेभ्योऽतिरेक आधिक्यं तदनादरणं तेन। न खल्वनुमानादिसाधारणं विशेषप्रतिभासनं प्रत्यक्षस्य प्रतीतं यतस्तेषामपि वैशद्यं सम्भवेत्। अत उक्तलक्षणाद्वैशद्यात्परमन्यद् व्यवहितप्रतिभासनमवैशद्यमित्युच्यते। तस्यानुमानादिषु परोक्षभेदेषु व्यवस्थितत्वात्। एवं ज्ञानस्य बाह्यार्थापेक्षयैव वैशद्यावैशद्ये देवै: प्रणीते। स्वरूपापेक्षया तु सकलमपि ज्ञानं विशदमेव स्वसंवेदने ज्ञानातराव्यवधानात्। तस्य ज्ञानस्य प्रामाण्याप्रामाण्ये अपि बहिरर्थापेक्षयैव व स्वरूपापेक्षया। तत्र सर्वसंवेदनस्य १प्रामाण्याभावात्। भावप्रमेयापेक्षायां प्रमाणाभासनिह्नव:।। बहि: प्रमेयापेक्षायां प्रमाणं तन्निभं च ते।। इति वचनात्।।
अथ सांव्यवहारिकप्रत्यक्षस्य कारणभेदनिर्णयार्थमिदमाह—
अक्षार्थयोगे सत्तालोकोऽर्थाकारविकल्पधी:।
अवग्रहे विशेषाकांक्षेहाऽवायो विनिश्चय:।।५।।
धारणा स्मृतिहेतुस्तन्मतिज्ञानं चतुर्विधम्।
सोपस्कारत्वात्सूत्राणामेवं व्याख्यायते। उत्पद्यते। क: सत्तालोक: सत्ताया: समस्तार्थसाधारणस्य सत्त्वसामान्यस्य आलोको निर्विकल्पग्रहणं दर्शनमिति यावत्। सामान्यग्रहणं दर्शनमित्याम्नायात्। ननु मतिज्ञानप्रकरणे किमिति दर्शनमप्रकृतमुपक्रान्तमिति चेन्न। ज्ञानात्पूर्वपरिणामप्रदर्शनार्थत्वात्। दर्शनपूर्वं ज्ञानं छद्मस्थानामिति वचनात्। ननु स्वरूपग्रहणं दर्शनमिति राद्धान्तेन कथं न विरोध इति चेन्न। अभिप्रायभेदात्। परविप्रतिपत्तिनिरासार्थं हि न्यायशास्त्रं ततस्तदभ्युपगतस्य ाfनर्विकल्पदर्शनस्य प्रामाण्यविघातार्थं स्याद्वादिभि: सामान्यग्रहणमित्याख्यायते। स्वरूपग्रहणावस्थायां छद्मस्थानां बहिरर्थविशेषग्रहणाभावात्। प्रामाण्यं च बहिरर्थापेक्षयैव विचार्यते। व्यवहारोपयोगात्। न खलु प्रदीप: स्वरूपप्रकाशनाय व्यवहारिभिरन्विष्यते। ततो बहिरर्थविशेषव्यवहारानुपयोगाद्दर्शनस्य। ज्ञानमेव प्रमाणं तदुपयोगात्। विकल्पात्मकत्वात्तस्य। तत्त्वतस्तु स्वरूपग्रहणमेव दर्शनं केवलिनां तयोर्युगपत्प्रवृत्ते:। अन्यथा ज्ञानस्य सामान्यविशेषात्मकवस्तु-विषयत्वाभावप्रसङ्गात्। कस्मात्सत्तालोक उत्पद्यत इत्याह-अक्षार्थयोगे-अक्षाणीन्द्रियाणि स्पर्शनरसन-घ्राणचक्षु:श्रोत्राणि पञ्च। मनश्च षष्ठं। तानि च द्विविधानि द्रव्यभावभेदात्। तत्र पुद्गलपरिणामो द्रव्येन्द्रियं निर्वृत्त्युपकरणलक्षणम्। भावेन्द्रियं जीवपरिणामो लब्ध्युपयोगभेदम्। तत्रार्थग्रहणशक्तिर्लब्धि:। अर्थग्रहणव्यापार उपयोग:। निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रियमिति वचनात्। ननु कथं मनस इन्द्रियत्वमिति चेदन्त: करणत्वेन तदविरोधात्। अर्थो विषयस्तयोर्योग: सन्निपातो योग्यदेशावस्थानं। तस्मिन् सति उत्पद्यते इत्यर्थ:। नन्वक्षवदर्थोऽपि तत्कारणं प्रसक्तमिति चेन्न तद् व्यापारानुपलब्धे:। अन्वयव्यतिरेकानुविधानाभावाच्च केशोण्डुकज्ञानवत्। न हि नयनादिव्यापारवदर्थव्यापारो ज्ञानोत्पत्तौ कारणमुपलभ्यते तस्यौदासीन्यात्। तत: पुन: स एवावग्रहो भवति। िंकविशिष्ट: अर्थाकारविकल्पधी: अर्थो विषयस्तस्याकारो वर्णसंस्थानादिविशेष: तस्य विकल्पधी: निश्चयात्मकं ज्ञानंं। अयमर्थ: दर्शनमेव ज्ञानावरणवीर्यान्तरायक्षयोपशमविजृम्भितमर्थ-विशेषग्रहणलक्षणावग्रहरूपतया परिणमत इति यथा आकाशे इदं वस्त्विति। तत: स एवावग्रह: पुनरीहा भवति। िंकरूपा विशेषाकांक्षा विशेषस्य बलाकात्वादेराकाक्षां भवितव्यता प्रत्ययरूपा यथा बलाकया भवितव्यमिति। तत: सैवेहाऽवायो भवति। किंलक्षणो विनिश्चय: आकांक्षितविशेषनिर्णय इत्यर्थ:। यथा बलावैâवेयमिति। तत: स एवावायो धारणा भवति। किंलक्षणा स्मृतिहेतु:। स्मृतेरतीतार्थावमर्शस्य हेतु: कारणम्। इदमेव हि संस्कारस्य लक्षणं यत्कालान्तरेऽप्यविस्मरणमिति। तदेतन्मतिज्ञानं सांव्यवहारिकप्रत्यक्षम-वग्रहादिभेदाच्चतुर्विधं चतु:प्रकारं भवतीत्यर्थ:। एतच्च प्रतीन्द्रियमवबोद्धव्यम्।।
अथ तस्य भेदान् प्रमाणफलव्यवहारं च निरूपयति—
बह्वाद्यवग्रहाद्यष्टचत्वािंरशत्स्वसंविदाम्।।६।।
पूर्वपूर्वप्रमाणत्वं फलं स्यादुत्तरोत्तरम्।।
बहुरादिर्येषां ते बह्वादयोऽर्थविशेषा:। बहुबहुविधक्षिप्रानि:सृतानुक्तध्रुवा: सप्रतिपक्षा द्वादश। तेषां प्रत्येकमवग्रहादयश्चत्वारोऽर्थग्रहणविशेषा: तेषामष्टचत्वािंरशत्। बह्वादिभिरवग्रहादयो गुणिता अष्टचत्वािंरशद्भेदा भवन्तीत्यर्थ:। प्रतीन्द्रियमेतावद्भेदसम्भवात्। षड्भिर्गुणिता अर्थं प्रत्यष्टाशीत्युत्तरा द्विशती प्रतिपत्तव्या। व्यञ्जनं प्रति पुनरवग्रह एव। चक्षुर्मनोरहितैरिन्द्रियैर्बह्वादीनामष्टचत्वारिंशद्भेदास्तत्रेहादेरसम्भवात्। अव्यक्तस्य शब्दादिसमूहस्य व्यञ्जनत्वात्। तत्र बह्वादयो मनाङ्निरूप्यन्ते। बहुरनेकोऽर्थ: यथा बहुजन:। तत्प्रतिपक्ष एको जन:। बहुविधो नानाजातिभिन्न: यथा ब्राह्मणक्षत्रियवैश्यशूद्रा इति। तत्प्रतिपक्ष एकविध: यथा ब्राह्मणा इति। क्षिप्रं झटिति इदं ज्ञानस्य विशेषणम्। यथा एकसंस्थया ग्रहणम्। तद्विपक्ष: शनैर्ग्रहणम्। अनि:सृत: संवृतो यथा जले पुष्करशेषमग्नो हस्ती। निस्सृतो विवृत: यथा सर्वोन्मग्नो हस्ती। अनुक्तोऽभिप्रायगतो यथाऽग्न्यानयने शरावादि:। उक्त: प्रतिपादित: यथा स्फुटमानयेति। धुव्रमवस्थितं इदं च ज्ञानविशेषणम्। अध्रुवमनवस्थितं यथा भिन्नभाजनजलम्। अथवा ध्रुव: स्थिर: पर्वतादि:। अधु्रव: अस्थिरो विद्युदादि:। एतद्विषयत्वेनावग्रहादयो विशिष्यन्ते। एवं व्यञ्जनेऽपि योज्या:। तदेतदुभयसज्र्लने षट्त्रिंशदुत्तरा त्रिशती मतिज्ञानस्य भेदा भवन्ति। ननु बहिरर्थावलम्बनत्वेनैव ज्ञानस्य तद्भेदसम्भवात्कथं स्वव्यवसायात्मकमिति चेदुच्यते। स्वसंविदामिति। अत्रापिशब्दस्याध्याहार: कर्तव्य:। न केवलमर्थसंविदामेते भेदा: किन्तु स्वसंविदामपि अवग्रहादयो भवन्तीत्यर्थ:। स्वस्य ज्ञानस्वरूपस्य संविद्वेदनं ज्ञानान्तरानपेक्षमनुभवनं येषां ते स्वसंविद इति व्याख्यानात्। न हि ज्ञानमस्वसंवेदनमर्थसंवेदनविरोधप्रसङ्गात्। स्वरूपस्य ज्ञानान्तरवेद्यत्वेऽनवस्थाप्रसङ्गात्। ततो ज्ञानं परोक्षमेवेति वदन्मीमांसक:, ज्ञानान्तरप्रत्यक्षमिति यौगा:, १चेतनमिति सांख्य:, पृथिव्यादिपरिणाम इति चार्वाकश्च प्रतिक्षिप्ता:। तन्मतस्य प्रत्यक्षादिप्रमाणबाधितत्वात्। नन्ववग्रहस्य प्रमाणत्वे फलाभाव: प्रसज्यते इत्याशंक्याह-पूर्वपूर्वप्रमाणत्वं स्यात्, वीप्सायां द्विर्वचनम्। पूर्वपूर्वस्यावग्रहादेर्यथा प्रमाणत्वं स्यात्तथोत्तरोत्तरमीहादिकं साक्षात्फलं स्यादिति प्रमाणफलयो: कथञ्चिदभेदोपपत्ते:। सर्वथा तयोर्भेदेऽभेदे वाऽर्थक्रियानुपपत्ते:। विवक्षात: कारकप्रवृत्तिरिति न्यायात्। यदेव चिद्द्रव्यमनुगताकारमखण्डमन्वय-ज्ञानबलात्प्रसिद्धं तदेव पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेन परिणममानं व्यतिरेकज्ञानबलात्प्रति-पर्यायं भिन्नमनुभूयते इति प्रमाणफलव्यवहारोपपत्ते:। परम्पराफलं तु हानादिकं सर्वत्र साधारणमेव। तच्च प्रमाणत्वं ज्ञानस्याभ्यस्तविषये स्वत: सिद्ध्येत् तत्र ज्ञानान्तरानपेक्षणात्। अनभ्यस्तविषये तु परत: प्रमाणान्तरत: सिद्ध्येत् तत्रानुमानाद्यपेक्षणात्। न सर्वथा अतिप्रसङ्गादनवस्थानाच्च। ततो युक्तमुक्तं सांव्यवहारिक-प्रत्यक्षमवग्रहादीति।।
अकलज्र्शशाज्र्ैर्यद्विशदं प्रतिभासितम्।
प्रभाबलादद: सर्वे सौरी वृत्तिर्व्यनक्ति व:।।१।।
इत्यभयचन्द्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषण-
सञ्ज्ञायां प्रत्यक्षपरिच्छेद: प्रथम:।।
मंगलाचरण
अर्थ-स्याद्वाद न्याय के नायक अनंतवीर्य सहित कर्मकलंक रहित अकलंक जिनों के स्वामी मुनि ऐसे चंद्रप्रभ भगवान को पुन:-पुन: नमस्कार करता हूँ अथवा स्याद्वाद न्याय के नायक, चंद्रवत् आल्हादकारी मुनिराज श्री अकलंक देव को नमस्कार करता हूँ अथवा स्याद्वाद विद्या को स्पष्ट करने वाले ऐसे श्री अनन्तवीर्य महामुनि को नमस्कार करता हूँ।।१।।
इस ग्रंथ को जानकर इसके अभिमान से नहीं, किन्तु मुझ जैसों की प्रतीति के लिए मैं आगम के अनुसार लघीयस्त्रय ग्रंथ की तात्पर्यवृत्ति (टीका) को कहूँगा।।२।।
उत्थानिका-अंतरंग, बहिरंग लक्ष्मी से सहित, अमेय-प्रमेयरूपी मणियों को अपने उदर में धारण करने वाले, अति गंभीर ऐसे इस न्यायशास्त्ररूपी रत्नाकर में अल्पज्ञानी जनों को अवगाहन करना कठिन है इसलिए तथा हिताहित विशेष को जानने के लिए प्रवचन के अर्थ को निकाल करके प्रतिपादन करने की इच्छा करते हुए, संपूर्ण तार्किकजनों की चूड़ामणि की किरणों से जिनके चरण नख की किरणों का उल्लेख चित्रित हो रहा है ऐसे भगवान भट्टाकलंकदेव उन भव्यजीवों के लिए जहाज के समान इस लघीयस्त्रय प्रकरण को प्रारंभ करते हुए ग्रंथ की आदि में निर्विघ्नता आदि फल चतुष्टय से युक्त परम मंगल को करते हैं-
अन्वयार्थ-(धर्मतीर्थकरेभ्य:) धर्मतीर्थ के करने वाले (स्याद्वादिभ्य:) स्याद्वादी, (वृषभादि महावीरांतेभ्य:) वृषभदेव से लेकर महावीर पर्यंत तीर्थंकरों को (स्वात्मोपलब्धये) अपने आत्मस्वरूप की प्राप्ति के लिए (नमो नमोऽस्तु) मेरा पुन:-पुन: नमस्कार होवे।।१।।
अर्थ-धर्मतीर्थ के करने वाले स्याद्वादी, वृषभदेव से लेकर महावीर पर्यंत तीर्थंकरों को अपने आत्मस्वरूप की प्राप्ति के लिए मेरा पुन:-पुन: नमस्कार होवे।।१।।
तात्पर्यवृत्ति-अवयव अर्थ के ज्ञानपूर्वक समुदाय के अर्थ का ज्ञान होता है। इस न्याय से इस आदि श्लोक का सबसे प्रथम अवयव अर्थ कहते हैं। वृषभदेव को आदि लेकर वर्धमान पर्यंत सभी तीर्थंकरों को पुन:-पुन: अथवा अतिशयरूप से नमस्कार होवे। यहाँ ‘नम:’ शब्द के योग में चतुर्थी विभक्ति है। यहाँ नमस्कार के करने में आस्तिक्य भावना व्यक्त की गई है और ‘नमो नम:’ ऐसा दो बार कहने से नमस्कार में अतिशय रुचि दिखाई गई है।
यहाँ कहते हैं कि जिनेन्द्र भगवान को नमस्कार करना ही परम मंगल है। मलं-पाप को जो गालन करे-ध्वंस करे अथवा जो मंगं-पुण्य को लाता है-देता है वह मंगल है ऐसा निरुक्ति अर्थ है।
शंका-जिनेन्द्र नमस्कार के समान श्रुत आदि का नमस्कार भी मंगलरूप है पुन: ग्रंथकार ने उन्हें भी नमस्कार क्यों नहीं किया ?
समाधान-नहीं, ऐसी बात नहीं है। इस श्लोक में ‘धर्मतीर्थकर’ ऐसा जो पद है, उससे उनको भी नमस्कार हो जाता है। धर्म ही ‘तीर्थ’ है, अथवा धर्म के प्रतिपादक को ‘तीर्थ’ कहते हैं अथवा धर्म के लिए जो प्रवर्तन है वह तीर्थ है। इस लक्षण से धर्मतीर्थ से प्रवचन-परमागम भी कहे जाते हैं। जो इस धर्मतीर्थ को करते हैं-अपनी वाणी द्वारा प्रतिपादन करते हैं, वे धर्मतीर्थकर कहलाते हैं।
प्रश्न-यह धर्म क्या है ?
उत्तर-उत्तम क्षमा आदि दशलक्षण वाला धर्म है। जीवादि वस्तु का जो स्वभाव है वह धर्म है। जीव को सुख देने वाला धर्म है और शुभ धर्मरूप पुद्गल का जो परिणाम है वह धर्म है। यह धर्म ही तीर्थ है क्योंकि संसार से पार करने में कारण है। धर्म और तीर्थ का उत्तम क्षमादि के साथ सामानाधिकरण अविरुद्ध है।
तस्य तीर्थं-उस का तीर्थ (धर्म के प्रतिपादक तीर्थ) ऐसा कहना भी विरुद्ध नहीं है, क्योंकि जीवादि तत्त्वों का प्रतिपादन करने वाला होने से प्रवचन भी तीर्थ है। तस्मै तीर्थं-उसके लिए जो है वह तीर्थ है (धर्म के लिए जो प्रवर्तन है वह तीर्थ है) यह अर्थ भी हमें इष्ट ही है क्योंकि परमागम नवीन पुण्य के आस्रव को कराने वाला है। इसलिए परमागम को तीर्थ माना है।इसलिए यह बात ठीक ही है कि ‘‘वृषभादि महावीर पर्यंत तीर्थंकर अर्हंत भगवान ही स्वहित इच्छुकों के द्वारा नमस्कार करने योग्य हैं, क्योंकि वे धर्मतीर्थ के करने वाले हैं। जो अर्हंत नहीं हैं वे धर्मतीर्थ के करने वाले भी नहीं हैं। जैसे-पागल पुरुष। और ये धर्मतीर्थंकर हैं इसीलिए ये ही नमस्कार के योग्य हैं।’’ इस प्रकार से अविनाभाव नियम से निश्चय एक लक्षण वाले हेतु से साध्य की सिद्धि हो जाती है। इसमें बाधा नहीं आती है।
शंका-आपका यह ‘धर्म तीर्थकरत्वात्’ हेतु अनैकांतिक है क्योंकि जो अर्हंत नहीं हैं ऐसे सुगत आदि में भी देखा जाता है। वे भी अपने-अपने इष्ट धर्मरूपी आगम के प्रतिपादकरूप से उन-उन वादियों द्वारा कहे जाते हैं ?समाधान-ऐसी बात नहीं है। उनका व्यवच्छेद करने के लिए ही तो श्लोक में ‘स्याद्वादिभ्य:’ ऐसा विशेषण दिया गया है। स्यात्-कथंचित्-सत् असत्रूप वस्तु को वंदतीति-कहने वाले स्याद्वादी कहलाते हैं। तथाहि-‘अर्हंत ही धर्म तीर्थ को करने वाले हैं क्योंकि स्याद्वादी हैं।’’अर्हंत से अतिरिक्त जीवों में स्याद्वादीपना बन नहीं सकता है कि जिससे उन्हें धर्मतीर्थकर कहा जा सके। क्योंकि क्षणिक, नित्यत्व आदि सर्वथा एकांतवादी होने से उनमें स्याद्वादीपना विरुद्ध ही है।
प्रश्न-शास्त्रकार ने यहाँ मंगल किसलिए किया है ?
उत्तर-‘स्वात्मोपलब्धये’ अपने नमस्कार करने वाले का आत्मा अनंतज्ञानादि स्वरूप है उसकी उपलब्धि-सिद्धि के लिए यहाँ नमस्कार किया गया है। ‘सिद्धि: स्वात्मोपलब्धि:’ ऐसा कथन भी है अर्थात् अपने आत्मा के स्वरूप की उपलब्धि हो जाना ही सिद्धि है, ऐसा पूज्यपादस्वामी ने कहा है और ज्ञानावरण आदि कर्ममल का अभाव हो जाने से अनंतज्ञानादि स्वरूप का लाभ होना ही मंगल का फल कहलाता है। यहाँ यह बात सिद्ध हुई है।
उत्थानिका-शंकाकार कहता है कि सर्वथैकांतवादी भी सुगत आदि को धर्म का तीर्थंकर मानना अविरुद्ध ही है क्योंकि बाधक प्रमाण का अभाव है। उनके तीर्थ में भी तो प्रमाण आदि के लक्षण का प्रतिपादन संभव है। ऐसे पक्ष का निराकरण करते हुए स्याद्वादमार्ग की निष्कंटक शुद्धि के लिए आचार्य कहते हैं-
अन्वयार्थ-(तत्त्वाहेतुफलात्मनां) वास्तविक कार्यकारण भाव से रहित (निरन्वयक्षणिकचित्तानां) निरन्वय क्षणिक चित्त-ज्ञानक्षणों की (असत्सु एवं संतानेषु) असत्रूप संततियों में ही (बुद्ध: स्वयं स्वपरसंकल्पेन) बुद्ध स्वयं स्व पर के संकल्प से (मिथ्याविकल्पात्मक:) मिथ्या विकल्प करते हुए (करुणया सत्त्वार्थं) करुणा बुद्धि से प्राणियों के उद्धार के लिए (व्यवतिष्ठते) ठहरते हैं (तो) (नित्यत्ववदेव) नित्यत्व के समान ही (तत्र समये) उस क्षणिक सिद्धांत में (वस्तुन: अर्थक्रिया न स्यात्) वस्तु में अर्थक्रिया नहीं हो सकती है।।२।।
अर्थ-वास्तविक कार्यकारण भाव से रहित निरन्वय क्षणिक चित्त-ज्ञानक्षणों की असत् रूप संततियों में ही बुद्ध भगवान स्वयं स्व-पर के संकल्प से मिथ्या विकल्प करते हुए करुणा बुद्धि से प्राणियों के उद्धार के लिए ठहरते हैं। नित्यत्व के समान ही उस क्षणिक सिद्धान्त में वस्तु में अर्थक्रिया नहीं हो सकती है।।२।।
तात्पर्यवृत्ति-क्षणिवैâकांतवादी बुद्ध यदि स्वयं अपने स्वरूप से ठहरता है, निर्वाण को नहीं जाता है। किसलिए ? सभी के लिए-दु:ख से शिष्यजनों का उद्धार करने के लिए करुणा बुद्धि से ठहरता है। ‘तिष्ठंत्येव पराधीना येषां तु महती कृपा’ ऐसा वाक्य है। प्रतिपादक बुद्ध तो स्व है और प्रतिपाद्य दिङ्नाग आदि आचार्य पर हैं, स्वपर के संकल्प से-असत् में सत् का आरोप करके वह बुद्ध भगवान ठहरता है। अवास्तविक कार्य कारण स्वरूप परस्पर में भिन्न निरन्वय क्षणिक चित्तों की असत् रूप संततियों के होने पर भी वह स्वपर का संकल्प करता है अर्थात् स्व और पर जब दोनों ही क्षणिक हैं, निरन्वय हैं फिर भी पर में करुणा करके आप स्वयं ठहरता है। पुन: वह बुद्ध धर्मतीर्थंकर वैâसे हो सकता है ? यहाँ यह अभिप्राय है। क्योंकि मिथ्या-असत्यरूप संकल्प करने वाला वह बुद्ध स्वयं मिथ्या विकल्पस्वरूप है। यहाँ प्रथमांत में भी हेतु का प्रयोग संभव है अत: मिथ्याविकल्पात्मक होने से वह बुद्ध धर्म तीर्थंकर नहीं है। ऐसा अर्थ होता है।जिस प्रकार से सर्वथा नित्यत्व में परमार्थसत् की व्यवस्था करने वाले ईश्वर कपिल और ब्रह्मा धर्मतीर्थंकर नहीं होते हैं क्योंकि वे मिथ्या विकल्प वाले हैं उसी प्रकार बुद्ध भी नहीं हैं, यह अर्थ सिद्ध हुआ।
वेदांती-आपका यह सभी कथन हमें इष्ट ही है क्योंकि हमारे द्वारा मान्य प्रतिभासाद्वैत-ब्रह्माद्वैत सिद्धांत ही परमार्थ से सत रूप है।
जैन-समय अर्थात् सम्-संगत संपूर्ण ज्ञानों में अनुगत अय-प्रतिभास को समय कहते हैं। मतलब संपूर्ण ज्ञानों में या जीवों में अनुगत-अन्वयरूप से रहने वाले ज्ञान या ब्रह्म को समय कहते हैं। इस निरुक्ति के अनुसार समय का अर्थ प्रतिभासाद्वैत हो गया है। यह तुम्हारा प्रतिभासाद्वैत-ब्रह्माद्वैतवाद सिद्धांत में भी ठीक नहीं है। सभी वस्तु को अद्वैत-एकरूप मान लेने पर तो अर्थ क्रियारूप अनुभव नहीं हो सकता है क्योंकि मिथ्याविकल्प दोनों जगह समान ही है।माध्यमिक-स्वप्न और इंद्रजाल के ज्ञान के समान सभी ज्ञान निरालंबन हैं पुन: अनुमान ज्ञान को प्रमाणता वैâसे हो सकती है कि जिससे आप अर्हंत भगवान् को तीर्थंकर सिद्ध कर सकें ?
जैन-सम-स्वप्न और जाग्रत दशा में समान रूप से होने वाला अय-ज्ञान समय है। इस निरुक्ति से आप माध्यमिक की मान्यता समय कहलाती है। ऐसे इस आप के समय-सिद्धांत में हेयोपादेयरूप अर्थ में त्याग और ग्रहण लक्षण क्रिया परमार्थ से नहीं हो सकती है। यहाँ श्लोक में वस्तुन: की जगह वस्तुत: पाठ भी मिलता है उसके आधार से यह अर्थ किया है क्योंकि अप्रमाण से त्याग और ग्रहण लक्षण व्यवस्था नहीं हो सकती है अन्यथा अतिप्रसंग दोष हो जावेगा।
इसी कथन से विभ्रमैकांतवाद का भी खंडन हो गया है अत: जैसे क्षणिकत्व, नित्यत्व आदि एकांत मत मिथ्याविकल्प-गलत कल्पनारूप हैं। उसी प्रकार यथाअवसर शास्त्रकार स्वयमेव आगे कहेंगे, इसलिए हम यहाँ विराम लेते हैं।
भावार्थ-बौद्धों का सिद्धांत है कि महात्मा बुद्ध जीवों के उद्धार की करुणा बुद्धि से जगत में रुकते हैं, मुक्ति में नहीं जाते हैं पुन: उनके यहाँ सभी को निरन्वय क्षणिक माना है इसलिए आचार्य कहते हैं कि आपके यहाँ सर्वथा क्षणिक मान्यता में स्व-पर की कल्पना भी वैâसे बनेंगी क्योंकि आप भी क्षण-क्षण में नष्ट हो रहे हैं और आपके शिष्यादि भी क्षण-क्षण में नष्ट हो रहे हैं। तब तो बुद्ध वैâसे तो ठहरेंगे और किसको तो उपदेश देंगे कुछ समझ में नहीं आता है। ब्रह्माद्वैतवाद में भी सर्वथा अद्वैत होने से किसको तो छोड़ना और किसको ग्रहण करना इत्यादि अर्थक्रिया असंभव है। ऐसे ही माध्यमिक स्वप्नज्ञान के समान ही सारे ज्ञानों को निरालंब कहता है क्योंकि बाह्य पदार्थों को सर्वथा ही काल्पनिक कह दिया है पुन: उसके त्यागोपादानरूप अर्थक्रिया असंभव है। इन-इन मतों का यथासंभव आगे खंडन किया जायेगा।
उत्थानिका-इस प्रकार से कण्टक शुद्धि को करके संबंध अभिधेय, अनुष्ठान और इष्टप्रयोजन के निर्देशपूर्वक प्रमाण के लक्षण और भेदों को बतलाने के लिए आगे का सूत्र कहते हैं-
अन्वयार्थ-(मुख्य संव्यवहारत:) मुख्य और संव्यवहार के भेद से (विशदं ज्ञानं प्रत्यक्षं) विशद ज्ञान प्रत्यक्ष है (शेष विज्ञानं परोक्षं) अविशद ज्ञान परोक्ष है। (प्रमाणे इति संग्रह:) प्रमाण शब्द द्विवचन निर्देश से प्रमाण के दो भेदों का संग्रह हो जाता है।।३।।
अर्थ-मुख्य और संव्यवहार के भेद से विशद ज्ञान प्रत्यक्ष है, अविशद ज्ञान परोक्ष है। प्रमाण शब्द द्विवचन निर्देश से प्रमाण के दो भेदों का संग्रह हो जाता है।।३।।
भावार्थ-प्रमाण के दो भेद हैं-प्रत्यक्ष और परोक्ष। विशद ज्ञान प्रत्यक्ष प्रमाण है। उसके भी दो भेद हैं मुख्य प्रत्यक्ष और सांव्यवहारिक प्रत्यक्ष। इससे भिन्न अविशद ज्ञान परोक्ष प्रमाण कहलाता है।