श्रीमन्नम्र-सुरासुरेन्द्र-मुकुट-प्रद्योत-रत्नप्रभा-
भास्वत्पाद-नखेन्दव: प्रवचनाऽम्भोधीन्दव: स्थायिन:।
ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठका: साधव:
स्तुत्या योगिजनैश्च पञ्चगुरव: कुर्वन्तु ते (मे) मङ्गलम् ।।१।।
सम्यग्दर्शन-बोध-वृत्तममलं रत्नत्रयं पावनं
मुक्ति-श्री-नगराऽधिनाथ-जिनपत्युक्तोऽपवर्गप्रद:।
धर्म: सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्र्यालयं
प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते (मे) मङ्गलम्।।२।।
नाभेयादि-जिनाधिपास्त्रिभुवनख्याताश्चतुर्विंशति:
श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश।
ये विष्णु-प्रतिविष्णु-लाङ्गलधरा: सप्तोत्तरा विंशति-
स्त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषा: कुर्वन्तु ते (मे) मङ्गलम्।।३।।
देव्योऽष्टौ च जयादिका द्विगुणिता विद्यादिका देवता
श्रीतीर्थज्र्रमातृकाश्च जनका यक्षाश्च यक्ष्यस्तथा।
द्वात्रिंशत् त्रिदशाऽधिपास्तिथिसुरा दिक्कन्यकाश्चाष्टधा
दिक्पाला दश चैत्यमी सुरगणा: कुर्वन्तु ते (मे) मङ्गलम्।।४।।
ये सर्वौषधऋद्धयः सुतपसो वृद्धिङ्गता पञ्च ये
ये चाष्टाङ्ग-महानिमित्त-कुशला येऽष्टौ विधाश्चारणा:।
पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिऋद्धीश्वरा:
सप्तैते सकलार्चिता गणभृत: कुर्वन्तु ते (मे) मङ्गलम्।।५।।
वैâलाशे वृषभस्य निर्वृतिमही वीरस्य पावापुरे
चम्पायां वसुपूज्यसज्जिनपते: सम्मेदशैलेऽर्हताम्।
शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतो
निर्वाणाऽवनय: प्रसिद्धविभवा: कुर्वन्तु ते (मे) मङ्गलम्।।६।।
ज्योतिर्व्यन्तर-भावनाऽमरगृहे मेरौ कुलाद्रौ तथा
जम्बू-शाल्मलि-चैत्यशाखिषु तथा वक्षार-रूप्याद्रिषु।
इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे
शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु ते (मे) मङ्गलम्।।७।।
यो गर्भाऽवतरोत्सवो भगवतां जन्माऽभिषेकोत्सवो
यो जात: परिनिष्क्रमेण विभवो य: केवलज्ञानभाक्।
य: वैâवल्यपुरप्रवेशमहिमा संभावित: स्वर्गिभि:
कल्याणानि च तानि पञ्च सततं कुर्वन्तु ते (मे) मङ्गलम्।।८।।
इत्थं श्रीजिनमङ्गलाष्टकमिदं सौभाग्य-संपत्प्रदं
कल्याणेषु महोत्सवेषु सुधियस्तीर्थज्र्राणामुष:।
ये शृण्वन्ति पठन्ति तैश्च सुजनैर्धर्मार्थकामान्विता
लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपि।।
।। इति मङ्गलाष्टकम्।।