यावदाकाशे जीवपुद्गलधर्माधर्मकालद्रव्याणि लोक्यन्ते दृश्यन्ते विद्यन्ते वा स लोकाकाश:, तत: परं आ समंतात् अलोकाकाश:। अस्योर्ध्वमध्याधोऽपेक्षया त्रयो भेदा:। अधोलोके नरकभूमिषु नारका निवसंति, ऊर्ध्वलोके देवा:, मध्यलोके नरा: सुरा तिर्यञ्चश्च वसंति। अयं लोक: पुरुषाकारोऽस्ति।
अस्मिन् लोके कटिभाग इव मध्यलोक:
एकरज्जुविस्तृतश्चत्वारिंशद्योजनोत्तरनवनवतिसहस्रयोजनोत्तुंगश्च। एतावद्रज्जुप्रमाणक्षेत्रे असंख्यातद्वीपसमुद्रा: संति। अस्य मध्ये सर्वप्रथमद्वीपो लक्षयोजनविस्तृत: वृत्ताकारो जंबूद्वीपनामास्ति। इमं आ समंतात् संवेष्ट्य द्विलक्षयोजनविस्तृतो वलयाकार: लवणसमुद्र:। एतं परिवेष्ट्य धातकीखण्डद्वीप:, एवं वेष्टयित्वा कालोदसमुद्र: इममापि संवेष्ट्य पुष्करवरद्वीप:। एवमेव द्वीपान् वेष्टयित्वा वारिधयो वार्धोश्च वेष्टयित्वा द्वीपा: अग्रेऽग्रे द्विगुणद्विगुणविस्तृता भवन्तो तिष्ठंति। अंतिम: स्वयंभूरमणनामद्वीप: समुद्रोऽपि स्वयंभूरमणनाम्नैव।
अयं नरलोक: सार्धद्वयद्वीपद्वयसमुद्रपर्यंतमेव। तृतीयपुष्करद्वीपमध्ये वलयाकारो मानुषोत्तर पर्वतोऽस्ति। ततोऽभ्यंतरभागेऽर्धद्वीपे प्राक्तनद्वयद्वीपे च मनुष्या: वसंति, अत: पर्वतात् बहि: ते गंतुमपि न शक्नुवंति। तस्मात् जंबूद्वीपधातकीखण्डार्धपुष्कराख्यसार्धद्वयद्वीप एव मनुष्यलोक: गीयते। प्रथमद्वीप एकलक्ष:, लवणोद उभयत: द्विद्विलक्ष:, धातकीखण्ड उभयतश्चतुश्चतुर्लक्ष:, कालोद: उभयत: अष्टाष्टलक्षोऽर्धपुष्करद्वीपश्चोभयभागेऽष्टाष्ट -लक्ष इति सर्वं मेलयित्वा पंचचत्वारिंशल्लक्षयोजनप्रमाणं मनुष्यलोकोऽस्ति।
मनुष्य: द्वेधा कर्र्मभूमिज भोगभूमिजभेदात्। उक्तं च- ‘‘माणुस्सा दुवियप्पा कम्ममही-भोगभूमिसंजादा१।’’ यत्रासिमषीकृषिविद्यावाणिज्यशिल्पाख्यया षट्क्रिया वर्तन्ते सा कर्मभूमिरिति उच्यते। यत्र च कल्पवृक्षेभ्यो भोगसामग्री लभ्यते सा भोगभूमिरिति।
अस्मिन् विश्वस्मिन् पञ्चदश कर्मभूमय:, इमा: अवान्तरभेदापेक्षया सप्तत्यधिकशतानि भवन्ति।
उक्तं च-‘‘अड्ढाइज्जदीवदोसमुद्देसु पण्णारसकम्मभूमिषु दससु भरहेरावेसु पंचसु महाविदेहेसु।२’’
अस्मिन् प्रथमद्वीपे हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिकुलाचलविभाजितानि भरतहैमवतहरिविदेहरम्यक हैरण्यवतैरावतनामक्षेत्राणि सप्त। एषु आदिमध्यान्तक्षेत्रेषु भरतैरावतविदेहेषु तिस्र: कर्मभूमय:। धातकीखण्डद्वीपे दक्षिणोत्तरेष्वाकारपर्वताभ्यां पूर्वधातकीखण्डपश्चिम-धातकीखण्डरूपेण द्वौ भागौ स्त:। तत्र द्वयोरपि भागयो:
भरतादिसप्तक्षेत्राणि संति। ततस्तत्र द्विभरतद्वयैरावतद्विमहाविदेहेषु कर्मभूमय: षट्। एवं पुष्करार्धद्वीपेऽपि द्वाभ्यामिष्वाकाराभ्यां पूर्वपुष्करार्धापरपुष्करार्धभेदेन द्वयोर्भागयो: द्विभरतद्व्यैरावतद्विमहाविदेहेषु कर्मभुव: षट्। इत्थं सार्धद्वयद्वीपेषु कर्मभूमय: संति।
पुनश्च-जम्बूद्वीपे विदेहक्षेत्रस्य मध्ये सुदर्शनमेरुशैलेन्द्र:। अस्य मेरो: पूर्वापरयो: सीतासीतोदा द्वयनदीनिमित्तेन दक्षिणोत्तरभागेन चत्वारो भागा: संजाता। तत्रै
कैकभागे चतुश्चतुर्वक्षारगिरयस्त्रित्रिविभंगानद्यश्चोभयभागेषु वेदिका: संति। एषामन्तरालेषु कच्छासुकच्छादिनामानोऽष्टदेशा विद्यन्ते। इत्थं जंबूद्वीपे महाविदेहक्षेत्रे द्वात्रिंशद् विदेहदेशा जायंते। प्रत्येकं च विदेहदेशा भरतक्षेत्रापेक्षया किंचिदधिकचतुर्गुणविस्तृता: संति अर्थात् ‘‘भरत: षड्विशंतिपंचयोजनशतविस्तार: षट् चैकोनविंशतिभागा योजनस्य१।’’ विदेहदेशश्च द्वादशद्बाविंशतियोजनशतविस्तार: सप्त चाष्टभागा योजनस्य।
अतो जंबूद्वीपे चतुस्ंित्रशत् कर्मभुव:। धातकीखण्डेऽष्टषष्ठिसंख्या, पुष्करार्धे चाष्टषष्ठि: एव। सर्वा अपि सप्तत्यधिकशतानि कर्मभूमय: संति।
विदेहक्षेत्राणां षष्ट्युत्तरशतकर्मभूमय: शाश्वतिका: उच्यन्ते तत्रावसर्पिण्या: चतुर्थकालस्यादिसदृशकाल: सर्वदैव, तीर्थंकरकेवलिश्रुतकेवलिऋषिमुनियत्यनगारा निरंतरं विहरंति। अद्यत्वेऽपि तत्र सीमंधरयुगमंधरप्रभृतिविंशतितीर्थनाथा विद्यन्ते। अतस्तत्र कस्मिंश्चिदपि काले मोक्षप्राप्ति: शक्यते।
पंचभरतपंचैरावतक्षेत्राणामार्यखण्डेषु षट्कालपरिवर्तनात् त्रिषु कालेषु भोगभूमिरचना, त्रिषु कालेषु कर्मभूमिरचना च जायते। एतत्परिवर्तननिमित्तेनाधुनात्र भरतक्षेत्रेऽशाश्वतकर्मभूमि: वर्तते।
पूर्वोक्तसप्ततिशतकर्मभूमिषु प्रत्येकं मध्यभागेषु विजयार्धनामा पर्वतोऽस्ति, प्रत्येकक्षेत्रे गंगासिन्धू रक्तारक्तोदे वा नद्यौ स्त:। एतन्निमित्तेन प्रत्येकक्षेत्रे षट्खंडव्यवस्था जायते, तत्र एकैकार्यखंडोऽस्ति। एवं सप्ततिशतार्यखंडेषु तीर्थंकरचक्रवर्तिबलदेववासुदेवप्रतिवासुदेवप्रभृतयो महापुरुषा उत्पद्यन्ते।
प्रत्येकं कर्मभूमिषु षट्खंडेषु पंच पंच म्लेच्छखंडा भवंति अत: पंचभिर्गुणितानि सप्ततिशतानि पंचाशदधिकाष्टशतानि (१७०*५=८५०) भवंति। अत्रत्या: मनुष्या: संस्कारक्रियाविहीनत्वात् म्लेच्छा इति कथ्यंते
सप्ततिशतविजयार्धनगेषु तिस्र: तिस्र: श्रेण्य: संति। प्रत्येक भूधरस्योभयत: प्रथमश्रेणीषु विद्याधरनराणां दशाधिकशतनगर्यो विद्यंते। एवं दशाधिकशतगुणितसप्ततिशतानि सप्तशतान्यष्टादशसहस्राणि विद्याधरनगर्य: संति। (१७०*११०=१८७००) आसु प्रत्येकनगरीषुनरा नार्यश्च विद्याबलेनाकाशगामिनो नानारूपादिधारिणश्च भवंति।
विदेहक्षेत्रस्थविजयार्धपर्वतानां विद्याधरश्रेणीषु विदेहस्थम्लेच्छखंडेषु च सततं चतुर्थकालस्यादौ इव कर्मभूमिरचना वर्तते। पंचभरतेषु पंचैरावतेषु च विजयार्धनगविद्याधरश्रेणिषु म्लेच्छखण्डेष्वपि चतुर्थकालस्यादित: प्रारभ्यांतपर्यंतं परिवर्तनं जायते न च शेषकालानां।
पंचानां भरतानां पंचानामैरावतानां चार्यखण्डेषु अवसर्पिण्युत्सर्पिणीभ्यां द्वौ कालौ। प्रत्येकं च दशकोटा-कोटीसागरप्रमाणं। ‘‘सुषमसुषम:, सुषम:, सुषमदु:षम:, दुषमसुषम:, दुषम:, अतिदुषम: इति क्रमेण प्रथमोऽव- सर्पिणीकाल: षड्भेद:। द्वितीय उत्सर्पिणीकाल: एतद्वैपरीत्येन षड्भेद:’’। अवसर्पिण्या आदित: त्रिषु कालेषु मनुष्याणामायुरवगाहनासुखादयो हीयमाना भवंति।
उत्तममध्यमजघन्यभोगभूमिरचना जायते। पुनश्चाग्रे त्रिषु कालेषु कर्मभूमिरचना जायते।तथैवोत्सर्पिण्या: आदितस्त्रिषु कालेषु कर्मभूमिव्यवस्था वर्तते तदनंतरं त्रिषु कालेषु भोगभूमिव्यवस्था जायते। अस्यां क्रमेणायुरवगाहनासुखादयो वर्धन्ते।१
अद्यत्वेऽत्र भरतक्षेत्रे आर्यखण्डेऽवसर्पिण्या: पंचमकालो वर्तते। इयं चावसर्पिणी हुंडावसर्पिणीनाम्ना२ प्रसिद्धास्ति। असौ असंख्यातकल्पकालानंतरं प्रविशति। अस्यां अघटितघटना भवंति। यथा तृतीयकालस्यांते एव प्रथमतीर्थंकरस्य मोक्षगमनं, चक्रवर्तिनो मानभंगो नानाविधमिथ्यामतानामुद्भूतिश्चेत्यादि।
सार्धद्वयद्वीपेषु षड्विंशत्यधिकशतानि भोगभूमय: संति। आसु त्रिंशत्सुभोगभूमय: षण्णवतिकुभोगभूमयश्च।
जंबूद्वीपस्य सप्तक्षेत्रेषु मध्ये हैमवतहैरण्यवतयोर्जघन्यभोगभुवौ, हरिरम्यकयोर्मध्यभोगभुवौ, सुमेरुपर्वतस्य दक्षिणोत्तरस्थितदेवकुरूत्तरकुर्वो: उत्तमभोगभुवौ चेमा: षट् भोगभूमय:। एवमेव धातकीखण्डस्योभयभागयो: षट् षट्। तथैव पुष्करार्धद्वीपस्य द्वयोर्भागयो: षट् षट्। सर्वा: त्रिंशत् शाश्वतभोगभूमय: संति। आसु भोजनवस्त्रगृहादीनां दातार: दशधा कल्पवृक्षा भवंति। तत्रोद्भवा युगलनरनार्य: एभ्यो वाञ्छितभोगसामग्रीं संप्राप्य यावज्जीवं सुखेन निवसंति अत: इमा भोगभूमयोऽन्वर्थनामानि लभंते।
लवणसमुद्रेष्वष्टचत्वारिंशत् कालोदसमुद्रेषु चाष्टचत्वारिंशदिति षण्णवति: कुभोगभूमय: संति, इमाश्च कुमानुषद्वीपा अंतरद्वीपा वा उच्यंते। जंबूद्वीपस्य वेदिकाया लवणार्णवे पंचशतयोजनानि गत्वा दिग्विदिक्षु, अष्टौ द्वीपा:। एषामन्तरालेषु पंचाशदुत्तरपंचशतयोजनानि गत्वाष्टौ द्वीपा:। भरतैरावतस्थोभयविजयार्धपर्वतयोर्द्वाभ्यां तटाभ्यां हिमवत्शिखारिणो: द्वाभ्यां तटाभ्यां षट्शतान्यंत: समुद्रे गत्वाष्टौ द्वीपा: संति। इत्थं लवणसमुद्रेऽभ्यंतंरेऽस्मात् तटभागात् परे चतुर्विंशतिद्वीपा: धातकीखण्डवेदिकाया: तट्भागात् च इत: परेऽपि चतुर्विंशतिरेव। इमे सर्वे अंतरद्वीपा: समुद्रजलादेकयोजनमुपरि स्थिता: संति। कालोदसमुद्रेऽपि उभयतटयो: अभ्यंतरभागे एवमेवाष्टचत्वारिंशदन्तरद्वीपा विद्यन्ते।
एषु द्वीपेषु विकृतांगनरा: पशुरिव मुखादिसहिता भवंति। अतस्ते कुमानुषा उच्यंते। क्वचिदेकजंघाधारिण: क्वचित् पुच्छधारिण: क्वचित् शृंगिण: क्वचित् मूका: क्वचित् लम्बकर्णा: क्वचित् सिंहाश्वसारमेयादिमुखाश्च संति। एकजंघमनुष्या: गुहासु निवसंति, मिष्टमृत्तिका भक्षयंति शेषाश्च कुमानुषा: वृक्षेष्वधोभागे३ निवसन्त: फलादिभोजिन: स्वजीवनं यापयंति अथवा कल्पवृक्षेभ्य: प्राप्तफलानि भुंजते४। इमे मनुष्या: अपि युगलमेव उत्पद्यन्ते। व्याधिशोकादिविरहिता: पल्योपमायुष्का: सुखपूर्वकं जीवनयापनात् भोगभूमिजा उच्यंते।
आसु भोगभूमिषु सर्वे मनुष्या सदृशीमेव सुखसामग्रीं लभंते ततो वास्तवेन समाजवाद: तत्रैव घटते न च कमभूमिषु अत्र तु वैषम्यं भवत्येव।
सर्वपर्याप्तमनुष्याणां संख्या एकोनत्रिंशदंकप्रमाणं। यथा-
‘‘१९८०७०४०६२८५६६०८४३९८३८५९८७५८४’’
आसु मनुष्यराशिषु अंतरद्वीपजकुभोगभूमिजमनुष्या: सर्वस्तोका:, विदेहक्षेत्रजमनुष्याश्च सर्वेभ्योऽधिका: संति।
त्रिचत्वारिंशदधिकत्रिशतरज्जुप्रमाणेऽस्मिन् त्रैलोक्ये मानुषोत्तरपर्वतादभ्यंतरभागेषु सार्धद्वयद्वीपेष्वेव मनुष्या: उत्पद्यन्ते। तत्रापि ते सप्तत्युत्तर शतकर्मभूमिषु षट्विंशत्युत्तरशतभोगभूमिषु चैव भवंति। इत्थं चतुरशीतिलक्षयोनिषु भ्राम्यन्त: संसारिप्राणिन: चिंतामणिमिव मनुष्यपर्यायं महता कृच्छ्रेणल भंतेऽतो मनुष्यपर्यायोऽतीव दुर्लभ एव।
आस्वपि सर्वभोगभूमिषु सप्ततिशतकर्मभूमीनां पंचाशदुत्तराष्टशतम्लेच्छखण्डेषु च मोक्षप्राप्तिर्न भवति। भरतैरावतेषु दशसु आर्यखंडेषु चतुर्थकालेष्वेव मोक्षसंप्राप्ति: संभवति। तथा च षष्ट्युत्तरशतविदेहेषु निरंतरं मोक्षप्राप्तिं कर्तुं शक्यते। अत्राप्यार्यखंडेषु केचिद् भव्यजीवा: पंचेन्द्रियविषयेभ्यो विरज्यात्मसाधनां कुर्वन्ति। केचिच्च भव्या: अणुव्रतिनो भूत्वा गार्हस्थजीवनं सफली कुर्वन्ति। केचिच्च सम्यक्त्वं संपाद्य संसारपरंपरां मर्यादितां कुर्वन्ति।
ऊर्ध्वलोकस्याग्रभागे पंचचत्वारिंशल्लक्षयोजनविस्तृतार्धचंद्राकारा सिद्धशिलास्ति। अयं मर्त्यलोकोऽपि सार्धद्वयद्वीपपर्यंतं एतत्प्रमाणमेव। अत एषां सार्धद्वयद्वीपानां कर्मभूमिभ्यस्तु मनुष्या मोक्षं गच्छन्त्येव किन्तु देवविद्याधरादिकृतोपसर्गनिमित्तेनकर्मभूमिभ्योऽतिरिक्तक्षेत्रपर्वतनदीसरोवर समुद्रादिस्थानेभ्यश्चापि मोक्षं प्राप्नुवंति। तत: सिद्धशिलाया उपरिसिद्धलोकेऽणुमात्रमपि स्थानं रिक्तं नास्ति यत्र सिद्धपरमेष्ठिनो न विराजन्ते।
इत्थं मनुष्यपर्यायं संप्राप्य स्वमात्मानं जन्ममरणरोगशोकादिदु:खेभ्यो मोचयित्वानन्तज्ञानपरमानंद- लक्षणमोक्षपदप्राप्त्यर्थं पुरुषार्थ एव श्रेयस्कर:। अनेन मोक्षपुरुषार्थसाधनेन इहलोकेऽपि सुखं शान्तिश्च लभ्यते तथा मोक्षप्राप्तिपर्यंतं परलोकश्च सुखदायी जायते । एष एव मानवलोकविज्ञानस्य स्रोऽस्तीति।