नमोऽस्तु वर्षायोगप्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं सिद्धभक्तिकायोत्सर्गं करोम्यहं।
विशेष-कार्तिक कृष्णा चतुर्दशी की पिछली रात्रि में यही विधि करके वर्षायोग समापन किया जाता है।
मुक्ताशुक्ति मुद्रा से तीन आवर्त एक शिरोनति करके पृ. १२ से सामायिक दंडक पढ़ें। पुनः ९ जाप्य करके पृ. १२ से थोस्सामिस्तव पढ़कर ‘‘सिद्धानुद्धूत’’ इत्यादि सिद्धभक्ति पढ़ें।
सिद्धानुद्धूतकर्मप्रकृतिसमुदयान्साधितात्मस्वभावान् ।
वंदे सिद्धिप्रसिद्ध्यै तदनुपमगुणप्रग्रहाकृष्टितुष्टः।।
सिद्धिः स्वात्मोपलब्धिः प्रगुणगुणगणोच्छादिदोषापहारात्।
योग्योपादानयुक्त्या दृषद इह यथा हेमभावोपलब्धिः।।१।।
नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिर्न युक्ते-
रस्त्यात्मानादिबद्धः स्वकृतजफलभुक् तत्क्षयान्मोक्षभागी।।
ज्ञाता द्रष्टा स्वदेहप्रमितिरूपसमाहारविस्तारधर्मा।
ध्रौव्योत्पत्तिव्ययात्मा स्वगुणयुत इतो नान्यथा साध्यसिद्धिः।।२।।
स त्वन्तर्बाह्यहेतुप्रभवविमलसद्दर्शनज्ञानचर्या-
सम्पद्धेतिप्रघातक्षतदुरिततया व्यञ्जिताचिन्त्यसारैः।।
वैâवल्यज्ञानदृष्टिप्रवरसुखमहावीर्य-सम्यक्त्वलब्धि-
ज्योतिर्वातायनादिस्थिरपरमगुणैरद्भुतैर्भासमानः ।।३।।
जानन्पश्यन्समस्तं सममनुपरतं संप्रतृप्यन्वितन्वन्,
धुन्वन्ध्वान्तं नितान्तं निचितमनुसभं प्रीणयन्नीशभावम्।
कुर्वन्सर्वप्रजानामपरमभिभवन् ज्योतिरात्मानमात्मा।।
आत्मन्येवात्मनासौ क्षणमुपजनयन्सत्स्वयंभू प्रवृत्तः।।४।।
छिन्दन्शेषानशेषान्निगलबलकलींस्तैरनन्तस्वभावैः
सूक्ष्मत्वाग्र्यावगाहागुरुलघुकगुणैः क्षायिवैâः शोभमानः।
अन्यैश्चान्यव्यपोहप्रवणविषयसंप्राप्तिलब्धिप्रभावै-
रूर्ध्वंव्रज्यास्वभावात्समयमुपगतो धाम्नि संतिष्ठतेग्र्ये।।५।।
अन्याकाराप्तिहेतुर्न च भवति परो येन तेनाल्पहीनः
प्रागात्मोपात्तदेहप्रतिकृतिरुचिराकार एव ह्यमूर्तः।
क्षुत्तृष्णाश्वासकासज्वरमरणजरानिष्टयोगप्रमोह –
व्यापत्त्याद्युग्रदुःखप्रभवभवहतेः कोऽस्य सौख्यस्य माता।।६।।
आत्मोपादानसिद्धं स्वयमतिशयवद्वीतबाधं विशालं।
वृद्धिह्रासव्यपेतं विषयविरहितं निष्प्रतिद्वन्द्वभावम् ।
अन्यद्रव्यानपेक्षं निरुपमममितं शाश्वतं सर्वकालं।
उत्कृष्टानन्तसारं परमसुखमतस्तस्य सिद्धस्य जातम् ।।७।।
नार्थः क्षुत्तृट्विनाशाद्विविधरसयुतैरन्नपानैरशुच्या-
नास्पृष्टेर्गन्धमाल्यैर्नहि मृदुशयनैर्ग्लानिनिद्राद्यभावात् ।
आतंकार्तेरभावे तदुपशमनसद्भेषजानर्थतावद्
दीपानर्थक्यवद्वा व्यपगततिमिरे दृश्यमाने समस्ते।।८।।
तादृक्सम्पत्समेता विविधनयतपः संयमज्ञानदृष्टि-
चर्यासिद्धाः समन्तात्प्रविततयशसो विश्वदेवाधिदेवाः।
भूता भव्या भवन्तः सकलजगति ये स्तूयमाना विशिष्टैः
तान्सर्वान्नौम्यनंतान्निजिगमिषुररं तत्स्वरूपं त्रिसन्ध्यम् ।।९।।
-क्षेपक श्लोक-आर्या-
कृत्वा कायोत्सर्गं, चतुरष्टदोषविरहितं सुपरिशुद्धम् ।
अतिभक्ति-संप्रयुक्तो, यो वंदते स लघु लभते परमसुखम्।।
अंचलिका-इच्छामि भंत्ते! सिद्धभत्तिकाउस्सग्गो कओ तस्सालोचेउं सम्मणाण-सम्मदंसण-सम्मचारित्तजुत्ताणं अट्ठविहकम्मविप्पमुक्काणं अट्ठगुणसंपण्णाणं उढ्ढलोयमत्थयम्मि पयट्ठियाणं तवसिद्धाणं-णयसिद्धाणं संजमसिद्धाणं-चरित्तसिद्धाणं अतीताणागदवट्टमाण-कालत्तयसिद्धाणं सव्वसिद्धाणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।
नमोऽस्तु वर्षायोगप्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं योगिभक्तिकायोत्सर्गं करोम्यहं।
(पूर्ववत् सामायिक दंडक, ९ जाप्य और थोस्सामि करके योगिभक्ति पढ़ें)।
-दुवई छंद-
जाति-जरोरु-रोगमरणा-तुरशोक-सहस्रदीपिताः।
दुःसह-नरक-पतन-सन्त्रस्त-धियः प्रतिबुध-चेतसः।।
जीवित-मंबुबिंदु-चपलं तडि-दभ्र-समा विभूतयः।
सकल-मिदं विचिन्त्य मुनयः प्रशमाय वनान्त-माश्रिताः।।१।।
भद्रिका छंद-
व्रतसमिति-गुप्तसंयुताः शमसुख-माधाय मनसि वीतमोहाः।।
ध्यानाध्ययन-वशंगताः, विशुद्धये कर्मणां तपश्चरन्ति।।२।।
दिनकर-किरण-निकर-संतप्त-शिला-निचयेषु निस्पृहाः।
मलपटला-वलिप्त-तनवः शिथिली-कृत-कर्मबंधनाः।।
व्यपगत-मदन-दर्परतिदोष-कषाय-विरक्त-मत्सराः।
गिरिशिखरेषु चंडकिरणा-भिमुख-स्थितयो दिगंबराः।।३।।
सज्ज्ञाना-मृत-पायिभिः क्षान्तिपयः सिच्यमान-पुण्यकायैः।
धृतसंतोष-च्छत्रवैâः, तापस्-तीव्रोऽपि सह्यते मुनीन्द्रैः।।४।।
शिखिगल-कज्जला-लिमलिनै-र्विबुधा-धिप-च पचित्रितैः।
भीमरवै-र्विसृष्ट-चण्डाशनि-शीतल-वायु-वृष्टिभिः।।
गगनतलं विलोक्य जलदैः स्थगितं सहसा तपोधनाः।
पुनरपि तरुतलेषु विषमासु निशासु विशंक-मासते।।५।।
जलधारा-शर-ताडिता न चलन्ति चरित्रतः सदा नृसिंहाः।
संसारदुःख-भीरवः परीषहा-राति-घातिन-प्रवीराः।।६।।
अविरत-बहल-तुहिन-कणवारिभि-रंघ्रिप-पत्रपातनैः
अनवरत-मुक्त-सीत्कार-रवैःपरुषैः-
रथानिलैः शोषित-गात्र-यष्टयः।
इह श्रमणा धृतिकंबला-वृता: शिशिर-निशां।
तुषार-विषमां गमयन्ति चतु:पथे स्थिताः।।७।।
इति योग-त्रय धारिण: सकल-तपः-शालिनः प्रवृद्ध-पुण्यकायाः।
परमानंद-सुखैषिणः समाधि-मग्रयं दिशंतु नो भदन्ताः।।८।।
गिम्हे गिरिसिहरत्था वरिसायाले रुक्खमूलरयणीसु।
सिसरे वाहिरसयणा ते साहू वंदिमो णिच्चं।।९।।
गिरिकंदरदुर्गेषु ये वसन्ति दिगम्बराः।
पाणिपात्रपुटाहारास्ते यांति परमां गतिं।।१०।।
अंचलिका-इच्छामि भंते! योगिभत्ति-काउस्सग्गो कओ तस्सालोचेउं अढ्ढाइज्ज-दीव-दो-समुद्देसु पण्णारस-कम्म-भूमिसु आदावण-रुक्ख-मूल-अब्भोवास-ठाण-मोण-वीरासणेक्क-पास-कुक्कुडासण-चउत्थ-पक्ख-खवणादियोग-जुत्ताणं सव्वसाहूणं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।
यावंति जिनचैत्यानि, विद्यंते भुवनत्रये।
तावंति सततं भक्त्या, त्रिःपरीत्य नमाम्यहम्।।
श्री ऋषभजिनस्तोत्रं
स्वयम्भुवा भूतहितेन भूतले, समंज-सज्ञान-विभूतिचक्षुषा।
विराजितं येन विधुन्वता तमः, क्षपाकरेणेव गुणोत्करैःकरैः।।१।।
प्रजापति-र्यः प्रथमं जिजीविषुः, शशास कृष्यादिषु-कर्मसु प्रजाः।
प्रबुद्धतत्त्वः पुन-रद्भुतोदयो, ममत्वतो निर्विविदे विदांवर:।।२।।
विहाय यः सागरवारि-वाससं, वधू-मिवेमां वसुधावधूं सतीम् ।
मुमुक्षु-रिक्ष्वाकु-कुलादि-रात्मवान्, प्रभु प्रवव्राज सहिष्णु-रच्युतः।।३।।
स्वदोष-मूलं स्वसमाधि-तेजसा, निनाय यो निर्दय-भस्मसात्क्रियाम्।
जगाद तत्त्वं जगते-ऽर्थिनेऽजसा, बभूव च ब्रह्म-पदा-मृतेश्वरः।।४।।
स विश्वचक्षु-र्वृषभोऽर्चितः सतां, समग्रविद्यात्म-वपुर्निरंजनः।
पुनातु चेतोमम नाभिनन्दनो, जिनो जितक्षुल्लक-वादिशासनः।।५।।
।। इति ऋषभजिनस्तोत्रम् ।।
श्री अजितजिनस्तोत्रं
यस्य प्रभावात्त्रिदिव-च्युतस्य, क्रीडास्वपि क्षीव-मुखारविन्दः।
अजेयशक्ति-र्भुवि बन्धुवर्गः, चकार नामाजित इत्यवन्ध्यम् ।।१।।
अद्यापि यस्या-जितशासनस्य, सतां प्रणेतुः प्रतिमंगलार्थम् ।
प्रगृह्यते नाम परं पवित्रं, स्वसिद्धि-कामेन जनेन लोके।।२।।
यः प्रादु-रासीत्-प्रभुशक्ति-भूम्ना, भव्याशया-लीन-कलंकशान्त्यै।
महामुनि-मुर्क्तघनोपदेहो, यथा-रविन्दा, भ्युदयाय भास्वान् ।।३।।
येन प्रणीतं पृथुधर्म-तीर्थं, ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम्।
गांगं हृदं चन्दन-पंकशीतं, गज-प्रवेका इव धर्म-तप्ताः।।४।।
स ब्रह्मनिष्ठ:-सममित्रशत्रु-र्विद्याविनि-र्वान्त-कषायदोषः।
लब्धात्म-लक्ष्मी-रजितो-ऽजितात्मा, जिनः श्रियं मे भगवान् विधत्ताम् ।।५।।
इत्यजितजिनस्तोत्रम्
नमोऽस्तु वर्षायोग प्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं चैत्यभक्तिकायोत्सर्गं करोम्यहं।
(पूर्ववत् पृ. १२ से सामायिक दंडक,९ जाप्य और पृ. १२ से थोस्सामिस्तव करके लघु चैत्यभक्ति पढ़ें।)
लघुचैत्यभक्ति:
वर्षेषु वर्षान्तर-पर्वतेषु, नन्दीश्वरे यानि च मन्दरेषु।
यावन्ति चैत्यायतनानि लोके, सर्वाणि वन्दे जिनपुंगवानाम् ।।१।।
अवनि-तल-गतानां कृत्रिमा-कृत्रिमाणां
वन-भवन-गतानां दिव्यवैमानिकानाम् ।
इह मनुजकृतानां देवराजार्चितानां
जिनवर-निलयानां भावतोऽहं स्मरामि।।२।।
जम्बू-धातकि-पुष्करार्ध-वसुधा-क्षेत्रत्रये ये भवाः
चन्द्राम्भोज-शिखंडिकंठ-कनक-प्रावृड्-घनाभा जिनाः।
सम्यग्ज्ञान-चरित्र-लक्षणधरा दग्धाष्ट-कर्मेन्धना।
भूतानागत-वर्तमान-समये तेभ्यो जिनेभ्यो नमः।।३।।
श्रीमन्-मेरौ कुलाद्रौ रजत-गिरिवरे शाल्मलौ जम्बुवृक्षे।
वक्षारे चैत्यवृक्षे रतिकर-रुचके कुण्डले मानुषाज्र्े।
ईष्वाकारे-ऽञ्जनाद्रौ दधिमुख-शिखरे व्यन्तरे स्वर्गलोके
ज्योतिर्लोके-ऽभिवन्दे भवन-महितले यानि चैत्यालयानि।।४।।
द्वौ कुन्देन्दु-तुषार-हार-धवलौ द्वाविन्द्र-नीलप्रभौ
द्वौ बन्धूक-समप्रभौ जिनवृषौ द्वौ च प्रियङ्गु प्रभौ।
शेषाः षोडश जन्म-मृत्यु-रहिताः सन्तप्त-हेमप्रभाः
ते संज्ञान-दिवाकराः सुरनुताः सिद्धिं प्रयच्छन्तु नः।।५।।
अंचलिका-इच्छामि भंते! चेइयभक्ति-काउस्सग्गो कओ तस्सालोचेउं, अहलोय-तिरियलोय-उड्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेइयाणि ताणि सव्वाणि तीसुवि लोएसु भवणवासिय-वाणविंतर-जोइसिय-कप्प-वासियत्ति चउविहा देवा सपरिवारा दिव्वेण गंधेण दिव्वेण पुप्फेण दिव्वेण धूवेण दिव्वेण चुण्णेण दिव्वेण वासेण दिव्वेण ण्हाणेण णिच्चकालं अंचंति पुज्जंति वंदंति णमंसंति, अहमवि इह संतो तत्थसंताइं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।
प्राग्दिग्विदिगंतरे, केवलिजिनसिद्धसाधुगणदेवाः।
ये सर्वर्द्धिसमृद्धाः, योगिगणास्तानहं वंदे ।।
अथ दक्षिणदिक् वंदना
यावंति जिनचैत्यानि, विद्यंते भुवनत्रये।
तावंति सततं भक्त्या, त्रिःपरीत्य नमाम्यहं।।
श्री संभवजिनस्तोत्रं
त्वं शम्भवः संभव-तर्षरोगैः, संतप्य-मानस्य जनस्य लोके।
आसी-रिहा-कस्मिक एव वैद्यो, वैद्यो यथा नाथ! रुजां प्रशान्त्यै।।१।।
अनित्य-मत्राण-महंक्रियाभिः, प्रसक्त-मिथ्याध्यवसाय-दोषम् ।
इदं जगज्जन्म-जरान्त-कार्त्तं, निरंजनां शान्ति-मजीगम-स्त्वम् ।।२।।
शतहृदोन्मेषचलं हि सौख्यं, तृष्णामया-प्यायन-मात्रहेतुः।
तृष्णाभिवृद्धिश्च तप-त्यजस्रं, तापस्तदाया-सयतीत्यवादीः।।३।।
बंधश्च मोक्षश्च तयोश्च हेतु-र्बद्धश्च मुक्तश्च फलं च मुक्तेः।
स्याद्वादिनो नाथ तवैव युक्तं, नैकान्त-दृष्टेस्त्वमतोऽसि शास्ता।।४।।
शक्रोऽप्यशक्त-स्तव पुण्य-कीर्त्तेः, स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः।
तथापि भक्त्या स्तुत-पाद-पद्मो, ममार्य देयाःशिव-ताति-मुच्चैः।।५।।
।। इति शंभवजिनस्तोत्रम्।।
श्री अभिनंदनजिनस्तोत्रं
गुणाभिनन्दा-दभिनन्दनो भवान्, दयावधूं क्षान्ति-सखी-मशिश्रियत्।
समाधितन्त्रस्तदुपोप-पत्तये, द्वयेन नैर्ग्रन्थ्य-गुणेन चायुजत् ।।१।।
अचेतने तत्कृत-बन्धजेऽपि च, ममेद-मित्याभिनिवेशक-ग्रहात्।
प्रभंगुरे स्थावर-निश्चयेन च, क्षतंजगत्तत्व-मजिग्रहद् भवान् ।।२।।
क्षुदादि-दुःख-प्रतिकारतः स्थिति-र्न चेन्द्रियार्थ-प्रभवाल्पसौख्यतः।
ततो गुणो नास्ति च देह-देहिनो-रितीद-मित्थं भगवान् व्यजिज्ञपत् ।।३।।
जनोऽतिलोलोऽप्यनुबन्ध-दोषतो, भया-दकार्येष्विह न प्रवर्त्तते।
इहाप्यमुत्रा-प्यनुबन्ध-दोषवित्, कथं सुखे संसजतीति चाब्रवीत् ।।४।।
स चानुबन्धोऽस्य जनस्य तापकृत् तृषोऽपि वृद्धिः सुखतो न च स्थितिः।
इति प्रभो लोकहितं यतो मतं, ततो भवानेवगतिः सतां मतः।।५।।
इत्यभिनन्दनजिनस्तोत्रम्
नमोऽस्तु वर्षायोगप्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं चैत्यभक्तिकायोत्सर्गं करोम्यहं।
(पूर्ववत् पृ. १२ से सामायिक दंडक, ९ जाप्य, पृ. १२ से थोस्सामिस्तव पढ़कर लघु चैत्यभक्ति पढ़ें।)
दक्षिणदिग्विदिगंतरे, केवलि-जिन-सिद्ध-साधु-गणदेवाः।
ये सर्वर्द्धि – समृद्धा, योगिगणास्तानहं वंदे ।।
इति दक्षिणदिक् वंदना।
यावंति जिनचैत्यानि, विद्यंते भुवनत्रये।
तावंति सततं भक्त्या, त्रिःपरीत्य नमाम्यहं।।
श्री सुमतिजिनस्तोत्रं
अन्वर्थसंज्ञः सुमति-र्मुनिस्त्वं, स्वयं मतं येन सुयुक्तिनीतम् ।
यतश्च शेषेषु मतेषु नास्ति, सर्वक्रिया-कारक-तत्त्वसिद्धिः।।१।।
अनेक-मेकं च तदेव तत्त्वं, भेदान्वय-ज्ञान-मिदं हि सत्यम् ।
मृषोपचारोऽन्यतरस्य लोपे, तच्छेष-लोपोऽपि ततोऽनुपाख्यम्।।२।।
सतः कथंचित्-तदसत्त्व-शक्तिः, खे नास्ति पुष्पं तरुषु प्रसिद्धम्।
सर्वस्वभाव-च्युत-मप्रमाणं, स्ववाग्-विरुद्धं तव दृष्टितोऽन्यत्।।३।।
न सर्वथा नित्य-मुदेत्यपैति, न च क्रियाकारक-मत्र युक्तम् ।
नैवासतो जन्म सतो न नाशो, दीपस्तमः पुद्गल-भावतोऽस्ति।।४।।
विधि-र्निषेधश्च कथंचिदिष्टौ, विवक्षया मुख्य-गुण-व्यवस्था।
इति प्रणीतिः सुमतेस्तवेयं, मति-प्रवेकःस्तुवतोऽस्तु नाथ।।५।।
इति सुमतिजिनस्तोत्रम्
पद्मप्रभःपद्म-पलाशलेश्यः, पद्मालया-लिंगित-चारुमूर्तिः।
बभौ भवान् भव्य-पयोरुहाणां, पद्मा-कराणा-मिव पद्मबन्धुः।।१।।
बभार पद्मां च सरस्वतीं च, भवान्पुरस्तात्प्रति-मुक्तिलक्ष्म्याः।
सरस्वती-मेव समग्रशोभां, सर्वज्ञ-लक्ष्मीं ज्वलितां विमुक्तः।।२।।
शरीर-रश्मि-प्रसरः प्रभोस्ते, बालार्क-रश्मिच्छवि-रालिलेप।
नरामरा-कीर्णसभां प्रभावच्-छैलस्य पद्माभ-मणेः स्वसानुम्।।३।।
नभस्तलं पल्लव-यन्निव त्वं, सहस्रपत्राम्बुज-गर्भचारैः।
पादाम्बुजैः पातित-मोहदर्पो, भूमौ प्रजानां विजहर्थ भूत्यै।।४।।
गुणाम्बुधे-र्विप्रुष-मप्यजस्रं, नाखण्डलः स्तोतुमलं तवर्षेः।
प्रागेव मादृक्किमुतातिभक्ति-र्मां बाल-मालापयतीद-मित्थम्।।५।।
।। इति पद्मप्रभस्तोत्रम् ।।
नमोऽस्तु वर्षायोगप्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं चैत्यभक्तिकायोत्सर्गं करोम्यहं।
(पूर्ववत् पृ. १२ से सामायिक दंडक, ९ जाप्य और पृ. १२ से थोस्सामिस्तव पढ़कर पृ. ३९ से वर्षेषु वर्षान्तर……इत्यादि चैत्यभक्ति पढ़ें।)
पश्चिम-दिग्विदिगंतरे, केवलि-जिनसिद्ध-साधुगणदेवाः।
ये सर्वर्द्धिसमृद्धा, योगिगणास्तानहं वंदे ।।
इति पश्चिमदिक् वंदना।
यावंति जिनचैत्यानि, विद्यंते भुवनत्रये।
तावंति सततं भक्त्या, त्रिःपरीत्य नमाम्यहं।।
श्री सुपार्श्वजिनस्तोत्रम्
स्वास्थ्यं यदात्यन्तिक-मेष पुंसां, स्वार्थो न भोगःपरिभंगु-रात्मा।
तृषोऽनुषंगान्न च तापशांति-रितीद-माख्यद्-भगवान् सुपार्श्वः।।१।।
अजंगमं जंगम-नेययन्त्रं, यथा तथा जीवधृतं शरीरम् ।
बीभत्सु पूति क्षयि तापकं च, स्नेहो वृथा-त्रेति हितं त्वमाख्यः।।२।।
अलंघ्यशक्ति-र्भवितव्यतेयं, हेतुद्वया-विष्कृत-कार्यलिंगा।
अनीश्वरो जन्तु-रहं क्रियार्त्तः, संहत्य कार्ये-ष्विति साध्ववादीः।।३।।
बिभेति भृत्योर्न ततोऽस्ति मोक्षो, नित्यं शिवं वांछति नास्य लाभः।
तथापि बालो भयकाम-वश्यो, वृथा स्वयं तप्यत इत्यवादीः।।४।।
सर्वस्य तत्त्वस्य भवान् प्रमाता, मातेव बालस्य हिता-नुशास्ता।
गुणावलोकस्य जनस्य नेता, मयापि भक्त्या परिणूयसेऽद्य।।५।।
इति सुपार्श्वजिनस्तोत्रम्
चन्द्रप्रभं चन्द्र-मरीचिगौरं, चन्द्रं द्वितीयं जगतीव कान्तम्।
वन्देऽभिवन्द्यं महता-मृषीन्द्रं, जिनं जितस्वान्त-कषायबन्धम्।।१।।
यस्यांग-लक्ष्मी-परिवेश-भिन्नं, तमस्तमोरे-रिव रश्मि-भिन्नम् ।
ननाश बाह्यं बहुमानसं च, ध्यान-प्रदीपातिशयेन भिन्नम् ।।२।।
स्वपक्षसौस्थित्य-मदावलिप्ता, वाक्सिंहनादै-र्विमदा बभूवुः।
प्रवादिनो यस्य मदार्द्र-गण्डा, गजा यथा केशरिणो निनादैः।।३।।
यः सर्वलोके परमेष्ठितायाः, पदं वभूवाद्भुतकर्मतेजाः।
अनन्त-धामाक्षर-विश्वचक्षुः, समंत-दुःखक्षय-शासनश्च।।४।।
स चन्द्रमा भव्य-कुमुद्वतीनां, विपन्न-दोषाभ्र-कलंकलेपः।
व्याकोश-वाङ्न्याय-मयूख-मालः, पूयात् पवित्रो भगवान्मनो मे।।५।।
इति चन्द्रप्रभजिनस्तोत्रम्
नमोऽस्तु वर्षायोगप्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं चैत्यभक्तिकायोत्सर्गं करोम्यहं।
(पृ. १२ से सामायिक दंडक, ९ जाप्य, पृ. १२ से थोस्सामिस्तव पढ़कर चैत्यभक्ति पढ़ें।)
उत्तरदिग्विदिगंतरे, केवलिजिनसिद्ध-साधुगणदेवाः।
ये सर्वर्द्धिसमृद्धा, योगिगणास्तानहं वंदे।।
इति उत्तरदिक्वंदना
(यहाँ तक चतुर्दिक्वंदना पूर्ण हुई है।)
नमोऽस्तु वर्षायोगप्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं पंचमहागुरुभक्तिकायोत्सर्गं करोम्यहं।
(पृ. १२ से सामायिक दंडक, ९ जाप्य, पृ. १२ से थोस्सामिस्तव पढ़कर पंचमहागुरुभक्ति पढ़ें।)
श्रीमद-मरेन्द्रमुकुट-प्रघटित-मणिकिरण-वारिधाराभिः।
प्रक्षालित-पदयुगलान्-प्रणमामि जिनेश्वरान्-भक्त्या।।१।।
अष्टगुणैः समुपेतान्, प्रणष्ट-दुष्टाष्ट-कर्मरिपु-समितीन्।
सिद्धान्-सतत-मनन्तान्, नमस्करो-मीष्टतुष्टि-संसिद्ध्यै।।२।।
साचार-श्रुतजलधीन्, प्रतीर्य शुद्धोरुचरण-निरतानाम्।
आचार्याणां पदयुग-कमलानि दधे शिरसि मेऽहम्।।३।।
मिथ्यावादि-मदोग्र-ध्वान्त-प्रध्वंसि-वचनसंदर्भान्।
उपदेशकान्प्रपद्ये, मम दुरितारि – प्रणाशाय।।४।।
सम्यग्दर्शनदीप – प्रकाशकामेय – बोधसंभूताः।
भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु।।५।।
जिन-सिद्ध-सूरि-देशक-साधुवरा-नमलगुण-गणोपेतान्।
पंचनमस्कारपदैस्त्रिसंध्य-मभिनौमि मोक्षलाभाय।।६।।
एष पंचनमस्कारः, सर्वपापप्रणाशन्ाः।
मंगलानां च सर्वेषां, प्रथमं मंगलं मतं।।७।।
अर्हत्सिद्धाचार्यो – पाध्यायाः सर्वसाधवः।
कुर्वन्तु मंगलाः सर्वे, निर्वाण-परमश्रियम् ।।८।।
सर्वान् जिनेन्द्रचन्द्रान्-सिद्धानाचार्यपाठकान् साधून्।
रत्नत्रयं च वन्दे, रत्नत्रय – सिद्धये भक्त्या।।९।।
पान्तु श्रीपादपद्मानि, पंचानां परमेष्ठिनां।
लालितानि सुराधीश – चूड़ामणि – मरीचिभिः।।१०।।
प्रातिहार्यैर्जिनान् सिद्धान्, गुणैः सूरीन् स्वमातृभिः।
पाठकान् विनयैः साधून्, योगांगै-रष्टभिः स्तुवे।।११।।
आलोचना-इच्छामि भंते! पंचमहागुरुभत्ति-काउस्सग्गो कओ तस्सालोचेउं। अट्ठमहापाडिहेर-संजुत्ताणं अरहंताणं। अट्ठगुण-संपण्णाणं उड्ढलोय-मत्थयम्मि पइट्ठियाणं सिद्धाणं, अट्ठ-पवयण-माउसंजुत्ताणं आयरियाणं, आयारादि-सुदणाणो-वदेसयाणं उवज्झायाणं, तिरयणगुणपालण-रयाणं सव्वसाहूणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।
नमोऽस्तु वर्षायोगप्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं शांतिभक्तिकायोत्सर्गं करोम्यहं।
(पूर्ववत् सामायिक दंडक, ९ जाप्य, थोस्सामिस्तव पढ़कर शांतिभक्ति पढ़ें।)
न स्नेहाच्छरणं प्रयान्ति भगवन् ! पादद्वयं ते प्रजाः।
हेतुस्तत्र विचित्रदुःखनिचयः, संसारघोरार्णवः।।
अत्यन्तस्फुरदुग्ररश्मिनिकर-व्याकीर्णभूमण्डलो।
ग्रैैष्मः कारयतीन्दुपादसलिल-च्छायानुरागं रविः।।१।।
क्रुद्धाशीर्विषदष्टदुर्जयविषज्वालावलीविक्रमो।
विद्याभेषजमन्त्रतोयहवनैर्याति प्रशांतिं यथा।।
तद्वत्ते चरणारुणांबुजयुग-स्तोत्रोन्मुखानां नृणाम्।
विघ्नाः कायविनायकाश्च सहसा, शाम्यन्त्यहो! विस्मयः।।२।।
संतप्तोत्तमकांचनक्षितिधरश्रीस्पर्द्धिगौरद्युते।
पुंसां त्वच्चरणप्रणामकरणात्, पीडाः प्रयान्ति क्षयं।।
उद्यद्भास्करविस्फुरत्करशतव्याघातनिष्कासिता।
नानादेहिविलोचनद्युतिहरा, शीघ्रं यथा शर्वरी।।३।।
त्रैलोक्येश्वरभंगलब्धविजयादत्यन्तरौद्रात्मकान् ।
नानाजन्मशतान्तरेषु पुरतो, जीवस्य संसारिणः।।
को वा प्रस्खलतीह केन विधिना, कालोग्रदावानला-
न्नस्याच्चेत्तव पादपद्मयुगलस्तुत्यापगावारणम्।।४।।
लोकालोकनिरन्तरप्रविततज्ञानैकमूर्ते! विभो!।
नानारत्नपिनद्धदंडरुचिरश्वेतातपत्रत्रय! ।।
त्वत्पादद्वयपूतगीतरवतः शीघ्रं द्रवन्त्यामयाः।
दर्पाध्मातमृगेन्द्रभीमनिनदाद्वन्या यथा कुञ्जराः।।५।।
दिव्यस्त्रीनयनाभिराम! विपुलश्रीमेरुचूडामणे!
भास्वद्बालदिवाकरद्युतिहरप्राणीष्टभामंडल!।।
अव्याबाधमचिन्त्यसारमतुलं, त्यक्तोपमं शाश्वतं।
सौख्यं त्वच्चरणारविंदयुगलस्तुत्यैव संप्राप्यते।।६।।
यावन्नोदयते प्रभापरिकरः, श्रीभास्करो भासयं-
स्तावद्-धारयतीह पंकजवनं, निद्रातिभारश्रमम् ।।
यावत्त्वच्चरणद्वयस्य भगवन्न स्यात्प्रसादोदय-
स्तावज्जीवनिकाय एष वहति प्रायेण पापं महत्।।७।।
शांतिं शान्तिजिनेन्द्र! शांतमनसस्त्वत्पादपद्माश्रयात्।
संप्राप्ताः पृथिवीतलेषु बहवः शांत्यर्थिनः प्राणिनः।।
कारुण्यान्मम भाक्तिकस्य च विभो! दृष्टिं प्रसन्नां कुरु।
त्वत्पादद्वयदैवतस्य गदतः शांत्यष्टकं भक्तितः।।८।।
शांतिजिनं शशिनिर्मलवक्त्रं, शीलगुणव्रतसंयमपात्रम्।
अष्टशतार्चितलक्षणगात्रं, नौमि जिनोत्तममम्बुजनेत्रम्।।९।।
पंचममीप्सितचक्रधराणां, पूजितमिंद्र-नरेन्द्रगणैश्च।
शांतिकरं गणशांतिमभीप्सुः षोडशतीर्थकरं प्रणमामि।।१०।।
दिव्यतरुः सुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ।
आतपवारणचामरयुग्मे, यस्य विभाति च मंडलतेजः।।११।।
तं जगदर्चितशांतिजिनेन्द्रं, शांतिकरं शिरसा प्रणमामि।
सर्वगणाय तु यच्छतु शांतिं, मह्यमरं पठते परमां च।।१२।।
येभ्यर्चिता मुकुटकुंडलहाररत्नैः।
शक्रादिभिः सुरगणैः स्तुतपादपद्माः।।
ते मे जिनाः प्रवरवंशजगत्प्रदीपाः।
तीर्थंकराः सततशांतिकरा भवंतु।।१३।।
संपूजकानां प्रतिपालकानां, यतीन्द्रसामान्यतपोधनानां।
देशस्य राष्ट्रस्य पुरस्य राज्ञः, करोतु शांतिं भगवान् जिनेन्द्रः।।१४।।
क्षेमं सर्वप्रजानां प्रभवतु बलवान्धार्मिको भूमिपालः।
काले काले च सम्यग्वर्षतु मघवा व्याधयो यांतु नाशं।।
दुर्भिक्षं चोरिमारी क्षणमपि जगतां मा स्म भूज्जीवलोके।
जैनेन्द्रं धर्मचक्रं प्रभवतु सततं, सर्वसौख्यप्रदायि।।१५।।
तद्द्रव्यमव्ययमुदेतु शुभः स देशः, संतन्यतां प्रतपतां सततं स कालः।
भावः स नन्दतु सदा यदनुग्रहेण, रत्नत्रयं प्रतपतीह मुमुक्षवर्गे।।१६।।
प्रध्वस्तघातिकर्माणः, केवलज्ञानभास्कराः।
कुर्वन्तु जगतां शांतिं, वृषभाद्या जिनेश्वराः।।१७।।
अंचलिका-इच्छामि भंते! संतिभत्ति काउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाण-संपण्णाणं, अट्ठमहापाडिहेरसहियाणं, चउतीसाति-सयविशेषसंजुत्ताणं, बत्तीसदेवेंदमणिमयमउडमत्थयमहियाणं, बलदेववा-सुदेवचक्कहररिसिमुणिजइअणगारोवगूढाणं, थुइसयसहस्सणिलयाणं उसहाइवीरपच्छिममंगलमहापुरिसाणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिनगुणसंपत्ति होउ मज्झं।
नमोऽस्तु वर्षायोगप्रतिष्ठापनक्रियायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं सिद्ध-योगि-चैत्य-पंचमहागुरुशांतिभक्तीः कृत्वा तद्धीनाधिकादिदोषविशुद्ध्यर्थं समाधिभक्तिकायोत्सर्गं करोम्यहं।
(पृ. १२ से सामायिक दंडक, ९ जाप्य, पृ. १२ से थोस्सामि पढ़कर समाधिभक्ति पढ़ें।)
स्वात्माभिमुखसंवित्तिलक्षणं श्रुतचक्षुषा।
पश्यन्पश्यामि देव त्वां, केवलज्ञानचक्षुषा।।१।।
शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदार्यैः।
सद्वृत्तानां गुणगणकथा, दोषवादे च मौनम् ।।
सर्वस्यापि प्रियहितवचो, भावना चात्मतत्त्वे।
सम्पद्यंतां मम भवभवे, यावदेतेऽपवर्गः।।२।।
जैनमार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुतौ मतिः।
निष्कलंकविमलोक्तिभावनाः, सम्भवन्तु मम जन्मजन्मनि।।३।।
गुरुमूले यतिनिचिते, चैत्यसिद्धांतवार्धिसद्घोषे।
मम भवतु जन्मजन्मनि, सन्यसन समन्वितं मरणम्।।४।।
जन्मजन्मकृतं पापं, जन्मकोटिसमार्जितम् ।
जन्ममृत्युजरामूलं, हन्यते जिनवंदनात् ।।५।।
आबाल्याज्जिनदेवदेव! भवतः श्रीपादयोःसेवया।
सेवासक्तविनेयकल्पलतया कालोद्ययावद्गतः।।
त्वां तस्याः फलमर्थये, तदधुना प्राणप्रयाणक्षणे।
त्वन्नामप्रतिबद्धवर्णपठने, कंठोस्त्वकुंठो मम।।६।।
तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्।
तिष्ठतु जिनेन्द्र! तावद्यावन्निर्वाणसंप्राप्तिः।।७।।
एकापि समर्थेयं, जिनभक्तिर्दुर्गिंत निवारयितुम्।
पुण्यानि च पूरयितुं, दातुं मुक्तिश्रियं कृतिन:।।८।।
पंच अरिंजयणामे, पंचय मदिसायरे जिणे वंदे।
पंच जसोयरणामे, पंचय सीमंदरे वंदे१।।९।।
रयणत्तयं च वंदे, चउवीसजिणे च सव्वदा वंदे।
पंचगुरूणां वंदे, चारणचरणं सदा वंदे।।१०।।
अर्हमित्यक्षरब्रह्म – वाचकं परमेष्ठिनः।
सिद्धचक्रस्य सद्बीजं, सर्वतः प्रणिदध्महे।।११।।
कर्माष्टकविनिर्मुक्तं, मोक्षलक्ष्मीनिकेतनम्।
सम्यक्त्वादिगुणोपेतं, सिद्धचक्रं नमाम्यहम्।।१२।।
आकृष्टिं सुरसंपदां विदधते, मुक्तिश्रियो वश्यतां।
उच्चाटं विपदां चतुर्गतिभुवां, विद्वैषमात्मैनसाम्।।
स्तम्भं दुर्गमनं प्रति प्रयततो, मोहस्य सम्मोहनम्।
पायात्पंचनमस्क्रियाक्षरमयी, साराधना देवता।।१३।।
अनंतानन्तसंसार – संततिच्छेदकारणम् ।
जिनराजपदाम्भोज – स्मरणं शरणं मम।।१४।।
अन्यथा शरणं नास्ति, त्वमेव शरणं मम।
तस्मात्कारुण्यभावेन, रक्ष रक्ष जिनेश्वर!।।१५।।
नहि त्राता नहि त्राता, नहि त्राता जगत्त्रये।
वीतरागात्परो देवो, न भूतो न भविष्यति।।१६।।
जिने भक्ति-र्जिने भक्ति-र्जिने भक्ति-र्दिने दिने।
सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे।।१७।।
याचेऽहं याचेऽहं जिन! तव चरणारविन्दयोर्भक्तिम्।
याचेऽहं याचेऽहं पुनरपि तामेव तामेव।।१८।।
विघ्नौघाः प्रलयं यान्ति, शाकिनीभूतपन्नगाः।
विषो निर्विषतां याति, स्तूयमाने जिनेश्वरे।।१९।।
इच्छामि भंते! समाहिभत्तिकाउस्सग्गो कओ तस्सालोचेउं रयणत्तयसरूव-परमप्पज्झाणलक्खण समाहिभत्तीये णिच्चकालं, अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिनगुणसंपत्ति होउ मज्झं।
।। वर्षायोग स्थापना विधि पूर्ण हुई ।।