-मन्दाक्रान्ता छंद-
स्वात्मस्थित: सर्वगत: समस्त-व्यापारवेदी विनिवृत्तसंग:।
प्रवृद्धकालोप्यजरो वरेण्य:, पायादपायात्पुरुष: पुराण:।।१।।
परैरचिन्त्यं युगभारमेक:, स्तोतुं वहन्योगिभिरप्यशक्य:।
स्तुत्योऽद्य मेऽसौ वृषभो न भानो:, किमप्रवेशे विशति प्रदीप:।।२।।
तत्याज शव्रâ: शकनाभिमानं, नाहं त्यजामि स्तवनानुबंधम्।
स्वल्पेन बोधेन ततोऽधिकार्थं, वातायनेनेव निरूपयामि।।३।।
त्वं विश्वदृश्वा सकलैरदृश्यो, विद्वानशेषं निखलैरवेद्य:।
वक्तुं कियान्कीदृश इत्यशक्य:, स्तुतिस्ततोऽशक्तिकथा तवास्तु।।४।।
व्यापीडितं बालमिवात्मदोषै-रुल्लाघतां लोकमवापिपस्त्वम्।
हिताहितान्वेषणमान्द्यभाज:, सर्वस्यजन्तोरसि बालवैद्य:।।५।।
दाता न हर्ता दिवसं विवस्वा, नद्यश्व इत्यच्युत! दर्शिताश:।
सव्याजमेवं गमयत्यशक्त:, क्षणेन दत्सेऽभिमतं नताय।।६।।
उपैति भक्त्या सुमुख: सुखानि, त्वयि स्वभावाद्विमुखश्च दु:खम्।
सदावदातद्युतिरेकरूपस्तयो-स्त्वमादर्श इवावभासि।।७।।
अगाधताब्धे: स यत: पयोधिर्मेरोश्च, तुङ्गा प्रकृति:स यत्र।
द्यावापृथिव्यो: पृथुता तथैव, व्याप त्वदीया भुवनान्तराणि।।८।।
तवानवस्था परमार्थतत्त्वम्, त्वया न गीत: पुनरागमश्च।
दृष्टं विहाय त्वमदृष्टमैषी:, विरुद्धवृत्तोऽपि समंजसस्त्वम्।।१।।
स्मर: सुदग्धो भवतैव तस्मिन्, उध्दूलितात्मा यदि नाम शंभु:।
अशेत वृन्दोपहतोऽपि विष्णु:, किं गृह्यते येन भवानजाग:।।२।।
स नीरजा: स्यादपरोऽघवान्वा, तद्दोषकीर्त्यैव न ते गुणित्वम्।
स्वतोम्बुराशेर्महिमा न देव! स्तोकापवादेन जलाशयस्य।।३।।
कर्मस्थितिं जन्तुरनेकभूमिम्, नयत्यमुं सा च परस्परस्य।
त्वं नेतृभावं हि तयोर्भवाब्धौ, जिनेन्द्र नौनाविकयोरिवाख्य:।।४।।
सुखाय दु:खानि गुणाय दोषान्, धर्माय पापानि समाचरन्ति।
तैलाय बाला: सिकतासमूहं, निपीडयन्ति स्फुटमत्वदीया:।।५।।
विषापहारं मणिमौषधानि, मन्त्रं समुद्दिश्य रसायनं च।
भ्राम्यन्त्यहो न त्वमिति स्मरन्ति, पर्यायनामानि तवैव तानि।।६।।
चित्ते न किंचित्कृतवानसि त्वम्, देव: कृतश्चेतसि येन सर्वम्।
हस्ते कृतं तेन जगद्विचित्रम्, सुखेन जीवत्यपि चित्तबाह्य:।।७।।
त्रिकालतत्त्वं त्वमवैस्त्रिलोकी-स्वामीति संख्यानियतेरमीषाम्।
बोधाधिपत्यं प्रति नाभविष्यत्, तेऽन्येऽपि चेद्व्याप्स्यदमूनपीदम्।।८।।
नाकस्य पत्यु: परिकर्म रम्यं, नागम्यरूपस्य तवोपकारी।
तस्यैव हेतु: स्वसुखस्य, भानोरुद्विभ्रतश्च्छत्रमिवादरेण।।९।।
क्वोपेक्षकस्त्वं क्व सुखोपदेश:, स चेत्किमिच्छाप्रतिकूलवाद:।
क्वासौ क्व वा सर्वजगत्प्रियत्वम्, तन्नो यथातथ्यमवेविचं ते।।१०।।
तुङ्गात्फलं यत्तदकिंचनाच्च, प्राप्यं समृद्धान्न धनेश्वरादे:।
निरम्भसोऽप्युच्चतमादिवाद्रे-र्नैकापि निर्याति धुनी पयोधे:।।११।।
त्रैलोक्यसेवानियमाय दण्डं, दध्रे यदिन्द्रो विनयेन तस्य।
तत्प्रातिहार्यं भवत: कुतस्त्यं, तत्कर्मयोगाद्यदि वा तवास्तु।।१२।।
श्रिया परं पश्यति साधु नि:स्व:, श्रीमान्न कश्चित्कृपणं त्वदन्य:।
यथा प्रकाशस्थितमन्धकारस्थायी-क्षतेऽसौ न तथा तम:स्थम्।।१३।।
स्ववृद्धिनि:श्वासनिमेषभाजि, प्रत्यक्षमात्मानुभवेपि मूढ:।
किं चाखिलज्ञेयविवर्तिबोध-स्वरूपमध्यक्षमवैति लोक:।।१४।।
तस्यात्मजस्तस्य पितेति देव, त्वां येऽवगायन्ति कुलं प्रकाश्य।
तेऽद्यापि नन्वाश्मनमित्यवश्यं, पाणौ कृतं हेम पुनस्त्यजन्ति।।१५।।
दत्तस्त्रिलोक्यां पटहोऽभिभूता:, सुरासुरास्तस्य महान्स लाभ:।
मोहस्य मोहस्त्वयि को विरोद्धुम्, मूलस्य नाशो बलवद्विरोध:।।१६।।
मार्गस्त्वयैको ददृशे विमुक्ते:, चतुर्गतीनां गहनं परेण।
सर्वं मया दृष्टमिति स्मयेन, त्वं मा कदाचित् भुजमालुलोक:।।१।।
स्वर्भानुरर्कस्य हविर्भुजोऽम्भ:, कल्पान्तवातोऽम्बुनिधेर्विघात:।
संसारभोगस्य वियोगभावो, विपक्षपूर्वाभ्युदयास्त्वदन्ये।।२।।
अजानतस्त्वां नमत: फलं यत्, तज्जानतोऽन्यं न तु देवतेति।
हरिन्मणिं काचधिया दधान:।, तं तस्य बुद्ध्या वहतो न रिक्त:।।३।।
प्रशस्तवाचश्चतुरा: कषायै:, दग्धस्य देवव्यवहारमाहु:।
गतस्य दीपस्य हि नंदितत्वम्, दृष्टं कपालस्य च मंगलत्वम्।।४।।
नानार्थमेकार्थमदस्त्वदुक्तम्, हितं वचस्ते निशमय्य वक्तु:।
निर्दोषतां के न विभावयंति, ज्वरेण मुक्त: सुगम: स्वरेण।।५।।
न क्वापि वांछा ववृते च वाक्ते, काले क्वचित्कोऽपि तथा नियोग:।
न पूरयाम्यम्बुधिमित्युदंशु:, स्वयं हि शीतद्युतिरभ्युदेति।।६।।
गुणा गभीरा: परमा: प्रसन्ना:, बहुप्रकारा बहवस्तवेति।
दृष्टोऽयमन्तस्तवने न तेषाम्, गुणो गुणानां किमत: परोऽस्ति।।७।।
स्तुत्या परं नाभिमतं हि भक्त्या, स्मृत्या प्रणत्या च ततो भजामि।
स्मरामि देवं! प्रणमामि नित्यम्, केनाप्युपायेन फलं हि साध्यम्।।८।।
ततस्त्रिलोकीनगराधिदेवं, नित्यं परंज्योतिरनंतशक्तिम्।
अपुण्यपापं परपुण्यहेतुं, नमाम्यहं वन्द्यमवन्दितारम्।।९।।
अशब्दमस्पर्शमरूपगन्धं, त्वां नीरसं तद्विषयावबोधम्।
सर्वस्य मातारममेयमन्यै-र्जिनेन्द्रमस्मार्यमनुस्मरामि।।१०।।
अगाधमन्यैर्मनसाप्यलंघ्यं, निष्किंचनं प्रार्थितमर्थवद्भि:।
विश्वस्य पारं तमदृष्टपारं, पतिं जिनानां शरणं व्रजामि।।११।।
त्रैलोक्यदीक्षागुरवे नमस्ते, यो वर्धमानोऽपि निजोन्नतोऽभूत।
प्राग्गण्डशैल: पुनरद्रिकल्प:, पश्चान्न मेरु: कुलपर्वतोऽभूत।।१२।।
स्वयंप्रकाशस्य दिवा निशा वा, न बाध्यता यस्य न बाधकत्वम्।
न लाघवं गौरवमेकरूपं, वंदे विभुं कालकलामतीतम्।।१३।।
इति स्तुतिं देव! विधाय, दैन्याद्वरंं न याचे त्वमुपेक्षकोऽसि।
छायातरुं संश्रयत: स्वत:, स्यात्कश्छायया याचितयात्मलाभ:।।१४।।
अथास्ति दित्सा यदि वोपरोध-स्त्वय्येव सक्तां दिश भक्तिबुद्धिम्।
करिष्यते देव! तथा कृपां मे, को वात्मपोष्ये सुमुखो न सूरि:।।१५।।
व्िातरति विहिता यथाकथञ्चिज्जिन, विनताय मनीषितानि भक्ति:।
त्वयि नुतिविषया पुनर्विशेषाद्दिशति, सुखानि यशो धनं जयं च।।१६।।