रचयित्री-गणिनी ज्ञानमती
अर्हत्प्रभुकथितार्थं, ग्रथितं गणनायवै:।
भक्त्याहं शिरसा नौमि, श्रुतज्ञानमहोदधिम्।।१।।
धर्मतीर्थस्य कर्तारं, महावीरजिनं नुम:।
द्वादशांगस्य कर्तारं, नौमि गौतमस्वामिनम्।।२।।
इंद्रभूति गणीन्द्र! त्वं, वीरस्य प्रथमो भवे:।
सप्तर्द्धीश! चतुर्ज्ञान—धारिन् ! त्वां नौम्यहं मुदा।।३।।
मुहुर्मुहुर्नमामि त्वां, वीरप्रभोर्गणीश्वरम्।
वीरदिव्यध्वनेर्हेतुं, गणाधीशं गणीश्वरम्।।४।।
प्रभोर्दिव्यध्विंन श्रुत्वा, द्वादशांगविधायिने।
ग्रंथकर्त्रे गणीन्द्राय, नमो गौतमस्वामिने।।५।।
श्रीगणधर स्वामिन्! ते, चैत्यभक्त्यादिभारती।
प्रतिक्रमणसूत्राणि, प्राप्य धन्या वयं भुवि।।६।।
पायं पायं गणाधीश—वाणीं तेऽमृतसदृशीम्।
पुष्टास्तुष्टाश्च तृप्ताश्च, जाता: स्वस्था अपि वयं।।७।।
श्री गौतमगणीन्द्रस्य, वाणी ह्यमृतवर्षिणी।
पूर्णां ज्ञानमतीं कुर्यात् , स्यान्नोऽमृतपदाप्तये।।८।।