तीर्थकृत्-संभवस्वामी, त्वं भवांभोधितारक:।
संभवस्वामिनं नित्य-माश्रयन्ति सुखेप्सव:।।१।।
संभवस्वामिना लोके, मोक्षमार्ग: प्रदर्शित:।
संभवस्वामिने नित्यं, नमोऽस्तु कोटि-कोटिश:।।२।।
संभवस्वामिनो भव्या:, तरन्ति भवसागरम्।
संभवस्वामिनो धर्मो, जन्ममृत्युविनाशक:।।३।।
संभवस्वामिनि प्रीति:, भवे भवे भवेन्मम।
प्रभो! संभवस्वामिन्! त्वं, पाहि मां भवदु:खत:।।४।।