उपजाति छंद श्रीपंचमेरुस्थजिनेन्द्रगेहान्, प्रणम्य बिंबानि च वीरनाथं।
तत्राभिषेकाप्तजिनाधिपांश्च, तान् पंचमेरून् किल संस्तवीमि।।१।।
सुदर्शनगिरिं स्तुवे विजयमेर्वचलमंदरान्,
सुविद्युदनुमालिभूमिभृदनाद्यनंतात्मकान् ।
सुरेन्द्रविहितातिशायि-जिनजन्मकालोत्सवे,
सुधर्मवरतीर्थकृत्-स्नपनवैश्च पूज्यानिमान् ।।२।।
सुदर्शनमहागिरेर्भुवि सुभद्रशालं वनं,
ह्यकृत्रिमजिनालयाः सुरनुताश्चतुर्दिक्षु च।
सुरत्नमयमूर्तयो जिनवरस्य पुण्यप्रदा,
नमोस्तु सततं भवाब्धितरणाय ताभ्यो मुदा।।३।।
भुवः शतक पंचयोजनगतं वनं नंदनं,
विचित्रजलयंत्रभृज्जलभृतः सुवाप्योऽत्र च।
त्रिशालपरिवेष्टिताः कनक-रत्न-मालाध्वजैः,
सुवर्णघटधूपकुंभ-जिनचैत्यवृक्षैर्युताः।।४।।
अनंत-भव-संचितां सकल-कर्म-राशिं क्षणात्,
दहंति भविकस्य चैत्यनिलयाश्चतुर्दिग्भवाः।
सुरेन्द्र-मुनि-वृंद-चक्रि-धरणेन्द्र-कृद्वंदनाः,
विभांति च गृहे गृहेऽष्ट-शत-मूर्तयो नौमि ताः।।युग्मं ५।।
द्विषष्टिकसहस्रपंचशतयोजनस्योपरि,
सुसौमनसनामके जिनगृहाश्चतुर्दिग्भवाः।
सुरासुरगणार्चिता गणधरादिकै: संस्तुताः,
नमामि किल भक्तितः सकलतापशान्त्यै मुदा।।६।।
सुपांडुकवनस्य योजनसहस्रषट्त्रिंशति,
जिनेन्द्र-भवनानि भांति मणिरत्नयुक्तोरणैः।
विचित्रविभवैश्च साष्टशतमंगलद्रव्यवै।
दधे हृदि जिनांश्च नौमि निलयांश्चतुर्दिग्भवान्।।७।।
अनुष्टुप छंद आयतोत्तुंग-विष्कंभाश्चतुस्त्रिद्विशतानि च।
क्रोशैर्मानं वरं मध्यं तदर्धमवरार्धकं।।८।।
एतज्जिनौकसां मानं, सहस्रद्वयस्तकै:,
तुंगा अष्टोत्तरैर्नौमि शतच्छायाः प्रतिगृहं।।९।।
उत्तमा भद्रशालेषु, नंदनेषु जिनालयाः।
सौमनसेषु मध्याः स्यु: जघन्याः पांडुकेषु च।।१०।।
(त्रिभिः कुलकं) लक्षयोजनमुत्तुंगः सुमेरुस्ते चतुर्नगाः,
ऊध्र्वं तेषां सहस्राणि चतुरशीतिसंमिताः।।११।।
व्यासं दशसहस्राणि मूलं सहस्रयोजनं,
तथा चतुर्नगानां च भद्रशालं वनं भुवि।।१२।।
युग्मं।। चतुर्नगेषु पृथ्वीतः पंचशतकयोजनं,
गत्वा नंदनमानंदं भव्यानां वितनोति यत् ।।१३।।
उपरि पंचपंचाशत् सहस्रेषु च पंचसु,
शतेषु योजनेषु स्यात् सौमनसं वनं शुभं।।१४।।
ततः परं सहस्रं स्यादष्टविंशतिसंमितं,
पाडुकं वनमाख्यातं जिनस्नपनहेतुकं।।१५।।
एकषष्टि-सहस्राणि योजनानि विभांति ये,
नाना-वर्णैर्विचित्राश्च मेरवः संत्यतः परं।।१६।।
स्वर्णवर्णैर्युता ऊध्र्वं वैडूर्यमणिचूलिका।
चत्वारिंशदसौ तुंगा चतुर्योजनमग्रिमे।।१७।।
आर्यास्कंध: छंद मंदारचूतचंपक – चंदनघनसारपूगप्रभृतिसुरवृक्षैः।
चारणर्षिगणविहरण-विहगकलस्वनमधुरैः रुचिरवनानि।।१८।।
भुजंगप्रयातं छंदः वने पांडुके कोण ईशानमध्ये,
शिला पांडुका तीर्थकृद्भारतानां।
सुजन्माभिषेकाय सिद्धा सुवर्णा,
स्तुवे जन्मकल्याणमाप्तान् शिलां च।।१९।।
विदिश्यग्नितः पांडुना कंबलास्ति,
सुपश्चिमविदेहस्य तीर्थंकराणां।
सुजन्माभिषेकात् पवित्रा सुरूप्या,
स्तुवे तां शिलां सर्व-तीर्थंकराश्च।।२०।।
विदिङ्नैऋते यास्ति रक्ताख्ययासौ,
शिलैरावतोद्भूततीर्थंकराणां।
सुजन्माभिषेकात् सुपूतां शिलां तां,
त्रिकालोद्भवान् नौमि सर्वाञ्जिनांश्च।।२१।।
मता रक्तपूर्वा शिला कंबलास्ति,
सुवायव्यदिक्-प्राग्विदेहोद्भवानां।
जिनानां हि कल्याणकाले पवित्रां,
शिलां तीर्थकर्तृंश्च वंदे विशुद्ध्यै।।२२।।
शिला अर्धचन्द्रैर्निभा, योजनानां,
शतैर्विस्तृतास्ताश्च पंचाशदष्टौ।
सुदीर्घोदया सिंहपीठास्त्रयोऽत्र,
सुमध्येऽभिषिक्तान् जिनांस्तान् प्रणौमि।।२३।।
उपेन्द्रवङ्काा छंदः द्वीपे द्विसार्धे भुवि पंच शैलाः,अशीतिजिनसद्मसु तेषु चापि।
स्तूपे मदस्तंभसुरद्रुमेऽपि,नमामि बिंबानि जिनेश्वराणां।।२४।।
तीर्थंकराणामभिषेकवार्भिः पूता नगेन्द्रा नृसुरासुरेन्द्राः।
ज्योतिष्कदेवाश्च मुदा नु तेषां, प्रदक्षिणां ते विदधत्यजस्रं।।२५।।
स्धकं छंदः विदेहभरतैरावत-कर्मभूमयः पंचदशोक्तास्तासु।
सप्तत्यधिकशतानि च, तीर्थभृतस्तान् स्तुवे वरा गणनेयं।।२६।।
पृथ्वी छंदः सुरेन्द्रकृतसिंधुरो धवलवर्ण ऐरावतः,
चतुःप्रमितलक्षयुक् कथित आगमे क्रोशतः।
सरांसि रदनेषु तस्य कमलानि तेषु क्रमात्,
प्रतिच्छदमपीति देववनिताः प्रनृत्यंत्यहो।।२७।।
पयोनिधिपयःप्रपूर्णमणिरत्नघटपंक्तिभिः,
जिनेन्द्रगुणराशिकीर्तिधवलौघपुंजीकृतैः।
अहो! नु विबुधा वितक्र्य भुवनेऽपि तन्यादिति,
प्रभोरभिषवच्छलाद् विमलकीर्तिमातेनिरे।।२८।।
घटस्य वदनावगाहजठरं मतं योजनैः,
तदेक- वसु- दिक्प्रमैर्वसुयुतैः सहस्रैर्घटैः।
कृताभिषवनोच्छलद्धवल-दुग्ध-धारांबुधौ,
निमज्जनविधिं व्यधुः नृसुरभाक्तिकाः हर्षतः।।२९।।
प्रसन्नमनसः सुराः सवनकालमाश्रित्य ते,
ह्यनेकविधनृत्यगानजयघोषमातन्वते।
सुरेन्द्रवनितादयो विविध-पुष्पदीपादिकै:,
सुपूजनमपि स्तुतिं मुनिगणा मुदा कुर्वते।।३०।।
प्रभो! जगति कोऽपि किं वृजति तेऽप्यननुकूलतां,
शरण्य! शरणं त्वमेव विषमात् समं तन्यते।
जनस्य सकलं जगत् वशमवश्यमापद्यते,
यदीश! तव पादपद्मयुगलं समाश्रीयते।।३१।।
जयेति जय वीर! धीर! भगवन्! महावीर! भो!,
मुनीन्द्रहृदयाब्जसूर्य! भविकौमुदीचंद्रमः!
सुमेरुकृतजन्मकालसवनं सुलब्धं त्वया,
नमोऽस्तु भगवन् ! नमोऽस्तु जिनवर्धमानाय ते।।३२।।
दिशेषु-जलधिप्रमा जिनगृहा इहाकृत्रिमाः,
चतुर्विधसुरालयेऽपि भुवनत्रये ये नृभिः।
कृताश्च जिनमूर्तयोऽतिशयपंचकल्याणिकाः,
भुवोऽपि च जिनाश्च तांश्च किल ताश्च तास्तान् स्तुवे।।३३।।
सुदर्शनविशुद्धिकादिशुभभावनाषोडश-
क्षमादिदशधर्मसूत्तमविधैः सुरत्नत्रयैः।
उपाज्र्य शुभतीर्थकं स्नपनमाप्नुवन् ये गिरौ,
त एव वितरंतु सुज्ञमतिमिष्टसिद्धिं च मे।।३४।।
इत्थं मेरुसुदर्शनोऽथ विजयो नाम्नाचलो मंदरः,
विद्युन्मालिनगश्च येऽज्ञमतितः स्तवनं हि तेषां कृतं।
ये भक्त्या सुपठंति तैः खलु गिरौ स्नानं प्रपद्याचिरात्,
अर्ह ‘ज्ज्ञानवती’ च सिद्धपदवी त्वत्संपदा श्रीयते।।३५।।
इच्छामि भंत्ते! पंचमेरुभत्तिकाओसग्गो कओ तस्सालोचेउं, इमम्हि मज्झलोए अड्ढाइज्जदीवमज्झट्ठिदपंचमेरुपव्वदाणं भद्द-सालणं-दणसोमण-सपांडुकवणेसु चउचउदिसासु असीदिजिणायदणाणं पांडुवण-विदिसासु तित्थयरण्हवणपवित्तपांडुपहुदिसिलाणं जिणजिण-घरवंदणट्ठ-विहरमाण-चारणरिद्धिजुत्तरिसीणं च णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।