Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
Search
विशेष आलेख
पूजायें
जैन तीर्थ
अयोध्या
श्री वीरसागराष्टकम्
July 8, 2017
Workshop of Books
,
ज्ञानमती माताजी
jambudweep
श्री वीरसागराष्टकम्
यस्य प्रसन्नमुखमण्डलमीक्षमाणा।
भव्या भवन्ति सततं भवतो विभीता:।
त्यक्त्वा परिग्रहचयं मुनयो भवन्त:।
कुर्वन्ति दुर्लभतरं स्वहितं समन्तात्।।१।।
यस्यास्यनिर्गतवचोऽमृतपानतृप्तो
विज्ञो न जातु रमते सुरभूमिमध्ये।
यस्यांघ्रियुग्ममभिनम्य नरा: कदाचिन्।
नैवानमन्ति कुगुरुन् पतितान् भवाब्धौ।।२।।
यदूदीक्षिता मुनिवरा: सुदृढां व्रतानां।
संपालने विशदवृत्त युता लसन्ति।
आर्याश्च वृत्तपरिपालनपूर्णदक्षा:।
सन्त्यत्र गौरवयुता: सुनुता मर्हिद्ध।।३।।
यत्सन्निधौ भुवि बभूव महातपस्वी।
श्री चन्द्रसागर मुनि: प्रवर: प्रवक्ता।
श्री धर्मसागरमर्हिषमुखा यदीया:
शिष्या बभूवुरतिशुभ्रयश: समग्रा:।।४।।
यस्यानुशासनरत: शिवसागरादूया:
प्रावीण्यतामुपगता: श्रुतसागराश्च।
आर्या: सुज्ञानमतयो गणिनीपदाढ्या:
आर्या: सुपाश्र्वमतय: प्रमुखा अनेका:।।५।।
भव्या बभूवुरखिलागमपारगन्त्रयो
यस्याश्रये विमलवृत्तयुताश्च काश्चित्।
जातास्तपस्तति विशोभिन ऐलकाश्च
गायन्ति यस्य विततं विशदं यशश्च।।६।।
श्री क्षुल्लिका गुणधरा व्रतधारिणश्च
सत्क्षुल्लिकाश्च सितशाटकशेभितांगा:।
भव्या गृहिव्रतविभूषितशुद्धचित्रा
यस्यांघ्रिकंजयुगलं सततं स्तुवन्ति।।७।।
तं ‘‘वीरसागर’’ इति पृथिता—
भिधानं सम्पूर्णभारतमहीप्रथितावदानम्।
श्री शान्तिसागरमर्हिषवरस्य पट्टं—
शिष्यं प्रणौमि प्रथमं प्रथितं पृथिव्याम्।।८।।
पन्नालाल कृतं स्तोत्रं वीरसागरसंश्रितम्।
य: पठेच्छुद्धभावेन स याति स्थिरतां व्रते।।९।।
Tags:
Gyanamrat
Previous post
महापुराण प्रवचन-१
Next post
07. नव पदार्थ
Related Articles
जैनागम का सार : ज्ञानामृत
July 7, 2017
jambudweep
जैन धर्म
February 10, 2017
jambudweep
error:
Content is protected !!