भगवान नेमिनाथ के केवलज्ञान का वर्णन
पूर्वाह्रेऽश्वयुजस्यातः शुक्लप्रतिपदि प्रभुः। शुक्लध्यानाग्निना दग्ध्वा चतुर्घातिमहावनम्।।११२।।
अनन्तकेवलज्ञानदर्शनादिचतुष्टयम् । त्रैलोक्येन्द्रासनाकम्पि संप्रापत्परदुर्लभम् ।।११३।।
स्रग्धरावृत्तम्
घण्टारावोरुसिंहस्फुटपटहरवोदारशङ्खस्वनैस्तां
जैनीं वैâवल्यलब्धिं सकलसुरगणा द्राग्विदित्वा यथास्वम् ।
इन्द्राः सिंहासनोच्चैर्मुकुटविचलनैः स्वान् प्रयुञ्ज्यावधीन् स्वैः
प्राप्तानीवैâः सहायुः क्षुभितसलिलधिव्रातविद्भिस्रिलोक्याः।।११४।।
आपूर्यावार्यवेगैर्गननजलनिधिं वाहनानां समूहैः
सप्तानीवैâरनेवैâस्रिदशपतिगणस्तं परीत्य प्रपेदे।
प्राच्चैर्मूर्धावलेपं गिरिपतिमधिपस्नानकल्याणमात्रं
भूयः कल्याणकण्ठे गुणभरणगुणादूर्जयन्तं जयन्तम् ।।११५।।
मन्दारादि द्रुमाणां सुरभितककुभां पुष्पवृष्ट्या सुराणां
दिव्यस्रीगीतमूर्छन्मुखरितभुवनैर्दुन्दुभीनां निनादैः।
भेत्रा लोकस्य शोकं फलकुसुमभृताशोकशाखाभृता च
श्वेतच्छत्रत्रयेण त्रिभुवनविभुताचिह्नभूतोरुभूम्ना।।११६।।
हंसालीपातलीलैर्धवलितखचलैश्चामराणां सहस्रैः
भाभिर्भामण्डलेन प्रतिहतविकसदानुभामण्डलेन।
नानारत्नौघरोचिर्जनितसुरधनुर्हेमसिंहासनेन
भाषाभेदस्फुरन्त्या स्फुरणविरहितस्वाधरोद्भाषया च।।११७।।
अष्टाभिः प्रातिहार्यैरतिशमितपरैः स्वैर्विशेषैरशेषैः
कर्मापायस्वभावत्रिदिवपतिमवैस्तैश्चतुिंस्रशता च।
त्रैलोक्योद्धारणाय प्रकृतिधृतधृतिर्नेमिनाथो जगत्यां
द्वाविंशो हारिवंशो गुणगणदिनकृत्तीर्थकृत्प्रादुरासीत्।।११८।।
भगवान नेमिनाथ का समवसरणङ
सप्तपञ्चाशः सर्गः
समवादि समापादि शरणं शरणं क्षणात् । त्रिजगत्प्राणिनां देवैः पाकशासनशासनात्।।१।।
सर्वो द्वारवतीलोको यदुभोजकुलाम्बुधिः। आरुरोह गिरिं भूत्या रामकेशवपूर्वकः।।२।।
अवलोक्य जिनेन्द्रस्य शरणं समवादिकम् । बहिरन्तःपरं प्रापद्विस्मयं जनसागरः।।३।।
यादृशी समवस्थानभूमिस्तीर्थकृतामिह। तादृशी श्रोतृलोकस्य समासेन निगद्यते।।४।।
भूमेः स्वभावभूताया दिव्यारत्निप्रमोच्छ्रितिः। भूमिस्तावत्समुच्छ्राया कल्पभूमिरुपर्यतः।।५।।
स्वर्गश्रियं श्रिया जेत्री चतुरस्रा सुखप्रदा। सैकान्तद्वादशाद्यात्मयोजनां कालदेशतः।।६।।
उच्चैर्गन्धकुटीदेशकर्णिका पद्ममूर्तिवत् । भाति भूमिरसौ बाह्य भूश्रीपत्रपरम्परा।।७।।
इन्द्रनीलमयी भूमिर्बाह्यादर्शतलोपमा। भूयसामपि भूयस्त्वं विशतां विदधाति या।।८।।
दूरादिन्द्रादयो यस्यां मानयन्ति नमस्यया। मानार्हास्रिजगन्नाथं साभूर्मानाङ्गणामिधा।।९।।
महादिक्षु चतस्रोऽस्या गव्यूतिद्वयविस्तृताः। वीथ्यस्तन्मध्यगानीयुर्मानपीठान्पुरः प्रभान् ।।१०।।
स्वोत्सेधत्रिगुणात्मीयविस्तराण्युक्तिविस्तरैः। सौवर्णरत्नमूर्त्तीनि मान्यन्ते नृसुरासुरैः।।११।।
नृसुरामानवस्तम्भानास्थायार्चन्ति यत्र भूः। सा त्वास्थानाङ्गणाभिख्या ज्वलल्लौहितरत्नभा।।१२।।
मध्ये वीथि चतस्रोऽत्र त्रिभङ्गा हैमपीठिकाः। भान्त्युरोद्वयसोच्छ्रायाः वृत्ताः क्रोशार्धविस्तृताः।।१३।।
चापोनपीठिकाव्यासा योजनाभ्यधिकोच्छ्रयाः। शुम्भिता मानवस्तम्भाश्चत्वारः पीठिकास्वधि।।१४।।
द्विषड्योजनदृश्यास्ते पालिकास्याम्बुजस्थिताः। वङ्कास्फटिकवैडूर्यमूलमध्याग्रविग्रहाः।।१५।।
द्विसहस्राश्रयो नानारत्नरश्मिविमिश्रिताः। चतुर्दिक्षूर्ध्वसिद्धार्चाः रत्नभूतोरुपालिकाः।।१६।।
पालिकामुखपद्मस्थतपनीयस्फुरद्घटाः। घटास्याबद्धफलकाः श्रीभामाभिषवश्रियः।।१७।।
श्रीचूलारत्नमाचक्रमास्यविंशतियोजनाः। साभिमानमनोदेवमानवस्तंभना बभुः।।१८।।
ततः सरांसि चत्वारि शुम्भदम्भोजभांज्यलम् । हंससारसचक्राह्वारावरम्यककुप्स्वलम् ।।१९।।
अतो वङ्कामयो वप्रो वक्षोदघ्नो घनद्युतिः। द्विगुणीभूतविस्तारः परीयाय समन्ततः।।२०।।
परीत्य परिखातोऽस्थाज्जलप्रभमणिक्षितः। जानुदघ्नाम्बुगम्भीरा कृष्णसाटीव भूस्रियाः।।२१।।
हेमाम्भोजररजःपुञ्जपिञ्जरी भाविताम्भसि। स्वच्छायां दिङ्मुखान्यस्यां साङ्गरागाणि चात्यभान् ।।२२।।
वल्लीवनमतोऽप्यन्तः परीत्य स्थितमित्यभात् । कुसुमामोदिता शान्तं शकुन्तालिकुलाकुलम् ।।२३।।
प्राकारोऽन्तः परीयाय कनत्कनकभास्वरः। विजयादिबृहद्रौप्यचतुर्गोपुरमण्डितः।।२४।।
तत्र दौवारिका भौमाः कटकादिविभूषणाः। प्रभावोत्सारितायोग्या मुद्गरोद्धतपाणयः।।२५।।
मणितोरणपार्श्वेषु गोपुराणां स्फुरत्त्विषाम् । छत्रचामरभृङ्गारपूर्वाष्टशतकान्यमान् ।।२६।।
तद्गोपुरपुरो भान्ति प्रेक्षाशालास्त्रिभूमिकाः। द्विर्द्विर्वीथ्यंतयोर्नृत्यद्द्वात्रिंशत्सुरकन्यकाः।।२७।।
भात्यशोकवनं प्राच्यां सप्तपर्णवनं त्वपाव्â। प्रतीच्यां चम्पकवनमुदीच्यामाम्रसद्वनम् ।।२८।।
ससिद्धप्रतिमोऽशोकः सप्तपर्णश्च चम्पकम् । तथैवाम्रतरुस्तेषां वनानामधिपाः क्रमात् ।।२९।।
त्रिकोणाः मण्डलाकाराश्चतुरस्राश्च वापिकाः। वनेषु रत्नतट्यन्ताशुद्धस्फटिकभूमयः।।३०।।
विश्वाः सतोरणाः लक्ष्यास्तीर्थ्यास्तूच्चैर्वराण्डवैâः। मण्डितागाहमानेष्वगाधा द्विक्रोशविस्तृताः।।३१।।
नन्दा नन्दोत्तरानन्दानन्दवत्यभिनन्दिनी। नन्दघोषेत्यमूर्वाप्यः षडशोकवनस्थिताः।।३२।।
विजयाभिजया जैत्री वैजयन्त्यपराजिताः। जयोत्तरेति षड्वाप्यः सप्तपर्णवनाश्रिताः।।३३।।
कुमुदा नलिनी पद्मा पुष्करा विकचोत्पला। कमलेत्यपि षड्वाप्यश्चम्पकाख्यवने मताः।।३४।।
प्रभासा भास्वती भासा सुप्रभा भानुमालिनी। स्वयंप्रभेति षड्वाप्यः सहकारवनोदिताः।।३५।।
उदयो विजयः प्रीतिः ख्यातिश्चेति क्रमोदितैः। फलैः पूर्वादयो वाप्यः पूज्यन्ते तत्फलार्थिभिः।।३६।।
तद्वापीपुष्पसंदोहं यथोक्तं प्राप्य भाक्तिकाः। आस्तूपं क्रमशोभ्यर्च्य विशन्ति क्रमकोविदाः।।३७।।
अन्तरेणोदयं प्रीतिं चाभितस्त्रिभुवोऽध्वसु। भान्ति नाटकशालास्ता हाटकोज्ज्वलमूर्तयः।।३८।।
अध्यर्धक्रोशविस्तारा द्वात्रिंशज्ज्योतिषां स्त्रियः। तद्भुवो रत्ननिर्माणाः स्वच्छस्फटिकभित्तयः।।३९।।
तासु भक्त्या प्रनृत्यन्ति द्वात्रिंशज्ज्योतिषां स्रियः। हावभावविलासाढ्या रसपुष्टिसपुष्टयः।।४०।।
सचतुर्गोपुरातोऽपि पर्येति वनवेदिका। दिव्या वङ्कामयी वीथीपार्श्वयोर्ध्वजपङ्क्तयः।।४१।।
त्रिदण्डविस्तृताश्चित्राः पीठिकाः प्रतिभक्तिगाः। योजनार्धोच्छ्रितास्तासु वंशा रत्नात्मपूर्वकाः।।४२।।
तदग्रपालिकानद्धफलकाधिष्ठिता ध्वजाः। महान्तो दश चित्राः सत्किज्र्णिीचित्रपट्टकाः।।४३।।
शिखिहंसगरुत्मत्स्रव्âसिंहेभमकराम्बुजैः। वृषरूपेण चक्रेण समधिष्ठितमूर्त्तयः।।४४।।
तेषामष्टशतं जातिर्द्वात्रिंशञ्च चतुःशती। ध्वजसंख्या भवेदेषां सामान्येन समासतः।।४५।।
सद्वािंत्रशत्सहस्राः स्युर्लक्षाः पंचाशदष्ट च। साधिका ध्वजसंख्येयं सैकदिक्का द्विसंगुणा।।४६।।
षट्पञ्चाशत्सहस्राणि लक्षा षट्षष्टिरष्टसु। ध्वजकोट्यश्चतस्रः स्युश्चतुर्दिक्ष्वपि साधिकाः।।४७।।
प्रीतिकल्याणमध्ये स्युरभितः पञ्चभूमिकाः। नृत्तशालाः प्रनृत्यन्ति यत्र भावनयोषितः।।४८।।
प्राकारोऽन्तः परीयाय द्वितीयो हेमनिर्मितः। पञ्चभूमिकरत्नश्रीचतुर्गोपुरभूषितः।।४९।।
हटद्धाटकपीठस्थाः कम्बुकण्ठगुणोज्ज्यलाः। शातकुम्भमयाः कुम्भाः साम्भोजास्याः सहाम्भसः।।५०।।
शोभन्ते तद्द्विपार्श्वेषु द्वौ द्वौ मङ्गलदर्शनाः। वेत्रदण्डधरा द्वास्थास्तद्द्वाःसु भवनाधिपाः।।५१।।
पुरस्ताद्गोपुराणां च द्वे द्वे नाटकवेश्मनी। पुरस्तात्तु ततो हैमौ द्वौ द्वौ धूपघटौ स्फुटौ।।५२।।
चतुर्दिव्âसिद्धरूपाढ्यं द्विर्द्विः सिद्धार्थपादपम् । कल्पवृक्षवनं तत्र वीथ्यन्तेषु यथायथम् ।।५३।।
सचतुर्गोपुरातोऽन्तर्वेदिका वनपाततः। तोरणान्तरिताः सार्वाः स्तूपा नव नवाध्वसु।।५४।।
पद्मरागमहास्तूपपर्यन्तेषु सभागृहाः। हेमरत्नमयाश्चित्रा मुनिदेवगणोचिताः।।५५।।
नभःस्फटिकनिर्माणस्ततः सालस्तृतीयकः। चतुश्चित्रमहारत्नसप्तभूमिकगोपुरः।।५६।।
विजयो विश्रुतं कीर्तिर्विमलोदयविश्वधुव्â। वासवीर्य वरं चेति पूर्वाख्या ख्यापिताष्टधा।।५७।।
वैजयन्तं शिवं ज्येष्ठं वरिष्ठानघधारणम् । याम्यमप्रतिघं चेति दक्षिणाख्याष्टधा मताः।।५८।।
जयन्तामितसारं च सुधामाक्षोभ्यसुप्रभम् । वरुणं वरदं चेति पश्चिमाख्याष्टधा स्मृताः।।५९।।
अपराजितमर्चाख्यमतुलार्थममोघकम् । उदयं चाक्षयं दोदक्कोबेरं पूर्णकामकम् ।।६०।।
सुरत्नासनमध्यस्था द्रष्टणां भवदर्शिनः। तद्द्वारोमयपार्श्वेषु भान्ति मङ्गलदर्पणाः।।६१।।
यैः प्रध्वस्तमहाध्वान्तप्रभावलयभास्वरैः। भास्वतो भासमुद्धूय भासन्ते गोपुराण्यलम् ।।६२।।
विजयादिपुरद्वाःसु द्वाःस्थास्तिष्ठन्ति कल्पजाः। यथायथं ज्वलद्भूषा जयकल्याणकारिणः।।६३।।
शालास्रयोऽप्यमी त्वेकद्वित्रिक्रोशोच्छ्रयोन्मिताः। मूलमध्योपरिव्या सैस्तदर्धार्धसुसंमिताः।।६४।।
स्वरत्नित्रयहीनोक्तप्रमाणजगतीतलाः। हस्तोद्विद्धाक्षविस्तीर्णव्यामार्धकपिशीर्षकाः।।६५।।
ततोऽप्यन्तर्वणं नानातरुवल्लीगृहाकुलम् । मञ्चप्रेङ्खागिरिप्रेक्षागृहकोटिविराजितम् ।।६६।।
वेदिकाबद्धवीथीषु कल्याणादिजयाजिरम् । कदल्यः कदलीकल्पाः प्रकाशन्तेऽन्तरस्थिताः।।६७।।
अन्तर्नाटकशाला स्यात्ततः कल्याणसप्रभाः। लोकपालविलासिन्यो यत्र नृत्यन्ति सन्ततम् ।।६८।।
तदन्तरे भवत्यन्यत्पीठं पीठगुणास्पदम् । प्रोदंशुरत्नजालास्ततिमिरावलिमण्डलम् ।।६९।।
सिद्धार्थपादपाः सन्ति सिद्धरूपविराजितैः। विटपैर्व्याप्य दिक्प्रान्तमिच्छयेव स्थितास्ततः।।७०।।
स्तूपा द्वादशभूभूषा भूषयन्त्यथ मन्दिरम् । हिरण्मया महामेरुं चत्वारो मेरवो यथा।।७१।।
चतुर्दिग्गोपुरद्वारवेदिकालंकृताः शुभाः। चतस्रो दिक्ष्वथ ज्ञेयाश्चतसृष्वपि वापिकाः।।७२।।
नन्दाभद्राजयापूर्णेत्यभिख्याभिः क्रमोदिताः। यज्जलाभ्युक्षिताः पूर्वां जातिं जानन्ति जन्तवः।।७३।।
ताः पवित्रजलापूर्णसर्वपापरुजाहराः। परापरभवाः सप्त दृश्यन्ते यासु पश्यताम्।।७४।।
अथ गव्यूतमुद्विद्धं योजनाधिकविस्तृतम् । कटीमात्रवरण्डस्थकदलीध्वजसंकुलम्।।७५।।
निरन्तरविशन्निर्यज्जनद्वारोच्चतोरणम् । त्रिलोकविजयाधानमहो भाति जयाजिरम्।।७६।।
मुक्ताबालुकविस्तीर्णप्रवालसिकतान्तरम् । सुरत्नकुसुमैश्चित्रं हेमाम्भोजैस्तदर्चितैः।।७७।।
तपनीयरसालिप्तैस्तपनैरिव भूगतैः। तत्र तत्र यथादेश्यं मण्ड्यन्ते पृथुमण्डलैः।।७८।।
प्रासादैर्मण्डपैश्चान्यैः सुखावासैः सुशोभते। देवासुरनरापूर्णैस्तत्र तत्र विचित्रितम्।।७९।।
क्वचिदालेख्य हृद्यानि वेश्मानि क्वचिदन्तरे। पुराणाद्भुतभूतीनि चित्राख्यानान्वितानि च।।८०।।
क्वचित्पुण्यफलप्राप्त्या पापपाकेन च क्वचित् । धर्माधर्मगतिं साक्षाद्दर्शयन्तीव पश्यतः।।८१।।
दानशीलतपःपूजाप्रारम्भास्तत्फलानि च। तद्वियोगविपत्तीश्च तानि श्रद्धापयन्त्यमून्।।८२।।
स्फुरत्पुलकसंसक्तमुक्तादामोन्मिषन्मणिः। पताका घण्टिकारावरमणीयानिलेरिता।।८३।।
उदंशुरत्नमालेव स्फुरन्ती वीचिरर्णवे। वीक्ष्यते व्योमनीन्द्राद्यः कौतुकाद्येन चाभितः।।८४।।
राजतीन्द्रध्वजः सोऽयं तन्मध्ये हेमपीठिकाम् । अलंकुर्वन् यथामूर्तो देहो देवजयश्रियः।।८५।।
ततः स्तम्भसहस्रस्थो मण्डपोऽस्ति महोदयः। नाम्ना मूर्तिमती यत्र वर्तते श्रुतदेवता।।८६।।
तां कृत्वा दक्षिणे भागे धीरैर्बहुश्रुतैर्वृतः। श्रुतं व्याकुरुते यत्र श्रायसं श्रुतकेवली।।८७।।
तदर्धमानाश्चत्वारस्तत्परीवारमण्डपाः। आक्षेपण्यादयो येषु कथ्यन्ते कथवैâः कथाः।।८८।।
तत्प्रकीर्णकवासेषु चित्रेष्वाचक्षते स्फुटम् । ऋषयः स्वेष्टमर्थिभ्यः केवलादिमहर्द्धयः।।८९।।
तपनीयमयं पीठं ततश्चित्रलताचितम् । यत्तद्वल्युपहारेण यथाकालं समर्च्यते।।९०।।
पीठार्हश्रीपदद्वारं सरत्नकुसुमोत्करम् । मण्डलैः पूर्यते मध्ये मार्गं चन्द्रार्कसप्रभैः।।९१।।
अभितः स्वाख्यया द्वौ तं मण्डपौ स्तः प्रभासकौ। अभ्यध्वं राजतो यत्र निधीशौ कामदायिनौ।।९२।।
प्रेक्षाशाले विशाले स्तः प्रमदाख्ये ततोऽन्तरे। यत्र कल्पनिवासिन्यो नृत्यन्त्यप्सरसः सदा।।९३।।
विजयाजिरकोणेषु विलसत्केतुमालिनः। चत्वारो योजनोद्विद्धा लोकस्तूपा भवन्त्यमी।।९४।।
अधोवेत्रासनाकारा झल्लरीसममध्यगाः। ऊर्ध्व मृदङ्गसंस्थानाः स्वान्ततालाभनालिकाः।।९५।।
स्वच्छस्फटिकरूपास्ते सुव्यक्तान्तर्निवेशकाः। दृश्यते लोकविन्यांसो यत्रादर्शतले यथा।।९६।।
मध्यलोकस्वरूपान्तर्व्यक्तनिर्माणमूर्त्तयः। मध्यलोका इति ख्याताः सन्ति स्तूपास्ततः परे।।९७।।
मन्दरस्तूपनामानो मन्दराकारभास्वराः। चतुःकाण्डचतुर्दिक्षु चैत्या भान्ति ततोऽपरे।।९८।।
ततोऽन्तःकल्पवासाख्याः कल्पवासिनिवेशिनः। स्तूपास्ते कल्पवासर्द्धि साक्षात्कुर्वन्ति पश्यताम् ।।९९।।
ग्रैवेयकपरास्तेऽन्ये नाम्ना स्तूपास्तथाविधाः। ततो ग्रैवेयकाभिख्यां दर्शयन्तीव मानवान् ।।१००।।
नवानुदिशनामानस्ततः स्तूपा विराजते। नवानुदिशमध्यक्षं पश्यन्ते यत्र प्राणिनः।।१०१।।
विजयादिचतुर्दिक्का विमानोद्भासिनस्ततः। सर्वार्थदायिनः सन्ति स्तूपाः सर्वार्थसिद्धयः।।१०२।।
सिद्धस्तूपाः प्रकाशन्ते ततोऽन्ये स्फटिकामलाः। यत्रैव दर्पणच्छाया दृश्यते सिद्धरूपभाव्â।।१०३।।
भव्यकूटाख्यया स्तूपा भास्वत्कूटास्ततोऽपरे। यानभव्या न पश्यन्ति प्रभावान्धीकृतेक्षणाः।।१०४।।
प्रमोहा नाम सन्त्यन्ये स्तूपा यत्र प्रमोहिताः। विस्मरन्ति यथाग्राहं चिराभ्यस्तं च देहिनः।।१०५।।
प्रबोधाख्या भवन्त्यन्ये स्तूपा यत्र प्रबोधिताः। तत्त्वमासाद्य संसारान्मुच्यन्ते साधवो ध्रुवम् ।।१०६।।
एवमन्योऽन्यसंसक्तवेदिकातोरणोज्ज्वलाः। दश स्तूपाः समुत्तुङ्गाः राजन्त्यापरिधेः क्रमात् ।।१०७।।
ततोऽस्ति क्रोशविस्तारःपरिधिर्धनुरुच्छ्रितिः। यत्र मण्डलभूवार्यं परियन्ति नरामराः।।१०८।।
बाह्याः सप्तदश न्यस्ता गव्यूतैर्वृतमेकतः। कर्णिकाथ तदन्तस्था ज्ञेया सार्धत्रियोजना।।१०९।।
परिवेष इवार्वंâ यः परिधिः परिवेष्टते। चित्ररत्नमयोऽन्तस्थं भासुरं परिमण्डलम्।।११०।।
निर्मित्सानन्तरं भर्तुर्व्रजस्योत्पद्यते पुरम् । दिव्यं तत्र प्रभावो हि मनसा ज्ञायिनां महान्।।१११।।
त्रिलोकसारं श्रीकान्तं श्रीप्रभं शिवमन्दिरम् । त्रिलोकीलोककान्तिश्री श्रीपुरं त्रिदशप्रियम्।।११२।।
लोकालोकप्रकाशा द्यौरुदयोऽभ्युदयावहम् । क्षेमं क्षेमपुरं पुण्यं पुण्याहं पुष्पकास्पदम्।।११३।।
भुवः स्वर्भूस्तपः सत्यं लोकालोकोत्तमं रुचिः। रुचावहमुदारर्धिं दानधर्मपुरं परम्।।११४।।
श्रेयः श्रेयस्करस्तीर्थं तीर्थावहमुदग्रहम् । विशालचित्रकूटं धीश्रीधरं च त्रिविष्टपम्।।११५।।
मङ्गलोत्तमकल्याणशरणादिपुराणि पूः। जयापराजितादित्यजयन्त्यचलसंपुरम्।।११६।।
विजयं तं जसन्ताभं विमलं विमलप्रभम्। कामभूर्गगनाभोगं कल्याणं कलिनाशनम् ।।११७।।
पवित्रं पञ्चकल्याणं पद्मावर्तः प्रभोदयः। परार्घ्यमण्डिता वासौ महेन्द्रं महिमालयम् ।।११८।।
स्वायम्भुवं सुधाधात्री शुद्धावासः सुखावती। विरजा वीतशोकार्थविमला विनयावनिः।।११९।।
भूतधात्री पुराकल्पः पुराणं पुण्यसंचयः। ऋषीवती यमवती रत्नवत्याजरामरा।।१२०।।
प्रतिष्ठा ब्रह्मनिष्ठोर्वी केतुमालिन्यरिन्दमम्। मनोरमं तमःपारमरत्नीरत्नसंचयम् ।।१२१।।
अयोध्यामृतधानीति समं ब्रह्मपुराख्यया। जाताह्वयमुदात्तार्थं तत्कल्पज्ञैरुदीर्यते।।१२२।।
अथ त्रैलोक्यसारैकसंदोहमयमद्भुतम्। भाति भर्तृप्रभावोत्थं तत्पदं बहुविस्मयम् ।।१२३।।
कृतावधानस्तत्सििंद्ध भूयः स्रष्टापि चिन्तयन्। ध्रुवं मोतुह्यतेऽन्यस्य तथा चेत्तत्र का कथा।।१२४।।
दशषोडशभिस्तस्य सुवर्णमणिजातिमिः। यथास्थानं स्वयं चित्रं निर्माणमभिराजते।।१२५।।
तलं तिस्रो जगत्यश्च तत्र क्रोशार्धविस्तृताः। उपर्युपरि तत्र स्यात्परिहाणिश्च तावती।।१२६।।
तासां वङ्कामयी सिद्धिश्चित्ररत्नोज्ज्वला भुवाम् । यत्प्रभा शक्रचापानि तनोति परितः परा।।१२७।।
उरोदघ्ना वरण्डास्ते भूषयन्ति ज्वलत्प्रभाः। जगतीर्यत्र राजन्ते कदल्यो धनुरन्तराः।।१२८।।
त्रिंशदक्षमितै१ः कूटैर्द्विगुणायतकोष्ठवैâः। द्विगुणैर्भूयते तासु दशदण्डान्तरास्थितैः।।१२९।।
द्वौ द्वौ दौवारिकावासावभितः स्तस्तदन्तिके। यत्र वैश्रवणस्यार्थः प्रतिद्वारं प्रकाशते।।१३०।।
कूटानां सप्तशत्यासु द्वासप्तत्यधिका क्रमात् । चत्वारिंशदष्टयुक्ता कोष्ठकानां च सा गणिः।।१३१।।
द्वाविंशतिशतान्याहुर्विंशानि जगतीत्रये। कूटसंख्या समासेन कोष्ठकानां च तावती।।१३२।।
एकाष्टलोकभीभङ्गा२ नवैकद्विचतुर्भियः३। षडस्तिखैकभङ्गाः४ स्युर्जगतीकेतवः क्रमात् ।।१३३।।
वियद्भूयोनिभीभङ्गश्रेणयः१ पूर्वकूटगाः। भूषण्मण्डगलव्योमखोत्क्रमा२ मध्यकूटगाः।।१३४।।
३खाष्टाष्टचतुरस्त्यक्षीण्यन्तकूटगता ध्वजाः। कोष्ठगास्तत्र तत्रामी भाव्यन्ते ते द्विसंगुणाः।।१३५।।
लक्षा षड्शिंतिर्ज्ञेयाः सहस्राणां च विंशतिः। षट्पञ्चाशद्विशत्यामा४ तत्सर्वकदलीगणः।।१३६।।
तत्र ५सस्वेददेशेषु मण्डपा रत्नमण्डिताः। द्वयेकगव्यूतविस्तारसमुत्सेधाश्चकासति।।१३७।।
तदर्धव्यासनिर्माणशिखरान्तरवासिनः। सन्ति सन्मङ्गलोद्भासि मूर्तयोर्चा जिनेश्वराः।।१३८।।
तत्रस्था अपि तद्देशाद्विनिष्क्रम्य नभस्यमी। यथोपदिष्टा दृश्यन्ते संमुखीभूय पश्यताम् ।।१३९।।
पीठानि त्रीणि भास्वन्ति चतुर्दिक्षु भवन्ति तु। चत्वारि च सहस्राणि धर्मचक्राणि पूर्वके।।१४०।।
द्वितीये तु महापीठे शिखिहंसध्वजेतरे। अष्टौ तिष्ठन्ति दिग्भागान्भासयन्तो महाध्वजाः।।१४१।।
अग्रे श्रीमण्डपोद्भासी प्रासादो बहुमङ्गलः। गन्धकुट्यभिधानः स्यात्तत्र िंसहासनं विभोः।।१४२।।
तत्रासीनं जिनाधीशं नृसुरासुरकोटयः। तुष्टुवुस्तुष्टचित्तास्ता मकुटन्यस्तपाणयः।।१४३।।
विजयस्व महादेव! विजयस्व महेश्वर! विजयस्व महाबाहो! विजयस्व महेक्षण।।१४४।।
इत्यादि स्तुतिकोटीनामन्ते प्रव्रज्य तत्क्षणात् । गणिनामग्रणीर्जातो वरदत्तो गणाधिपः।।१४५।।
षट्सहस्रनृपस्रीभिः सह राजीमती तदा। प्रव्रज्याग्रेसरी जाता सार्यिकाणां गणस्य तु।।१४६।।
यतिवर्गादयः सर्वेगणा द्वादश ते ततः। प्रणिपत्य यथास्थानं तं प्रभुं समुपासते।।१४७।।
परिपर्यध्वनस्तस्मिन्पदेषु द्वादशस्वमी। पूर्वदक्षिणभागादिष्वासतेऽग्रप्रदक्षिणम् ।।१४८।।
तत्र प्रत्यक्षधर्माणो धर्मेशांशा इवामलाः। भासन्ते वरदस्याग्रे वरदत्तादियोगिनः।।१४९।।
भर्तुर्या भूतयो बाह्मास्तदन्तर्भूतितः प्रति। राजन्ते कल्पवासिन्यो युक्ता स्तन्मूर्तयो यथा।।१५०।।
हृीदयाक्षान्तिशान्त्यादिगुणालंकृतसंपदः। समेत्योपविशन्त्यार्या सद्धर्मतनया यथा।।१५१।।
द्योतिर्मण्डलवासिन्यो भर्तृज्योतिष्टमप्रभाः। अभिनन्द्यतदुद्भूतविभाभासश्चकासति।।१५२।।
वनश्रियो यथा मूर्ता वानव्यन्तरयोषितः। वन्यपुष्पलतानम्रा नमन्ति वरदक्रमम् ।।१५३।।
भवनालयवासिन्यो भगवत्यतिभक्तयः। स्वर्भूर्भुवो यथा लक्ष्म्यः समया तं समासते।।१५४।।
भावनाः पापबन्धस्य छेत्तारं निकषा सते। बिभ्यतः स्वभवाद्भास्वत्फणारत्नविभारूणाः।।१५५।।
व्यन्तराः सुन्दराकारा मन्दरस्येव कल्पकाः। भवन्ति भर्तुराकल्पाः सुमनोमालभारिणः।।१५६।।
परमेश्वरभामग्नस्वप्रभा भास्करादयः। ज्योतिर्गणाः प्रभावृद्धिं प्रार्थयन्ते तमानताः।।१५७।।
सौन्दर्येशाः सुखात्मानो भागा भर्तुरिवोद्यताः। स्वर्भुवः प्रतिभासन्ते सहस्राक्षपुरस्सराः।।१५८।।
दानपूजादिधर्मांशा देहवन्तो यथामलाः। वरदं वरिवस्यन्ति नृपाश्चक्रधरादयः।।१५९।।
अविद्यावैरमायादिदोषापायाप्ततद्गुणाः। हरीभाद्या विभान्त्यन्ये तिर्यंचस्तादृशो यथा।।१६०।।
एवं द्वादशवर्गीयैर्द्वादशाङ्गगुणोपमैः। परीत्योक्तक्रमादीशो गणैरेभिरुपासितः।।१६१।।
पारमेष्ठ्यमनन्यस्थं ख्यापयन्नासनश्रिया। चामरैरमरोद्भूतैः क्रमस्थैः सुमहेशिताम् ।।१६२।।
त्रिलोकाधीशितां छत्रत्रयेणेन्दुत्रयत्विषा। भामण्डलेन भाधिक्यं भवान्तरतमश्छिदा।।१६३।।
सर्वर्तकुसुमेनान्यसर्वशोकापहारिताम् । अशोकेनाभिपूज्यत्वं सुमनोवृष्टिपूजया।।१६४।।
सार्वत्वमभयाधानघोषणेन जयश्रियाम् । नन्दिमङ्गलघोषेण साधुचित्ताभिनन्दिनम् ।।१६५।।
आत्माधीनाः प्रतीहाराः प्रातिहार्यगुणोद्भवैः। भूषितोऽष्टमहोदग्रप्रातिहार्यैर्महेश्वरः।।१६६।।
लोकानां भूतये भूतिभात्मीयां सकलां दधत् । सर्वलोकातिवर्तिन्या भासास्थामधिष्ठितः।।१६७।।
अयमास्ते समग्रात्मा स्वार्थकामाः ससंभ्रमाः। एतैत नमतैशानमित्याह्वानं सघोषणम् ।।१६८।।
वर्तयन्ति सुरास्तस्मिन्मण्डले तदनु द्रुतम् । समन्तात्तत्समायान्ति भूतिभिर्नृसुरासुराः।।१६९।।
तद्दृष्टिगोचरे मङ्क्षु वाहनेभ्योऽवतीर्यते। मानाङ्गणमथास्थाय पूर्वं साञ्जलिमौलिभिः।।१७०।।
तत्र बाह्ये परित्यज्य वाहनादिपरिच्छदम् । विशिष्टककुदैर्युक्ता मानपीठं परीत्य ते।।१७१।।
प्रादक्षिण्येन वन्दित्वा मानस्तम्भनमादितः। उत्तमाः प्रविशत्यन्तरुत्तमाहितभक्तयः।।१७२।।
पापशीला विकर्माणाः शूद्राः पाखण्डपण्डकाः। विकलाङ्गेन्द्रियोद्भ्रान्ताः परियन्ति बहिस्ततः।।१७३।।
छत्रचामरभृङ्गाराद्यवहाय जयाजिरे। आप्तैरनुगताः कृत्वा विशन्त्यञ्जलिमीश्वराः।।१७४।।
प्रविश्य विधिवद्भक्त्या प्रणम्य मणिभौलयः। चक्रपीठं समारुह्य परियन्ति त्रिरीश्वरम् ।।१७५।।
पूजयन्तो यथाकामं स्वशक्तिविभवार्चनैः। सुरासुरनरेन्द्राद्याः नामादेशं नमन्ति च।।१७६।।
ततोऽवतीर्य सोपानैः स्वैः स्वैः स्वाञ्जलिमौलयः। रोमाञ्चव्यक्तहर्षास्ते यथास्थानं समासते।।१७७।।
अभ्यर्वंâ विकसद्भाति कमलाकरमण्डलम् । यथा तथा जिनाभ्यर्वंâ तद्गणाम्बुजमण्डलम् ।।१७८।।
सा सेना सर्वतः सर्वा प्रविशन्ती तदास्पदम् । नालं पूरयितुं पूर्णा नदीव वरुणास्पदम् ।।१७९।।
निर्यदायद्विशत्पश्यत्परीयत्प्रीणदानमत् । स्तुवदीशं सतां वृन्दं सततं तत्र वर्तते।।१८०।।
न मोहो न भयद्वेषौ नोत्कण्ठारतिमत्सराः। अस्यां भद्रप्रभावेण जम्भाजृम्भा न संसदि।।१८१।।
निद्रातन्द्रापरिक्लेशक्षुत्पिपासासुखानि न। नास्त्यन्यञ्चाशिवं सर्वमहरेव च सर्वदा।।१८२।।
मालिनीच्छन्दः
समवसरणभूमौ बाह्यभूत्येकभूमौ स्थितवति मुनिनाथेऽत्रान्तरङ्गाङ्गिपूतौ।
पिबति तृषितनेत्रैर्द्वादशानां गणानां समितिरमृतरूपं जैनरूपाम्बुराशिम् ।।१८३।।
। समाप्तम्।
तदनन्तर आश्विन शुक्ल प्रतिपदा के दिन प्रातःकाल के समय भगवान् नेमिनाथ ने शुक्लध्यानरूपी अग्नि के द्वारा चार घातियारूपी महावन को जलाकर तीन लोक के इन्द्रों के आसन वँâपा देने वाले एवं अन्य जनदुर्लभ, केवलज्ञान, केवलदर्शन आदि अनन्तचतुष्टय प्राप्त किए।।११२-११३।।
घण्टाओं के शब्द, विशाल िंसहनाद, दुन्दुभियों के स्पष्ट शब्द और शंखों की भारी आवाज से समस्त देवों ने शीघ्र ही निश्चय कर लिया कि जिनेन्द्र भगवान् को केवलज्ञान प्राप्त हो गया है तथा इन्द्रों ने भी िंसहासन और उन्नत मुकुटों के कम्पित होने से अपने-अपने अवधिज्ञान का प्रयोग कर उक्त बात का ज्ञान कर लिया। तदनन्तर तीनों लोकों के इन्द्र, समुद्रों के समूह को क्षुभित करने वाली अपनी-अपनी सेनाओं के साथ गिरनार पर्वत की ओर चल पड़े।।११४।।
उस समय इन्द्रों ने अवार्य वेग से युक्त वाहनों के समूह और सात प्रकार की अनेक सेनाओं से आकाशरूपी समुद्र को व्याप्त कर दिया और आकर गिरनार पर्वत की तीन प्रदक्षिणाएँ दीं। उस समय वह पर्वत, ऊँचे शिखर का अभिमान धारण करने वाले गिरिराज—सुमेरु पर्वत को भी जीत रहा था क्योंकि सुमेरु पर्वत पर तो भगवान् का मात्र जन्मकल्याणक सम्बन्धी अभिषेक हुआ था और गिरनार पर्वत पर दीक्षाकल्याणक के बाद पुनः ज्ञानकल्याणक होने से अनेक गुण प्रकट हुए थे।।११५।।
देवलोग, दिशाओं को सुगन्धित करने वाले मन्दार आदि वृक्षों के फूलों की वर्षा करने लगे। देवांगनाओं के सुन्दर संगीत से मिश्रित दुन्दुभियों के शब्द संसार को मुखरित करने लगे। लोगों के शोक को नष्ट करने वाला फल और फूलों से युक्त अशोक वृक्ष प्रकट हो गया। तीन लोक की विभुता के चिह्नस्वरूप श्वेत छत्रत्रय सिर पर फिरने लगे। हंसावली के पात के समान सुशोभित एवं पर्वत की भूमि को सफेद करने वाले हजारों चमर ढुलने लगे। अपनी कान्ति से देदीप्यमान सूर्य की प्रभा के समूह को पराजित करने वाला भामण्डल प्रकट हो गया। नाना रत्नसमूह की किरणों से इन्द्रधनुष को उत्पन्न करने वाला स्वर्ण-सिंहासन आविर्भूत हो गया और नाना भाषाओं के भेद से युक्त एवं ओंठों के स्फुरण से रहित दिव्यध्वनि खिरने लगी। इस प्रकार पूर्वोक्त आठ प्रातिहार्यों, दूसरों को अत्यन्त शान्त करने वाली अपनी समस्त विशेषताओं और केवलज्ञान-सम्बन्धी, जन्म-सम्बन्धी तथा देवकृत चौंतीस अतिशयों से विभूषित, तीन लोक के उद्धार के लिए स्वाभाविक धैर्य के धारक और अनेक गुणों के समूह को प्रकट करने के लिए सूर्य के समान, हरिवंश के शिरोमणि बाईसवें तीर्थंकर नेमिनाथ भगवान् पृथ्वी पर प्रकट हुए।।११६-११८।।
अथानन्तर देवों ने इन्द्र की आज्ञा से क्षण-भर में तीन जगत् के जीवों के लिए शरणभूत समवसरण की रचना कर दी।।१।।
बलदेव और कृष्ण को आदि ले यादव और भोजवंश के सागर-स्वरूप समस्त द्वारिका निवासी बड़े वैभव के साथ गिरिनार पर्वत पर चढ़े और भीतर-बाहर जिनेन्द्र भगवान् का समवशरण देखकर वह जनता का अपार सागर परम आश्चर्य को प्राप्त हुआ।।२-३।।
तीर्थंकरों की समवसरण भूमि जैसी होती है उसका यहाँ संक्षेप से श्रोताओं के लिए वर्णन किया जाता है।।४।।
समवसरण की दिव्य भूमि स्वाभाविक भूमि से एक हाथ ऊँची रहती है और उससे एक हाथ ऊपर कल्पभूमि होती है।।५।।
यह भूमि अपनी शोभा से स्वर्गलक्ष्मी को जीतने वाली, चौकोर, सुखदायी और देशकाल के अनुसार बारह योजन से लेकर एक योजन तक विस्तार वाली होती है।
भावार्थ—समवसरण भूमिका उत्कृष्ट विस्तार बारह योजन और कम-से-कम विस्तार एक योजन प्रमाण होता है।।६।।
यह भूमि कमल के आकार की होती है इसमें गन्धकुटी तो कर्णिका के समान ऊँची उठी होती है और बाह्य भूमि कमलदल के समान विस्तृत है।।७।।
यह इन्द्रनीलमणि से निर्मित होती है, इसका बाह्य भाग दर्पणतल के समान निर्मल होता है और प्रवेश करने वाले बहुत से जीवों को एक साथ स्थान देने वाली रहती है।।८।।
जिसमें मान के योग्य इन्द्र आदि देव त्रिलोकीनाथ—भगवान् की दूर से ही पूजा करते हैं वह मानांगण नाम की भूमि है।।९।।
इस भूमि की चारों महादिशाओं में दो-दो कोश विस्तृत चार महावीथियाँ हैं। ये वीथियाँ अपने मध्य में स्थित चार मानस्तम्भों के पीठ धारण करती हैं।।१०।।
ये पीठ अपनी ऊँचाई से तिगुने चौड़े एवं सुवर्ण और रत्नमयी मूर्तियों के धारक होते हैं तथा मनुष्य, सुर, असुर सभी आकर इन्हें नमस्कार करते हैं।।११।।
जहाँ स्थित होकर मनुष्य और देव, मानस्तम्भों की पूजा करते हैं वह आस्थानांगणा नाम की भूमि देदीप्यमान लाल मणियों की कान्ति को धारण करती है।१२।।
वीथियों के मध्य में तीन कटनीदार चार सुवर्णमयी पीठिकाएँ हैं जो छाती बराबर ऊँची हैं और आधा कोश चौड़ी हैं।।१३।।
उन पीठिकाओं पर चार मानस्तम्भ सुशोभित हैं जो पीठिकाओं की चौड़ाई से एक धनुष कम चौड़े हैं और एक योजन से कुछ अधिक ऊँचे हैं।।१४।।
वे मानस्तम्भ बारह योजन की दूरी से दिखाई देते हैं। पालिका के अग्रभाग पर जो कमल हैं उन्हीं पर स्थित हैं, उनका मूलभाग हीरा का, मध्य भाग स्फटिक का और अग्रभाग वैडूर्यमणि का बना हुआ है।।१५।।
हर एक मानस्तम्भ दो-दो हजार कोणों से सहित हैं—दो-दो हजार पहल के हैं, नाना रत्नों की किरणों से मिले हुए हैं, उनकी चारों दिशाओं में ऊपर सिद्धोें की प्रतिमाएँ िवराजमान हैं तथा उनकी रत्नमयी बड़ी-बड़ी पालिकाएँ हैं।।१६।।
पालिकाओं के अग्रभाग पर जो कमल हैं उन पर सुवर्ण के देदीप्यमान घट हैं, उन घटों के अग्रभाग से लगी हुई सीढ़ियाँ हैं तथा उन सीढ़ियों पर लक्ष्मीदेवी के अभिषेक की शोभा दिखलायी गयी है।।१७।।
वे मानस्तम्भ लक्ष्मीदेवी के चूड़ारत्न के समान अपनी कान्ति के समूह से बीस योजन तक का क्षेत्र प्रकाशमान करते रहते हैं तथा जिनका मन अहंकार से युक्त है ऐसे देव और मनुष्यों को वहीं रोक देने वाले हैं।।१८।।
उन मानस्तम्भों की चारों दिशाएँ हंस, सारस और चकवों के शब्दों से अत्यन्त सुन्दर हैं तथा उनमें खिले हुए कमलों से युक्त चार सरोवर हैं।।१९।।
सरोवरों के आगे एक वङ्कामय कोट है जो छाती बराबर ऊँचा है, अत्यन्त कान्ति से युक्त है, ऊँचाई से दूना चौड़ा है और चारों ओर से घेरे हुए है।।२०।।
इस कोट को चारोें ओर से घेरकर एक परिखा स्थित है जिसकी भूमि जल के समान कान्ति वाले मणियों से निर्मित है, उसमें घुटनों प्रमाण गहरा पानी भरा है तथा वह पृथ्वी रूपी स्त्री की नीली साड़ी के समान जान पड़ती है।।२१।।
वह परिखा अत्यन्त स्वच्छ है तथा उसका जल स्वर्णमय कमलों की पराग के समूह से पीला-पीला हो रहा है अतएव उसमें प्रतिबिम्बित दिशारूप स्त्रियों के मुख अंगराग से सहित के समान जान पड़ते हैं।।२२।।
उसके आगे चारों ओर से घेरकर स्थित लताओं का वन सुशोभित है जो फूलों के द्वारा दिशाओं के अन्त भाग को सुगन्धित कर रहा है तथा पक्षियों और भ्रमरों के समूह से व्याप्त है।।२३।।
उसके आगे देदीप्यमान सुवर्ण के समान चमकीला एवं विजय आदि चाँदी के बड़े-बड़े चार गोपुरों से सुशोभित कोट, चारों ओर से घेरे हुए हैं।।२४।।
उन गोपुरों पर व्यन्तर जाति के देव द्वारपाल हैं जो कटक आदि आभूषणों से सुशोभित हैं, अपने प्रभाव से अयोग्य व्यक्तियों को दूर हटाते रहते हैं तथा जिनके हाथ मुद्गरों से उद्धत होते हैं।।२५।।
देदीप्यमान कान्ति से युक्त उन गोपुरों के मणिमय तोरणों के दोनों ओर छत्र, चमर तथा भृंगार आदि अष्टमंगल द्रव्य एक सौ आठ, एक सौ आठ संख्या में सदा सुशोभित रहते हैं।।२६।।
उन गोपरों के आगे वीथियों के दोनों ओर तीन-तीन खण्ड की दो-दो नाट्यशालाएँ हैं जिनमें बत्तीस-बत्तीस देव-कन्याएँ नृत्य करती हैं।।२७।।
तदनन्तर पूर्व दिशा में अशोक वन, दक्षिण में सप्तपर्ण वन, पश्चिम में चम्पक वन और उत्तर में आम्रवन सुशोभित है।।२८।।
इन चारों वनों में अशोक वन का अशोक वृक्ष, सप्तपर्ण वन का सप्तपर्ण वृक्ष, चम्पक वन का चम्पक वृक्ष और आम्र वन का आमवृक्ष स्वामी है। ये स्वामी वृक्ष सिद्ध की प्रतिमाओं से सहित हैं अर्थात् इनके नीचे सिद्धों की प्रतिमाएँ विराजमान रहती हैं।।२९।।
उन वनों में तिकोनी, चौकोनी और गोलाकार अनेक वापिकाएँ हैं। उन वापिकाओं के तट रत्ननिर्मित हैं तथा उनकी भूमि शुद्ध स्फटिक से निर्मित है। ये सभी वापिकाएँ तोरणों से युक्त हैं, दर्शनीय हैं, सीढ़ियों से युक्त हैं, ऊँचे-ऊँचे बरण्डों से सुशोभित हैं, प्रवेश करने में गहरी हैं और दो कोश चौड़ी हैं।।३०-३१।।
नन्दा, नन्दोत्तरा, आनन्दा, नन्दवती, अभिनन्दिनी, और नन्दघोषा ये छः वापिकाएँ अशोक वन में स्थित हैं।।३२।।
विजया, अभिजया, जैत्री, वैजयन्ती, अपराजिता और जयोत्तरा ये छः वापिकाएँ सप्तपर्ण वन में स्थित हैं।।३३।।
कुमुदा, नलिनी, पद्मा, पुष्करा, विश्वोत्पला और कमला ये छः वापियाँ चम्पक वन में मानी गयी हैं।।३४।।
और प्रभासा, भास्वती, भासा, सुप्रभा, भानुमालिनी और स्वयंप्रभा ये छः वापियाँ आम्रवन में कही गयी हैं।।३५।।
पूर्व आदि दिशाओं की वापिकाएँ क्रम से उदय, विजय, प्रीति और ख्याति नामक फल देती हैं तथा इन फलों के इच्छुक मनुष्य इन वापिकाओं की पूजा करते हैं।।३६।।
क्रम के जानने वाले भक्तजन उन वापिकाओं से यथोक्त फूलों का समूह प्राप्त कर स्तूपों तक क्रम-क्रम से जिनेन्द्र प्रतिमाओं की पूजा करते हुए आगे प्रवेश करते हैं।।३७।।
उदय और प्रीतिरूप फल को देने वाली वापिकाओं के बीच के मार्ग के दोनों ओर तीन खण्ड की सुवर्णमय देदीप्यमान बत्तीस नाट्यशालाएँ हैं।।३८।।
ये नाट्यशालाएँ डेढ़ कोश चौड़ी हैं, नाना प्रकार के बेलबूटों से सुशोभित हैं और उनकी भूमियाँ रत्नों की बनी हैं तथा उनकी दीवालें स्वच्छ स्फटिक से निर्मित हैं।।३९।।
उनमें ज्योतिषी देवों की बत्तीस-बत्तीस देवांगनाएँ नृत्य करती हैं जो हाव, भाव और विलास से युक्त तथा शृंगार आदि रसों की पुष्टि से सुपुष्ट होती हैं।।४०।।
उसके आगे चार गोपुरों से युक्त अत्यन्त सुन्दर वङ्कामयी वनवेदी है जो पूर्वोक्त वनों को चारों ओर से घेरे हुए है। चार गोपुरों के आगे चार वीथियाँ हैं और उनके दोनों पसवाड़ों में ध्वजाओं की पंक्तियाँ फहराती रहती हैं।।४१।।
प्रत्येक विभाग में उन ध्वजाओं की पृथव्â-पृथव्â पीठिकाएँ हैं जो तीन धनुष चौड़ी हैं, चित्र-विचित्र हैं तथा उन पर आधा योजन ऊँचे रत्नमयी बाँस लगे हुए हैं।।४२।।
उन बाँसों के अग्रभाग पर जो पटिया लगे हैं उनमें दश प्रकार की रंग-बिरंगी, छोटी-छोटी घण्टियों और चित्रपट्टकों से युक्त बड़ी ध्वजाएँ फहराती रहती हैं।।४३।।
वे दस प्रकार की ध्वजाएँ क्रम से मयूर, हंस, गरुड़, माला, सिंह, हाथी, मकर, कमल, बैल और चक्र के चिह्न से चिह्नित होती हैं।।४४।।
एक दिशा में एक जाति की ध्वजाएँ एक सौ आठ होती हैं और चारों दिशाओं की मिलकर एक जाति की चार साै बत्तीस होती हैं। यह इनकी सामान्य रूप से संक्षेप में संख्या बतलायी है।।४५।।
विशेष रीति से एक दिशा में एक करोड़ सोलह लाख चौंसठ हजार हैं और चारों दिशाओं में चार करोड़ अड़सठ लाख छत्तीस हजार कुछ अधिक हैं।।४६-४७।।
प्रीति और कल्याणरूप फल देने वाली वापिकाओं के बीच मार्ग में दोनों ओर पाँच खण्ड की नृत्यशालाएँ हैं जिनमें भवनवासी देवों की देवांगनाएँ नृत्य करती हैं।।४८।।
नृत्यशालाओं के आगे पाँच-पाँच खण्ड के रत्नमयी चार गोपुरों से विभूषित स्वर्णनिर्मित दूसरा कोट है।।४९।।
गोपुरों के दोनों पसवाड़ों में देदीप्यमान सुवर्ण के पीठों पर स्थित, शंख के समान सुन्दर कण्ठों में पड़ी मालाओं से सुशोभित मुखों पर कमल धारण करने वाले एवं जल से भरे स्वर्ण निर्मित मंगलकलश दो-दो की संख्या में सुशोभित हैं। इस दूसरे कोट के द्वारों पर भवनवासी देवों के इन्द्र द्वारपाल हैं जो बेंत की छड़ी धारण किए हुए पहरा देते हैं।।५०-५१।।
गोपुरों के आगे दो-दो नाट्यशालाएँ हैं और उनके आगे स्वर्ण निर्मित दो-दो धूपघट रखे हुए हैं।।५२।।
उससे आगे चारों दिशाओं में सिद्धों की प्रतिमाओं से युक्त, दो-दो सिद्धार्थ वृक्षों से सहित कल्पवृक्षों का वन वीथियों के अन्त में यथारीति स्थित हैं।।५३।।
तदनन्तर चार गोपुरों से सहित, वन की रक्षा करने वाली अन्तर्वेदिका है और मार्गों में तोरणों से युक्त, सबका भला करने वाले नौ-नौ स्तूप हैं।।५४।।
वे स्तूप पद्मराग मणियों से निर्मित होते हैं तथा उनके समीप स्वर्ण और रत्नों के बने, मुनियों और देवों के योग्य नाना प्रकार के सभागृह रहते हैं।।५५।।
सभागृहों के आगे आकाशस्फटिकमणि से बना, नाना प्रकार के महारत्नों से निर्मित सात खण्ड वाले चार गोपुरों से सुशोभित तीसरा कोट है।।५६।।
इस कोट के पूर्व द्वार के विजय, विश्रुत, कीर्ति, विमल, उदय, विश्वधुव्â, वासवीर्य और वर ये आठ नाम प्रसिद्ध हैं।।५७।।
दक्षिण द्वार के वैजयन्त, शिव, ज्येष्ठ, वरिष्ठ, अनघ, धारण, याम्य और अप्रतिघ ये आठ नाम कहे गए हैं।।५८।।
पश्चिम द्वार के जयन्त, अमितसार, सुधाम, अक्षोभ्य, सुप्रभ, वरुण और वरद ये आठ नाम स्मरण किए गए हैं।।५९।।
और उत्तर द्वार के अपराजित, अर्थ, अतुलार्थ, उदक, अमोघक, उदय, अक्षय और पूर्णकामक ये आठ नाम हैं।।६०।।
उन द्वारों के पसवाड़ों में उत्तम रत्नमय आसनों के मध्य में स्थित मंगलरूप दर्पण सुशोभित हैं जो देखने वालों के पूर्व भव दिखलाते हैं।।६१।।
ये दर्पण गाढ़ अन्धकार को नष्ट करने वाले कान्ति के समूह से सदा देदीप्यमान रहते हैं और उनसे गोपुर सूर्य की प्रभा को तिरस्कृत कर अतिशय शोभायमान होते हैं।।६२।।
विजयादिक गोपुरों में यथायोग्य ‘जय हो’ ‘कल्याण हो’ इन शब्दों का उच्चारण करने वाले एवं देदीप्यमान आभूषणों से युक्त कल्पवासी देव द्वारपाल रहते हैं।।६३।।
ये तीनों कोट एक कोश, दो कोश और तीन कोश ऊँचे होते हैं तथा मूल, मध्य और ऊपरी भाग में इनकी चौड़ाई ऊँचाई से आधी होती है।।६४।।
इन कोटों के जगतीतलों का प्रमाण अपनी ऊँचाई से तीन हाथ कम कहा गया है और उनके ऊपर बने हुए बन्दर के शिर के आकार के कंगूरे एक हाथ तथा एक वितस्ति चौड़े और आधा वेमा ऊँचे कहे गए हैं।।६५।।
उसके आगे नाना वृक्षों और लतागृहों से व्याप्त, मंच, प्रेंखागिरि और प्रक्षागृहों से सुशोभित अन्तर्वण है।६६।।
वेदिकाओं से बद्ध वीथियों के बीच में कल्याणजय नाम का आँगन है और उसमें शाल्मली वृक्ष के समान ऊँचे एवं अन्तर से स्थित केला के वृक्ष प्रकाशमान हो रहे हैं।।६७।।
तदनन्तर उन्हीं के भीतर नाटकशाला है जिसमें सुवर्ण के समान कान्ति की धारक लोकपाल देवों की देवांगनाएँ निरन्तर नृत्य करती रहती हैं।।६८।।
उनके मध्य में श्रेष्ठ गुणों का स्थान तथा ऊँची उठने वाली किरणों से सुशोभित रत्नावली से अन्धकार के समूह को नष्ट करने वाला दूसरा पीठ है।।६९।।
उसके आगे सिद्धार्थ वृक्ष हैं जो सिद्धों की प्रतिमाओं से सुशोभित शाखाओं से इच्छापूर्वक ही मानों दिशाओं को व्याप्त कर स्थित हैं।।७०।।
उसके आगे एक मन्दिर है जिसे पृथ्वी के आभरण स्वरूप बारह स्तूप उस तरह सुशोभित करते रहते हैं जिस तरह कि सुवर्णमय चार मेरु पर्वत जम्बूद्वीप के महामेरु को सुशोभित करते रहते हैं।।७१।।
इनके आगे चारों दिशाओं में शुभ वापिकाएँ हैं जो चारों दिशाओं में बने हुए गोपुर-द्वारों और वेदिका से अलंकृत हैं।।७२।।
नन्दा, भद्रा, जया और पूर्णा ये चार उनके नाम हैं। उन वापिकाओं के जल में स्नान करने वाले जीव अपना पूर्व-भव जान जाते हैं।।७३।।
वे वापिकाएँ पवित्र जल से भरी एवं समस्त पापरूपी रोगों को हरने वाली हैं। इनमें देखने वाले जीवों को अपने आगे पीछे के सात भव दिखने लगते हैं।।७४।।
वापिकाओं के आगे एक जयांगण सुशोभित है जो एक कोश ऊँचा है, एक योजन से कुछ अधिक चौड़ा है, कटि बराबर ऊँचे बरण्डों पर स्थित कदली-ध्वजाओं से व्याप्त है, जिनमें मनुष्य निरन्तर प्रवेश करते और निकलते रहते हैं ऐसे द्वारों और उच्च तोरणों से युक्त है, तीन लोक की विजय का आधार है, उसमें बीच-बीच में मूँगाओं की लाल-लाल बालू का अन्तर देकर मोतियों की सफेद बालू बिछी हुई है, उत्तम रत्नमय पुष्पों और रखे हुए सुवर्ण कमलों से चित्र-विचित्र है। उस जयांगण के भूभाग, जहाँ-तहाँ सुवर्ण रस से लिप्त अतएव पृथ्वी पर आए हुए सूर्यों के समान दिखने वाले विशाल वर्तुलाकार मण्डलों से सुशोभित हैं। जहाँ-तहाँ नाना प्रकार के िचत्रों से चित्रित वह जयांगण, देव, असुर और मनुष्यों से परिपूर्ण भवनों, मण्डपों तथा अन्य सुखकर निवास स्थानों से सुशोभित है।।७५७९।।
कहीं चित्रों से सुन्दर और कहीं पुराणों में प्रतिपादित आश्चर्यकारी विभूति से युक्त तथा नाना प्रकार के कथानकों से सहित भवन बने हैं।।८०।।
वे भवन कहीं पुण्य के फल की प्राप्ति से देखने वाले लोगों को धर्म का साक्षात् फल दिखलाते हैं तो कहीं पाप का परिपाक दिखाकर अधर्म का साक्षात् फल दिखलाते हैं।।८१।।
वे भवन, उन दर्शकजनों को दान, शील, तप और पूजा के प्रारम्भ तथा उनके फलों की एवं उनके अभाव में होने वाली विपत्तियों की श्रद्धा कराते हैं।।८२।।
उस जयांगण के मध्य में सुवर्णमय पीठ को अलंकृत करता हुआ इन्द्रध्वज सुशोभित होता है जो ऐसा जान पड़ता है मानों भगवान् की विजयलक्ष्मी का मूर्तिधारी शरीर ही हो। उस इन्द्रध्वज में देदीप्यमान गोले, लटकती हुई मोतियों की माला और जगमगाते हुए मणियों से युक्त एक पताका लगी रहती है। वह पताका वायु से कम्पित होने के कारण घण्टियों के शब्द से अत्यन्त रमणीय जान पड़ती है। ऊपर उठती हुई किरणों से युक्त रत्नों की माला से सुशोभित वह पताका जब आकाश में फहराती है तब ऐसी जान पड़ती है मानो समुद्र से लहर ही उठ रही हो। इन्द्रादिक देव उसे बड़े कौतुक से देखते हैं।।८३-८५।।
उसके आगे एक हजार खम्भों पर खड़ा हुआ महोदय नाम का मण्डप है जिसमें मूर्तिमती श्रुतदेवता विद्यमान रहती है।।८६।।
उस श्रुतदेवता को दाहिने भाग में करके, बहुश्रुत के धारक अनेक धीर-वीर मुनियों से घिरे श्रुतकेवली कल्याणकारी श्रुत का व्याख्यान करते हैं।।८७।।
महोदय मण्डप से आधे विस्तार वाले चार परिवार मण्डप और हैं जिनमें कथा कहने वाले पुरुष आक्षेपिणी आदि कथाएँ कहते रहते हैं।।८८।।
इन मण्डपों के समीप में नाना प्रकार के फुटकर स्थान भी बने रहते हैं जिनमें बैठकर केवलज्ञान आदि महाऋद्धियों के धारक ऋषि इच्छुकजनों के लिए उनकी इष्ट वस्तुओं का निरूपण करते हैं।।८९।।
उसके आगे नाना प्रकार की लताओं से व्याप्त एक सुवर्णमय पीठ रहता है जिसकी भव्यजीव नाना प्रकार से समयानुसार पूजा करते हैं।।९०।।
उस पीठ का श्रीपद नाम का द्वार है जो रत्नों और फूलों के समूह से युक्त है तथा जो मार्ग के बीच में बने हुए सूर्य और चन्द्रमा के समान देदीप्यमान मण्डलों से परिपूर्ण है।।९१।।
उस द्वार के दोनों ओर प्रभासक नाम के दो मण्डप हैं जिनमें मार्ग के सम्मुख, इच्छानुसार फल देने वाले निधियों के स्वामी दो देव सुशोभित रहते हैं।।९२।।
उनके आगे प्रमदा नाम की दो विशाल नाट्यशालाएँ हैं जिनमें कल्पवासिनी अप्सराएँ सदा नृत्य करती रहती हैं।।९३।।
विजयांगण के कोनों में चार लोकस्तूप होते हैं जिनपर पताकाओं की पंक्तियाँ फहराती रहती हैं, तथा जो एक योजन ऊँचे रहते हैं।।९४।।
ये लोकस्तूप, नीचे वेत्रासन के समान, मध्य में झालर के समान,ऊपर मृदंग के समान और अन्त में तालवृक्ष के समान लम्बी नालिका से सहित हैं।।९५।।
इनका स्वच्छ स्फटिक के समान रूप होता है, अतः इनके भीतर की रचना अत्यन्त स्पष्ट रहती है। इन स्तूपों में लोक की रचना दर्पणतल के समान स्पष्ट दिखाई देती है।।९६।।
इन स्तूपों के आगे मध्यलोक नाम से प्रसिद्ध स्तूप हैं जिनके भीतर मध्यलोक की रचना स्पष्ट दिखती है।।९७।।
आगे मन्दराचल के समान देदीप्यमान मन्दर नाम के स्तूप हैं जिनपर चारों दिशाओं में भगवान् की प्रतिमाएँ सुशोभित हैं।।९८।।
उनके आगे कल्पवासियों की रचना से युक्त कल्पवास नामक स्तूप हैं जो देखने वालों को कल्पवासी देवों की विभूति साक्षात् दिखाते हैं।।९९।।
उनके आगे ग्रैवेयकों के समान आकार वाले ग्रैवेयक स्तूप हैं जो मनुष्यों को मानो ग्रैवेयकों की शोभा ही दिखाते रहते हैं।।१००।।
उनके आगे अनुदिश नाम के नौ स्तूप सुशोभित हैं जिनमें प्राणी नौ अनुदिशों को प्रत्यक्ष देखते हैं।।१०१।।
आगे चलकर जो चारों दिशाओं में विजय आदि विमानों से सुशोभित हैं ऐसे समस्त प्रयोजनों को सिद्ध करने वाले सर्वार्थसिद्धि नाम के स्तूप हैं।।१०२।।
वन के आगे स्फटिक के समान निर्मल सिद्ध स्तूप प्रकाशमान हैं जिनमें सिद्धों के स्वरूप को प्रकट करने वाली दर्पणों की छाया दिखाई देती है।।१०३।।
उनके आगे देदीप्यमान शिखरों से युक्त भव्यकूट नाम के स्तूप रहते हैं जिन्हें अभव्य जीव नहीं देख पाते क्योंकि उनके प्रभाव से उनके नेत्र अन्धे हो जाते हैं।।१०४।।
उनके आगे प्रमोह नाम के स्तूप हैं जिन्हें देखकर लोग अत्यधिक विभ्रम में पड़ जाते हैं और चिरकाल से अभ्यस्त गृहीत वस्तु को भी भूल जाते हैं।।१०५।।
आगे चलकर प्रबोध नाम के अन्य स्तूप हैं जिन्हें देखकर लोग प्रबोध को प्राप्त हो जाते हैं और तत्त्व को प्राप्त कर साधु हो निश्चित ही संसार से छूट जाते हैं।।१०६।।
इस प्रकार जिनकी वेदिकाएँ एक दूसरे से सटी हुई हैं तथा जो तोरणों से समुद्भासित हैं ऐसे अत्यन्त ऊँचे दशस्तूप क्रम-क्रम से परिधि तक सुशोभित हैं।।१०७।।
इसके आगे एक कोट रहता है जो एक कोश चौड़ा तथा एक धनुष ऊँचा होता है और उसके मण्डल की भूमि को बचाकर मनुष्य तथा देव प्रदक्षिणा देते रहते हैं।।१०८।।
इस परिधि में बाहर की ओर सत्रह कर्णिकाएँ हैं जो एक-एक कोश विस्तृत हैं और भीतर की ओर एक कर्णिका है जो साढ़े तीन योजन विस्तार वाली है (?) ।।१०९।।
जिस प्रकार परिवेश सूर्य को घेरता है उसी प्रकार चित्र-ाfवचित्र रत्नों से निर्मित यह परिधि भीतर के देदीप्यमान मण्डल को घेरे रहती है।।११०।।
वहाँ गणधर देव की इच्छा करते ही एक दिव्य पुर बन जाता है सो ठीक ही है क्योंकि मनःपर्यय ज्ञान के धारक जीवों का प्रभाव महान् होता है।।१११।।
वह पुर कल्प के ज्ञाता मनुष्य के द्वारा त्रिलोकसार, श्रीकान्त, श्रीप्रभु, शिवमन्दिर, त्रिलोकीश्री, लोक कान्तिश्री, श्रीपुर, त्रिदशप्रिय, लोकालोकप्रकाशाद्यौ, उदय, अभ्युदयावह, क्षेम, क्षेमपुर, पुण्य, पुण्याह, पुष्पकास्पद, भुवःस्वर्भूः, तपःसत्य, लोकालोकोत्तम, रुचि, रुचावह, उदारर्द्धि, दानधर्मपुर, श्रेय, श्रेयस्कर, तीर्थं, तीर्थावह, उदग्रह, विशाल, चित्रकूट, धीश्रीधर, त्रिविष्टप, मंगलपुर, उत्तमपुर, कल्याणपुर, शरणपुर, जयपुरी, अपराजितापुरी, आदित्यपुरी, जयन्तीपुरी, अचलसंपुर, विजयन्त, विमल, विमलप्रभ, कामभू, गगनाभोग, कल्याण, कलिनाशन, पवित्र, पंचकल्याण, पद्मावर्त, प्रभोदय, परार्घ्य, मण्डितावास, महेन्द्र, महिमालय, स्वायम्भुव, सुधाधात्री, शुद्धावास, सुखावती, विरजा, वीतशोका, अर्थविमला, विनयावनि, भूतधात्री, पुराकल्प, पुराण, पुण्यसंचय, ऋषीवती, यमवती, रत्नवती, अजरामरा, प्रतिष्ठा, ब्रह्मनिष्ठोर्वी, केतुमालिनी, अरिन्दम, मनोरम, तमःपार, आरत्नी, रत्नसंचय, अयोध्या, अमृतधानी, ब्रह्मपुर, जाताह्वय और उदात्तार्थ नाम से कहा जाता है।।११२-१२२।।
भगवान् के प्रभाव से उत्पन्न वह नगर, तीन लोक के समस्त श्रेष्ठ पदार्थों के समूह से युक्त, आश्चर्य स्वरूप एवं बहुत भारी आश्चर्य उत्पन्न करता हुआ सुशोभित होता है।।१२३।।
उसका बनाने वाला कुबेर भी एकाग्रचित्त हो उसके बनाने का पुनः विचार करे तो वह भी नियम से भूल कर जाएगा फिर अन्य मनुष्य की बात ही क्या है ? ।।१२४।।
उस नगर का निर्माण यथास्थान छब्बीस प्रकार के सुवर्ण और मणियों से चित्र-विचित्र है अतः अत्यधिक सुशोभित होता है।।१२५।।
उसके तलभाग में तीन जगती रहती हैं जो आधा-आधा कोश चौड़ी होती हैं और ऊपर-ऊपर उन जगतियों में उतनी ही हानि होती जाती है।।१२६।।
उन जगतियों की रचना वङ्कामयी एवं चित्र-विचित्र रत्नों से उज्ज्वल है और उनकी श्रेष्ठ कान्ति चारों ओर इन्द्रधनुषों को विस्तृत करती रहती है।।१२७।।
छाती प्रमाण ऊँचे तथा देदीप्यमान प्रभा के धारक बरण्डे उन जगतियों को सुशोभित करते रहते हैं तथा उन पर एक धनुष के अन्तर से स्थित सुशोभित पताकाएँ हैं।।१२८।।
उन जगतियों में तीस-तीस वितस्तियों के कूट और उनसे द्विगुण आयामवाले दश-दश धनुषों के अन्तर से स्थित कोष्ठक रहते हैं।।१२९।।
उन जगतियों के समीप दोनों ओर द्वारपालों के दो-दो आवास स्थान हैं जिनमें प्रत्येक द्वार पर कुबेर की अपूर्व धनराशि प्रकाशमान है।।१३०।।
प्रत्येक जगती के कूटों की संख्या सात सौ बहत्तर है तथा कोष्ठकों की संख्या अड़तालीस है।।१३१।।
संक्षेप से तीनों जगतियों की कूट संख्या बाईस सौ बीस है और कोष्ठों की संख्या उसी प्रमाण से है।।१३२।।
प्रथम जगती में बत्तीस हजार तीन सौ इक्यासी, दूसरी में चौबीस हजार दो सौ उन्नीस और तीसरी में इकतीस हजार छप्पन ध्वजाएँ रहती हैं।।१३३।।
पूर्व कूटों में दो लाख बत्तीस हजार चार सौ सत्तर, मध्यम कूटों में सात लाख इकसठ हजार एक सौ और अन्तिम कूटों में दो लाख चौवन हजार आठ सौ अस्सी और कोष्ठकों में दूनी-दूनी हैं।।१३४-१३५।।
इस प्रकार समस्त ध्वजाओं की संख्या छब्बीस लाख बीस हजार दो सौ छप्पन है।।१३६।।
वहाँ सस्वेद—जलसिक्त प्रदेशों में रत्नों से मण्डित अनेक मण्डप हैं जो दो कोस चौड़े और एक कोस ऊँचे हैं।।१३७।।
जिनकी रचना मण्डपों से आधी चौड़ी है, ऐसे शिखरों के मध्य भाग में विराजमान जिनेन्द्र भगवान् की प्रतिमाएँ हैं जो उत्तम मंगल द्रव्यों से सुशोभित हैं।।१३८।।
यद्यपि ये प्रतिमाएँ अपने-अपने स्थान पर स्थित हैं तथापि सामने खड़े होकर देखने वालों को ऐसी दिखाई देती हैं मानो उन स्थानों से निकलकर आकाश में ही विद्यमान हों।।१३९।।
वहाँ चारों दिशाओं में देदीप्यमान तीन पीठ होते हैं उनमें पहले पीठ पर चार हजार धर्मचक्र सुशोभित हैं१।।१४०।।
दूसरी पीठ पर मयूर और हंसों की ध्वजाओं से भिन्न आठ प्रकार की महाध्वजाएँ दिशाओं को सुशोभित करती हुई विद्यमान हैं।।१४१।।
तीसरी पीठ पर श्रीमण्डप को सुशोभित करने वाला अनेक मंगलद्रव्यों से सहित गन्धकुटी नाम का प्रासाद है उसमें भगवान् का सिंहासन रहता है।।१४२।।
उस सिंहासन पर विराजमान जिनेन्द्रदेव की सन्तुष्ट चित्त के धारक मनुष्य, सुर और असुरों के झुण्ड के झुण्ड मुकुटों पर हाथ लगाकर स्तुति करते थे।।१४३।।
वे कह रहे थे कि हे महादेव! आपकी जय हो। हे महेश्वर! आप जयवन्त हों, हे महाबाहो! आप विजयी हों, हे विशाल नेत्र! जयवन्त हों।।१४४।।
इत्यादि करोड़ों स्तवनों के बाद वरदत्त ने तत्काल दीक्षा ले ली और गणों के स्वामी प्रथम गणधर हो गए।१४५।।
उसी समय छह हजार रानियों के साथ दीक्षा लेकर राजीमती आर्यिकाओं के समूह की प्रधान बन गयी।।१४६।।
मुनि समूह को आदि लेकर बारह गण भगवान् नेमिनाथ को प्रणाम कर यथास्थान उनकी उपासना करते थे।।१४७।।
मार्ग के चारों ओर घेरकर बारह सभाएँ उनकी पूर्व, दक्षिण आदि दिशाओं में मुनिसमूह को आदि लेकर बारह गण विराजमान थे।।१४८।।
वहाँ उत्कृष्ट वर को प्रदान करने वाले भगवान् नेमिनाथ के आगे वरदत्त को आदि लेकर अनेक मुनि सुशोभित थे जो धर्म के स्वरूप को प्रत्यक्ष करने वाले एवं अत्यन्त निर्मल धर्मेश्वर के अंश के समान जान पड़ते थे।।१४९।।
उनके आगे कल्पवासिनी देवियाँ सुशोभित थीं जो ऐसी जान पड़ती थीं मानो भगवान् की बाह्याभ्यन्तर विभूतियाँ ही उनका रूप रखकर स्थित हों।।१५०।।
उनके बाद तीसरी सभा में लज्जा, दया, क्षमा, शान्ति आदि गुणरूपी सम्पत्ति से सुशोभित आर्यिकाएँ विराजमान थीं जो समीचीन धर्म की पुत्रियों के समान जान पड़ती थीं।।१५१।।
चौथी सभा में प्रशंसनीय एवं अपने आप से निकलने वाली प्रभा से सुशोभित ज्योतिषी देवों की स्त्रियाँ बैठी थीं जो भगवान् की कान्ति के समान जान पड़ती थीं।।१५२।।
पाँचवीं सभा में मूर्तिधारिणी वन की लक्ष्मी के समान सुन्दर वनवासी व्यन्तर देवों की स्त्रियाँ स्थित थीं तथा वे वन की पुष्पलताओं के समान नम्रीभूत हो भगवान् के चरणों को नमस्कार कर रही थीं।।१५३।।
छठी सभा में भगवान् की अत्यधिक भक्ति से युक्त भवनवासी देवों की अंगनाएँ स्थित थीं जो ऐसी जान पड़ती थीं मानो स्वर्ग, भूमि और अधोलोक की लक्ष्मियाँ ही भगवान् के समीप आकर बैठी हैं।।१५४।।
सातवीं सभा में फणा के समान देदीप्यमान रत्नों की कान्ति से लाल-लाल दिखने वाले भवनवासी देव, अपने संसार से भयभीत होते हुए, पापबन्ध का छेदन करने वाले भगवान् के समीप विद्यमान थे।।१५५।।
आठवीं सभा में सुंदर आकार के धारक व्यंतर देव बैठे थे। वे भगवान के आभूषण स्वरूप थे तथा फूलों की मालाओं को धारण करने वाले मन्दरगिरि के समान जान पड़ते थे।।१५६।।
नवमी सभा में, जिनकी अपनी प्रभा भगवान् की प्रभा में निमग्न हो गयी थी ऐसे सूर्य आदि ज्योतिषी देवों के समूह नम्रीभूत हो भगवान् से अपनी प्रभावृद्धि की प्रार्थना कर रहे थे।।१५७।।
दसवीं सभा में सौन्दर्य के स्वामी, सुखी एवं ऊपर उठे हुए भगवान् के अंशों के समान इन्द्र आदि कल्पवासी देव सुशोभित हो रहे थे।।१५८।।
ग्यारहवीं सभा में चक्रवर्ती आदि राजा भगवान् की उपासना करते थे और वे ऐसे जान पड़ते थे मानो शरीरधारी दान-पूजा आदि धर्मों के निर्मल अंश ही हों।।१५९।।
तथा बारहवीं सभा में, जिन्हें अविद्या, वैर, माया आदि दोषों के नष्ट हो जाने से विद्या, क्षमा आदि तत्तद्गुण प्राप्त हुए थे ऐसे सिंह, हाथी आदि तिर्यंच विद्यमान थे और वे ऐसे जान पड़ते थे मानो उन्हीं के समान दूसरे तिर्यंच हों।।
भावार्थ—तिर्यंच अपनी स्वाभाविक कुटिलता को छोड़कर तदाकार होने पर भी ऐसे लगते थे जैसे ये वे न हों दूसरे ही हों।।१६०।।
इस प्रकार द्वादशांग के गुणों के समान बारह सभाओं-सम्बन्धी बारह गण, प्रदक्षिणा रूप से भगवान् की उपासना करते थे।।१६१।।
भगवान् नेमिनाथ, अपने सिंहासन की शोभा से दूसरों में न पाए जाने वाले परमेष्ठीपना को ख्यापित कर रहे थे। क्रम पूर्वक ढोरे जाने पर देवोपनीत चमरों से महेशिता को, तीन चन्द्रमा के समान कान्ति को धारण करने वाले छत्रत्रय से तीन लोक के स्वामित्व को, संसार के आन्तरिक अन्धकार को नष्ट करने वाले भामण्डल से कान्ति की अधिकता को, सब ऋतुओं के फूलों से युक्त अशोक वृक्ष के द्वारा अन्य समस्त जीवों के शोक दूर करने की सामर्थ्य को, पुष्पवृष्टि रूप पूजा के द्वारा पूज्यता को, अभयोत्पत्तिकी घोषणा करने वाली दिव्यध्वनि से जयलक्ष्मी की सर्वहितकारिता को और आनन्ददायी मंगलमय वादित्रों के नाद से साधुजनों के चित्त को आनन्दित करने की सामर्थ्य को प्रकट कर रहे थे।।१६२-१६५।।
जो आत्मा के आधीन हो उन्हें प्रतीहार कहते हैं। इस प्रकार आत्माधीन गुणों से उत्पन्न अष्ट महाप्रातिहार्यों से भगवान् नेमिनाथ सुशोभित हो रहे थे।।१६६।।
आत्मोत्थ समस्त विभूति को धारण करने वाले भगवान् सर्वलोकातिवर्ती दीप्ति से लोगों का कल्याण करने के लिए समवसरण में विराजमान हुए।।१६७।।
उस समय देव लोग घोषणा के साथ यह कहकर जीवों का आह्वान कर रहे थे कि हे आत्महित के इच्छुक भव्यजनों! सम्पूर्ण विकसित आत्मा को धारण करने वाले केवली भगवान् यहाँ विराजमान हैं, शीघ्रता से यहाँ आओ-आओ और इन्हें नमस्कार करो।।१६८।।
इस प्रकार जब देवों ने आह्वान किया तब शीघ्र ही मनुष्य, देव और असुर वैभव के साथ सब ओर से समवसरण में आने लगे।।१६९।।
समवसरण दृष्टिगोचर होते ही वे मानांगण में खड़े हो सबसे पहले हाथ जोड़ मस्तक से लगाकर वाहनों से नीचे उतरते हैं।।१७०।।
तदनन्तर वाहन आदि परिग्रह को बाहर छोड़कर विशिष्ट राज्य चिह्नों से युक्त हो मानपीठ की प्रदक्षिणा देते हैं।।१७१।।
प्रदक्षिणा के बाद सबसे पहले मानस्तम्भ को नमस्कार करते हैं तदनन्तर हृदय में उत्तम भक्ति को धारण करते हुए उत्तम पुरुष भीतर प्रवेश करते हैं।।१७२।।
और पापी, विरुद्ध कार्य करने वाले, शूद्र, पाखण्डी, नपुंसक, विकलांग, विकलेन्द्रिय तथा भ्रान्त चित्त के धारक मनुष्य बाहर ही प्रदक्षिणा देते रहते हैं।।१७३।।
सुरेन्द्र, असुरेन्द्र तथा नरेन्द्र आदि उत्तम पुरुष छत्र, चमर और भृंगार आदि को जयांगण में छोड़ आप्तजनों के साथ हाथ जोड़कर भीतर प्रवेश करते हैं।।१७४।।
मणिमय मुकुटों को धारण करने वाले वे सब, भीतर प्रवेश कर विधिपूर्वक प्रणाम करते हैं और चक्रपीठ पर आरूढ़ होकर भगवान् जिनेन्द्र की तीन बार प्रदक्षिणा देते हैं।।१७५।।
इच्छानुसार अपनी शक्ति और विभव के अनुकूल सामग्री से पूजा करते हुए अपने नाम का उल्लेख कर नमस्कार करते हैं।।१७६।।
तदनन्तर जिन्होंने अपनी अंजलियाँ मस्तक से लगा रखी हैं और रोमांचों से जिनवâा हर्ष प्रकट हो रहा है ऐसे वे सब अपनी-अपनी सीढ़ियों से नीचे उतरकर सभाओं में यथास्थान बैठते हैं।।१७७।।
जिस प्रकार सूर्य के सम्मुख खिला हुआ कमलों का समूह सुशोभित होता है उसी प्रकार जिनेन्द्र भगवानरूपी सूर्य के सम्मुख वह गणरूपी—द्बादश सभारूपी कमलों का समूह सुशोभित हो रहा था।।१७८।।
जिस प्रकार नदी समुद्र को भरने में समर्थ नहीं है उसी प्रकार सब ओर से समवसरण में प्रवेश करती हुई वह सेना उसे भरने में समर्थ नहीं थी।।१७९।।
वहाँ बाहर निकलता, आता, प्रवेश करता, दर्शन करता, प्रदक्षिणा देता, सन्तुष्ट होता, भगवान् को प्रणाम करता और उनकी स्तुति करता हुआ सज्जनों का समूह सदा विद्यमान रहता है।।१८०।।
समवसरण के भीतर भगवान् के प्रभाव से न मोह रहता है, न राग-द्वेष उत्पन्न होते हैं, न उत्कण्ठा, रति एवं मात्सर्यभाव रहते हैं, न अँगड़ाई और जमुहाई आती है, न नींद आती है, न तन्द्रा सताती है, न क्लेश होता है, न भूख लगती है, न प्यास का दुःख होता है और न सदा समस्त दिन कभी अन्य समस्त प्रकार का अमंगल ही होता है।।१८१-१८२।।
बाह्य विभूति के अद्वितीय स्थान समवसरण भूमि में जब अन्तरंग आत्मा की पवित्रता से युक्त भगवान् विराजमान होते हैं तब बारह सभाओं का समूह अपने तृषित नेत्रों से उनके अमृतरूप सौन्दर्य सागर का पान करता है।।१८३।।
। समाप्त।