तीर्थंकर-स्नपननीर-पवित्रजातः
तुङ्गोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि।
देवेन्द्र-दानव-नरेन्द्र-खगेन्द्रवंद्यः,
तं श्रीसुदर्शनगििंर सततं नमामि।।१।।
यो भद्रसालवन-नंदन-सौमनस्यैः,
भातीह पांडुकवनेन च शाश्वतोऽपि।
चैत्यालयान् प्रतिवनं चतुरो विधत्ते,
तं श्रीसुदर्शनगििंर सततं नमामि।।२।।
जन्माभिषेकविधये जिनबालकानाम्,
वंद्याः सदा यतिवरैरपि पांडुकाद्याः।
धत्ते विदिक्षु महनीयशिलाश्-चतसृः,
तं श्रीसुदर्शनगििंर सततं नमामि।।३।।
योगीश्वराः प्रतिदिनं विहरन्ति यत्र,
शान्त्यैषिणः समरसैक-पिपासवश्च।
ते चारणर्द्धि-सफलं खलु कुर्वतेऽत्र,
तं श्रीसुदर्शनगििंर सततं नमामि।।४।।
ये प्रीतितो गिरिवरं सततं नमन्ति,
वंदन्त एव च परोक्षमपीह भक्त्या।
ते प्राप्नुवंति किल ‘ज्ञानमतिं’ श्रियं हि,
तं श्रीसुदर्शनगिरि सततं नमामि।।५।।