-बसंततिलका छंद-
तीर्थंकर – स्नपननीर – पवित्रजात:,
तुङ्गोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि।
देवेन्द्र – दानव – नरेन्द्र – खगेन्द्रवंद्य:,
तं श्रीसुदर्शनगिरिं सततं नमामि।।१।।
यो भद्रसालवन – नंदन – सौमनस्यै:,
भातीह पांडुकवनेन च शाश्वतोऽपि।
चैत्यालयान् प्रतिवनं चतुरो विधत्ते,
तं श्रीसुदर्शनगिरिं सततं नमामि।।२।।
जन्माभिषेकविधये जिनबालकानाम्,
वंद्या: सदा यतिवरैरपि पांडुकाद्या:।
धत्ते विदिक्षु महनीयशिलाश्-चतसृ:,
तं श्रीसुदर्शनगिरिं सततं नमामि।।३।।
योगीश्वरा: प्रतिदिनं विहरन्ति यत्र,
शान्त्यैषिण: समरसैक-पिपासवश्च।
ते चारणर्द्धि-सफलं खलु कुर्वतेऽत्र,
तं श्रीसुदर्शनगिरिं सततं नमामि।।४।।
ये प्रीतितो गिरिवरं सततं नमन्ति,
वंदन्त एव च परोक्षमपीह भक्त्या।
ते प्राप्नुवंति किल ‘ज्ञानमिंत’ श्रियं हि,
तं श्रीसुदर्शनगिरिं सततं नमामि।।५।।