श्री हस्तिनापुरं रम्यमयोध्या नगरी शुभा। श्रावस्ती च विनीता च पुरं विजयपूर्वकम्।।२३९।।
पुरं मङ्गलकं नाम्ना पाटलीखण्डसंज्ञकम्। पद्मखण्डपुरं कान्तं तथा श्वेतपुरं परम्।।२४०।। अरिष्टपुरमिष्टं तु सिद्धार्थपुरमप्यतः। महापुरमतो नाम्ना स्पुटं धान्यवटं पुरम्।।२४१।। वर्धमानपुरं ख्यातं पुरं सौमनसाह्वयम्। मन्दरं हास्तिनपुरं तथा चक्रपुरं मतम् ।।२४२।।
मिथिला राजगृहकं पुरं वीरपुरं तथा। पुरी द्वारवती काम्यकृतं कुण्डपुरं पुरम्।।२४३।।
चतुर्विंशतिसंख्यानां संख्यातानि यथाक्रमम्। जिनानां वृषभादीनां पारणानगराणि तु।।२४४।।
१. श्रीसुन्दर हस्तिनापुर, २.शुभअयोध्या, ३.श्रावस्ती, ४.विनीता, ५. विजयपुर, ६. मंगलपुर, ७.पाटलीखण्ड, ८.पद्मखण्डपुर, ९. श्वेतपुर, १०. अरिष्टपुर, ११.सिद्धार्थपुर १२.महापुर, १३.धान्यवटपुर, १४. वर्धमानपुर, १५.सोमनसपुर १६. मन्दरपुर, १७.हस्तिनापुर, १८. चक्रपुर, १९ मिथिला, २०.राजगृह, २१. वीरपुर, २२.द्वारवती २३.काम्यकृति और २४. कुण्डपुर ये यथाक्रम से वृषभ आदि चौबीस तीर्थंकरोें के प्रथम पारणा के नगर प्रसिद्ध हैं ।।२३९-२४४।।
( हरिवंशपुराण , षष्ठीतमः सर्गः,पृ॰ ७२४)