अविद्यासंस्कारनाशकः-अविद्या अज्ञानं तस्याः संस्कार असंसारमभ्यासोऽनुभवनं तस्य नाशकः मूलादुन्मूलकः निर्मूलकाष्ांकशकः। अथवा अविद्यां अज्ञानं संस्कारैरष्टचत्वारिंशता नाशयतीति अविद्यासंस्कारनाशकः। अथ के ते अष्टाचत्त्वारिंशत् संस्कारा इति चेदुच्यते–१ सद्दर्शनसंस्कारः, २ सम्यग्ज्ञानसंस्कारः, ३ सच्चारित्रसंस्कार, ४ सत्तपःसंस्कारः, ५ वीर्यचतुष्कसंस्कारः ६ अष्टमातृप्रवेशसंस्कारः, ७ अष्टशुद्धि—संस्कारः, ८ परीषहजयसंस्कारः, ९ त्रियोगासंयमच्युतिशीलनसंस्कारः, १० त्रिकरणा—संयमारतिसंस्कारः ११ दशसंयमोपरमसंस्कारः, १२ अक्षनिर्जयसंस्कारः, १३ संज्ञानिग्रहसंस्कारः, १४ दशधर्मधृतिसंस्कारः, १५ अष्टादशशीलसहस्रसंस्कारः, १६ चतुरशीतिलक्षगुण— संस्कारः, १७ विशिष्टर्माध्यानसंस्कारः, १८ अतिशयसंस्कारः, १९ अप्रमत्तसंयमसंस्कारः, २० दृढश्रुततजोऽवंâप्रकरणश्रेण्यारोहणसंस्कारः, २१ अनन्तगुणशुद्धिसंस्कारः, २२ अप्रवृत्ति—कृतिसंस्कारः, २३ पृथक्त्ववितर्वâवीचारध्यान—संस्कारः, २४ अपूर्वकरणसंस्कारः, २५ अनिवृत्ति संस्कार २६ बादरकषायकिट्टिकरणसंस्कारः,२७ सूक्ष्मकषायकिट्टिकरणसंस्कारः २८ बादर—कषायकिट्टिनिर्लेपनसंस्कारः, २९ सूक्ष्मकषाय—किट्टिनिर्लेपनसंस्कारः, ३० सूक्ष्म—कषायचरणसंस्कारः, ३१ प्रक्षीणमोहत्वसंस्कारः, ३२ यथाख्यात-चारित्रसंस्कारः, ३३ एकत्ववितर्कविचारध्यानसंस्कारः, ३४ घातिघातनसंस्कारः, ३५ केवलज्ञान—दर्शनोद्रमसंस्कारः, ३६ तीर्थप्रवर्तनसंस्कारः, ३७ सूक्ष्म—क्रियाध्यान-संस्कारः, ३८ शैलेशीकरणसंस्कारः, ३९ परससंवरर्वितसंस्कारः, ४० योगकिट्टिकरण—संस्कारः, ४१ योगकिट्टिनिर्लेपनसंस्कारः, ४२ समुच्छिन्नक्रियासंस्कारः, ४३ परम—निर्जराश्रयणसंस्कारः, ४४ सर्वकर्मक्षयसंस्कारः, ४५ अनादिभवपर्यय-विनाश—संस्कारः, ४६ अनन्तसिद्धत्वादिगतिसंस्कारः, ४७ अदेहसहजज्ञानोपयो-गैश्वर्य—संस्कारः,४८ अदेहसहोत्थक्षयोपयोगैश्वर्यसंस्कारः।
(जिनसहस्रनाम संस्कृत टीका, ज्ञानपीठ से प्रकाशित पृ. २४८)