-अनुष्टुप् छंद-
मंगलमादिनाथोऽर्हन् प्रथमस्तीर्थकृज्जिन:।
वृषभ: पुरुदेवाख्यो मंगलं ऋषभेश्वर:।।१।।
-शार्दूलविक्रीडित छंद-
या वैवल्यविभा निहंति भविनां ध्वांतं मन:स्थं महत्।
सा ज्योति: प्रकटीक्रियान्मम मनो-मोहान्धकारं हरेत्।।
या आश्रित्य वसंति द्वादशगणा वाणीसुधापायिन:।
तास्तीर्थेशसभा अनंतसुखदा: कुर्वन्तु नो मंगलम्।।२।।
ये त्रिंशत् चतुरुत्तरा अतिशया ये प्रातिहार्या वसु:।
येऽप्यानन्त्यचतुष्टया गुणमया दोषा: किलाष्टादश।।
ये दोषै: रहिता गुणैश्च सहिता देवाश्चतुर्विंशति:।
ते सर्वस्वगुणा अनंतगुणिता: कुर्वन्तु नो मंगलम्।।३।।
ये तीर्थंकरशिष्यतामुपगता: सर्वर्द्धिसिद्धीश्वरा:।
ये ग्रथ्नंति किलांगपूर्वमयसच्छास्त्रं ध्वनेराश्रयात्।।
ये ते विघ्नविनाशका गणधरास्तेषां समस्तर्द्धय:।
ते शांतिं परमां च सर्वसिद्धिं कुर्वन्तु नो मंगलम्।।४।।
अष्टाविंशतिमूलवृत्तसहिता उत्तरगुणैर्मंडिता:।
पंचाचारपरायणा: प्रतिक्षणं स्वाध्यायमातन्वते।।
आचार्यादिमुनीश्वरा: बहुविधा ध्यानैकलीना मुदा।
ते सर्वेऽपि दिगंबरा मुनिगणा: कुर्वन्तु नो मंगलम्।।५।।
लेश्याशुक्लमिव प्रशस्तमनस: शुक्लैकवस्त्रावृता:।
लल्जाशीलविशुद्धसर्वचरणा: स्वाध्यायशीला: सदा।।
या: साध्व्यश्च महाव्रतांगशुचयो वंद्या: सुरेन्द्रैरपि।
ता: सर्वा: अमलार्यिका: प्रतिदिनं कुर्वन्तु नो मंगलम्।।६।।
इन्द्रा: अष्टसहस्रनामकथनैश्चक्रु: स्तुतिं भक्तित:।
तैरन्वर्थकनामभिर्भविजना निघ्नंति पापं महत्।।
तेऽप्यष्टोर्ध्वसहस्रलक्षणधरं देहं लभेरन् जना:।
नामान्यष्टसहस्रकाणि सततं कुर्वन्तु नो (वो) मंगलम्।।७।।
यद् द्रव्यार्थिकतोऽप्यनादिनिधनं पर्यायत: साद्यपि।
जैनेद्रं वरशासनं शिवकरं तीर्थेश्वरै: वर्तितम्।।
कुर्यात् ज्ञानमतिं श्रियं वितनु मे नंद्याच्च जीयाच्चिरम्।
श्रीतीर्थंकरशासनानि सततं कुर्वन्तु नो (वो) मंगलम्।।८।।
-अनुष्टुप् छंद-
अर्हंतो मंगलं कुर्यु:, सिद्धा: कुर्युश्च मंगलम्।
आचार्या: पाठकाश्चापि, साधवो मम मंगलम्।।९।।
इति जिनयज्ञप्रतिज्ञापनाय पुष्पांजलिं क्षिपेत्।