-हरिणीछंद-
जयति भगवान् हेमाम्भोजप्रचारविजृंभिता-
वमरमुकुटच्छायोद्गीर्णप्रभापरिचुम्बितौ ।
कलुषहृदया मानोद्भ्रान्ता: परस्परवैरिणो।
विगतकलुषा: पादौ यस्य प्रपद्य विशश्वसु:।।१।।
अर्हत्सिद्धाचार्यो-पाध्यायेभ्यस्तथा च साधुभ्य:।
सर्वजगद्वंद्येभ्यो, नमोऽस्तु सर्वत्र सर्वेभ्य:।।२।।
इति पंचमहापुरुषा:, प्रणुता जिनधर्म-वचन-चैत्यानि।
चैत्यालयाश्च विमलां, दिशन्तु बोधिं बुधजनेष्टां।।३।।
यावन्ति सन्ति लोकेऽस्मिन्नकृतानि कृतानि च।
तानि सर्वाणि चैत्यानि, वन्दे भूयांसि भूतये।।४।।
इति स्तुतिपथातीत – श्रीभृतामर्हतां मम।
चैत्यानामस्तु संकीर्ति:, सर्वास्रवनिरोधिनी।।५।।
-अंचलिका-
इच्छामि भन्ते! चेइयभत्तिकाउस्सग्गो कओ तस्सालोचेउं, अहलोयतिरिय-
लोयउड्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचेइयाणि ताणि सव्वाणि तिसु
वि लोएसु भवणवासिय-वाणविंतर-जोइसियकप्पवासियत्ति चउविहा देवा
सपरिवारा दिव्वेण गन्धेण, दिव्वेण पुप्फेण, दिव्वेण धूवेण, दिव्वेण चुण्णेण,
दिव्वेण वासेण, दिव्वेण ण्हाणेण, णिच्चकालं अंचंति, पुज्जंति, वंदंति,
णमंसंति, चेदियमहाकल्लाण करंति, अहमवि इह संतो तत्थ, संताइं णिच्चकालं
अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो,
सुगइगमणं, समाहिमरणं, जिणगुणसम्पत्ति होउ मज्झं।
अथ मण्डलस्योपरि रजतपुष्पमिश्रित पुष्पांजलिं क्षिपेत्।