श्री गौतम: पिता लोके, इंद्रभूतिश्च नामभाक्।
श्रीगौतमं नुता: सर्वे, इन्द्राद्या भक्तिभावत:।।१।।
श्रीगौतमेन सज्ज्ञानं, प्राप्तं वीरस्य दर्शनात्।
श्रीगौतमाय मे नित्यं, नमो जन्मप्रहाणये।।२।।
श्रीगौतमात् प्रभोर्दिव्य-ध्वनिसार: सुलभ्यते।
श्रीगौतमस्य सद्भक्त्या, तरिष्यामि भवांबुधिं।।३।।
श्रीगौतमे द्विदशांगी, वाणी प्रस्फुरिता त्वरं।
श्रीगौतमगुरो! स्वामिन्!, मां त्राहि भवक्लेशत:।।४।।