ऊँ नम: सिद्धेभ्य:
श्रीमन्तं वर्धमानेशं भारतीं गौतमं गुरुम्।
नत्वा वक्ष्ये तिथीनां वै निर्णयं व्रतनिर्णयम्।।१।।
श्रीपद्मनन्दिमुनिना पद्मदेवेन वाऽपरा।
हरिषेणेन देवादिसेनेन प्रोक्तमुत्तमम्।।२।।
ग्राह्यं तच्चेदिवान्यद्वा चतुर्गुणप्रकल्पितम्।
विधानं च व्रतानां वै ग्राह्यं प्रोत्तं समुत्तमम्।।३।।
श्रुतसागरसूरीशभावशर्माभ्रदेवक: ।
छत्रसेनादित्यर्कीित्तसकलादिसुकीर्तिभि:।।४।।
क्रमतोऽहं प्रवक्ष्ये वै तिथिव्रतसुनिर्णयौ।
मतं ग्राह्यं साम्प्रतं कुलाद्रिघटिकाप्रभम्।।५।।
विवाहव्रतयज्ञेषु सौरं मानं प्रशस्यते ।
पार्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टं तथाद्विके ।।
आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा ।
सावनेनैव कत्र्तव्या शत्रूणां चाप्युपासना ।।