त्रिमुहूत्र्तेषु यत्रार्व उदेत्यस्तं समेति च। सा तिथि: सकला ज्ञेया उपवासादिकर्मणि।।११।।
संस्कृत व्याख्या—यस्यां तिथौ त्रिमुहूत्र्तेष्वग्रे वर्तमानेषु षट्स्वर्व: उदेति सा तिथि: दैवसिकव्रतेषु
रत्नत्रयाष्टाह्निकदशलाक्षणिकरत्नावलीकनकावलीद्विकावल्येकावलीमुक्तावलीषोडशकारणादिषु सकला ज्ञेया।
चकारात् या तिथि: उदयकाले त्रिमुहूत्र्ताद्दिनागतदिवसेऽपि वर्तमाना तिथ्युदयकाले
त्रिमुहत्र्तादिना गतदिवसेऽपिवर्तमाना तिथि: त्रिमुहूत्र्तादिना सा अस्तंगता तिथिज्र्ञेया।
तद्व्रतं गतिदिवसे एव स्यात् अर्वस्तमनकाले त्रिमुहत्र्ताधिकत्वादिति हेतो:।
चशब्दात् द्वितीयोऽर्थोऽपि ग्राह्य: त्रिमुहूत्र्तेषु सत्सु यस्यामर्व:
अस्तमेति सा तिथिर्जिनरात्रिर्गगनपञ्चमीचन्दनषष्ट्यादिषु नैशिकव्रतेषु सकला ग्राह्या;
इति तात्पर्यार्थ:।