भवनविमानज्योति—र्व्यन्तरलोकविश्वचैत्यानि।
त्रिजगदभिवन्दितानां, वन्दे त्रेधा जिनेंद्राणाम्।।१।।
ज्योतिषामथ लोकस्य, भूतयेऽद्भुतसंपद:।
गृहा: स्वयंभुव:सन्ति, विमानेषु नमामि तान्।।२।।
इति स्तुतिपथातीत—श्रीभृतामर्हतां मम।
चैत्यानामस्तु संकीर्ति:, सर्वास्रवनिरोधिनी।।३।।
ज्योतिर्व्यंतर भावनामरगृहे, मेरौ कुलाद्रौ तथा।
जंबूशाल्मलि चैत्यशाखिषु तथा वक्षाररूप्याद्रिषु।।
इष्वाकारगिरौ च कुण्डलनगे, द्वीपे च नंदीश्वरे।
शैले ये मनुजोत्तरे जिनगृहा:, कुर्वन्तु मे (न:) मंगलम्।।४।।
—आर्यास्कंध छंद—
ज्योतिर्लोकेऽगणिता भासन्ते भासमानसुरनुत निलया:।
तेषु जिनसूर्यबिम्बान् , रविशशिशोभातिशायिन: स्तौमि।।५।।
—अनुष्टुप् छंद—
ज्योतिर्वासिविमानेषु, संख्यातीता जिनालया:।
असंख्या मूर्तयस्तत्र, ते ता: कुर्वन्तु मंगलम्।।६।।
जिनेन्द्रा जिनबिम्बानि, जिनालया निषीधिका:।
ते तानि ते च ता नित्यं, कुर्वन्तु मम मंगलम्।।७।।
त्रैलोक्यं मंगलं कुर्यात् , मंगलं नवदेवता:।
मंगलं शांतिनाथोऽर्हन्, जैनधर्मोऽस्तु मंगलम्।।८।।
परं ज्योति: प्रयच्छन्तु, ज्योतिर्लोकजिनालया:।
सर्वे ग्रहा: प्रसीदन्तु, सदा कुर्वन्तु मंगलम्।।९।।
अथ जिनयज्ञप्रतिज्ञापनाय मंडलस्योपरि पुष्पांजिंल क्षिपेत्।