सर्वप्रथम 9 बार णमोकार मंत्र पढ़ें, पुनः मंगलाष्टक पढ़कर पंचकुमार की
पूजापूर्वक भूमिशोधान विधि सम्पन्न करें।
श्रीमन्नम्र-सुरासुरेन्द्र-मुकुट-प्रद्योत-रत्नप्रभा-
भास्वत्पाद-नखेन्दवः प्रवचनाऽम्भोधीन्दवः स्थायिनः।
ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठकाः साधवः
स्तुत्या योगिजनैश्च पंचगुरवः कुर्वन्तु ते (मे) मंगलम् ।।1।।
सम्यग्दर्शन-बोध-वृत्तममलं रत्नत्रयं पावनं
मुक्ति-श्री-नगराऽधिनाथ-जिनपत्युक्तोऽपवर्गप्रदः।
धर्मः सूक्तिसुधाा च चैत्यमखिलं चैत्यालयं श्र्यालयं
प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते (मे) मंगलम्।।2।।
नाभेयादि-जिनाधिपास्त्रिभुवनख्याताश्चतुर्विंशतिः
श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश।
ये विष्णु-प्रतिविष्णु-लाङ्गलधराः सप्तोत्तरा विंशति-
स्त्रैकाल्ये प्रथितािस्त्रिषष्टिपुरुषाः कुर्वन्तु ते (मे) मंगलम्।।3।।
देव्योऽष्टौ च जयादिका द्विगुणिता विद्यादिका देवता
श्रीतीर्थंकरमातृकाश्च जनका यक्षाश्च यक्ष्यस्तथा।
द्वात्रिंशत् त्रिदशाऽधिापास्तिथिसुरा दिक्कन्यकाश्चाष्टधा
दिक्पाला दश चेत्यमी सुरगणाः कुर्वन्तु ते (मे) मंगलम्।।4।।
ये सर्वौषधऋद्धयः सुतपसो वृद्धिंगता पंच ये
ये चाष्टांग-महानिमित्त-कुशला येऽष्टौ विधााश्चारणः।
पंचज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिॠद्धीश्वरा:
सप्तैते सकलार्चिता गणभृतः कुर्वन्तु ते (मे) मंगलम्।।5।।
कैलाशे वृषभस्य निर्वृतिमही वीरस्य पावापुरे
चम्पायां वसुपूज्यसज्जिनपतेः सम्मेदशैलेऽर्हताम्।
शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतो
निर्वाणाऽवनयः प्रसिद्धविभवाः कुर्वन्तु ते (मे) मंगलम्।।6।।
ज्योतिर्व्यन्तर-भावनाऽमरगृहे मेरौ कुलाद्रौ तथा
जम्बू-शाल्मलि-चैत्यशाखिषु तथा वक्षार-रूप्याद्रिषु।
इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे
शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु ते (मे) मंगलम्।।7।।
यो गर्भाऽवतरोत्सवो भगवतां जन्माऽभिषेकोत्सवो
योे जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक्।
यः कैवल्यपुरप्रवेशमहिमा संभावितः स्वर्गिभिः
कल्याणानि च तानि पंच सततं कुर्वन्तु ते (मे) मंगलम्।।8।।
इत्थं श्रीजिनमंगलाष्टकमिदं सौभाग्य-संपत्प्रदं
कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणामुषः।
ये शृण्वन्ति पठन्ति तैश्च सुजनैर्धार्मार्थकामान्विता
लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपि।।9।।
।। इति मंगलाष्टकम्।।