-शार्दूलविक्रीडित छंद-
सिद्धेर्धाममहारिमोहहननं, कीर्ते: परं मन्दिरम्।
मिथ्यात्वप्रतिपक्षमक्षयसुखं, संशीति विध्वंसनम्।।
सर्वप्राणिहितं प्रभेन्दुभवनं, सिद्धिप्रमालक्षणम्।
सन्तश्चेतसि चिन्तयन्तु सुधिय:, श्रीवर्धमानं जिनम्।।१।।
शान्ति: कुंथ्वरनाथशक्रमहिता:, सर्वै: गुणैरन्विता:।
ते सर्वे तीर्थेशचक्रिमदनै:, पदवीत्रिभि: संयुता:।।
तीर्थंकरत्रयजन्ममृत्युरहिता:, सिद्धालये संस्थिता:।
ते सर्वे कुर्वन्तु शान्तिमनिशं, तेभ्यो जिनेभ्यो नम:।।२।।
सम्यग्दर्शनबोधवृत्तममलं, रत्नत्रयं पावनम्।
मुक्तिश्रीनगराधिनाथजिनपत्युक्तोऽपवर्गप्रद:।।
धर्म: सूक्तिसुधा च चैत्यमखिलं, चैत्यालयं श्र्यालयं।
प्रोक्तं च त्रिविधं चतुर्विधममी, कुर्वन्तु ते मंगलम्।।३।।
।।इति पुष्पांजलि:।।