भक्तामर-प्रणत-मौलि-मणि-प्रभाणा-
मुद्योतकं दलित-पाप-तमो-वितानम्।
सम्यक्प्रणम्य जिन-पाद-युगं युगादा-
वालम्बनं भव-जले पततां जनानाम् ।।१।।
य: संस्तुत: सकल-वाङ्मय-तत्त्वबोधा-
दुद्भूत-बुद्धि-पटुभि: सुरलोक-नाथै:।
स्तोत्रैर्जगत्त्रितय-चित्त-हरै-रुदारै:,
स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ।।२।।
बुद्ध्या विनापि विबुधार्चित-पाद-पीठ,
स्तोतुं समुद्यत-मतिर्विगत-त्रपोऽहम्।
बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-
मन्य: क इच्छति जन: सहसा ग्रहीतुम्।।३।।
वक्तुं गुणान् गुण-समुद्र शशांक-कान्तान्,
कस्ते क्षम: सुर-गुरु-प्रतिमोऽपि बुद्ध्या।
कल्पान्त-काल-पवनोद्धत-नक्र-चक्रं,
को वा तरीतुमल-मम्बुनिधिं भुजाभ्याम्।।४।।
सोऽहं तथापि तव भक्ति-वशान्मुनीश,
कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्त:।
प्रीत्यात्म-वीर्य-मविचार्य्य मृगी मृगेन्द्रं,
नाऽभ्येति िंक निज-शिशो: परि-पालनार्थम्।।५।।
अल्पश्रुतं श्रुतवतां परिहास – धाम,
त्वद्भक्ति-रेव-मुखरी-कुरुते बलान्माम्।
यत्कोकिल: किल मधौ मधुरं विरौति,
तच्चाम्र-चारु-कलिका-निकरैक-हेतु:।।६।।
त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं,
पापं क्षणात्क्षय-मुपैति शरीर-भाजाम्।
आक्रान्त-लोक-मलिनील-मशेष-माशु,
सूर्यांशु-भिन्न-मिव शार्वर-मन्धकारम् ।।७।।
मत्वेति नाथ! तव संस्तवनं मयेद-
मारभ्यते तनुधियाऽपि तव प्रभावात् ।
चेतो हरिष्यति सतां नलिनी-दलेषु,
मुक्ताफल-द्युति-मुपैति ननूद-बिंदु:।।८।।
आस्तां तव स्तवन-मस्त-समस्त-दोषं,
त्वत्संकथापि जगतां दुरितानि हन्ति।
दूरे सहस्र-किरण: कुरुते प्रभैव,
पद्माकरेषु जलजानि विकास-भाfिञ्ज।।९।।
नात्यद्भुतं भुवन – भूषण – भूतनाथ,
भूतैर्गुणैर्भुवि भवन्त – मभिष्टु – वन्त:।
तुल्या भवन्ति भवतो ननु तेन किं वा,
भूत्याश्रितं य इह नात्मसमं करोति।।१०।।
दृष्ट्वा भवन्त-मनिमेष-विलोकनीयं,
नान्यत्र तोष-मुपयाति जनस्य चक्षु:।
पीत्त्वा पय: शशिकर-द्युति-दुग्ध-सिन्धो;,
क्षारं जलं जलनिधेरसितुं क इच्छेत्।।११।।
यै: शान्त-राग-रुचिभि: परमाणु-भिस्त्वं,
निर्मापितस्त्रि – भुवनैक – ललाम – भूत।
तावन्त एव खलु तेऽप्यणव: पृथिव्यां,
यत्ते समान-मपरं न हि रूपमस्ति।।१२।।
वक्त्रं क्व ते सुर-नरोरगनेत्र-हारि,
नि:शेष-निर्जित-जगत्त्रित-योपमानम्।
बिम्बं कलंक-मलिनं क्व निशाकरस्य,
यद्वासरे भवति पाण्डु-पलाश-कल्पम् ।।१३।।
सम्पूर्ण-मण्डल-शशांक-कला कलाप-
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति।
ये संश्रितास्त्रिजगदीश्वर – नाथमेकं,
कस्तान्निवारयति संचरतो यथेष्टम् ।।१४।।
चित्रं किमत्र यदि ते त्रिदशांगनाभि-
र्नीतं मनागपि मनो न विकार-मार्गम्।
कल्पान्त-काल-मरुता चलिता-चलेन,
किं मन्दराद्रि-शिखरं चलितं कदाचित्।।१५।।
निर्धूम – वर्त्ति – रपवर्जित – तैलपूर:,
कृत्स्नं जगत्त्रयमिदं प्रकटी-करोषि।
गम्यो न जातु मरुतां चलिता-चलानां,
दीपोऽपरस्त्वमसि नाथ जगत्प्रकाश:।।१६।।
नास्तं कदाचिदुपयासि न राहु-गम्य:,
स्पष्टी-करोषि सहसा युगपज्जगन्ति।
नाम्भोधरोदर – निरुद्ध – महा – प्रभाव:,
सूर्यातिशायि-महिमासि मुनीन्द्र लोके।।१७।।
नित्योदयं दलित-मोह-महान्धकारं।
गम्यं न राहु-वदनस्य न वारिदानाम्।।
विभ्राजते तव मुखाब्ज-मनल्प-कान्ति,
विद्योतयज्-जगदपूर्व-शशाज्र्-बिम्बम्।।१८।।
किं शर्वरीषु शशिनान्हि विवस्वता वा,
युष्मन्मुखेन्दु-दलितेषु तम:सु नाथ।
निष्पन्न-शालि-वन-शालिनि जीव-लोके,
कार्यं कियज्-जलधरैर्जल-भारनम्रै:।।१९।।
ज्ञानं यथा त्वयि विभाति कृतावकाशं,
नैवं तथा हरि – हरादिषु नायकेषु।
तेज:स्फुरन्मणिषु याति यथा महत्त्वं,
नैवं तु काच-शकले किरणा-कुलेऽपि।।२०।।
मन्ये वरं हरि – हरादय एव दृष्टा,
दृष्टेषु येषु हृदयं त्वयि तोषमेति।
किं वीक्षितेन भवता भुवि येन नान्य:,
कश्चिन्मनो हरति नाथ भवान्तरेऽपि।।२१।।
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्-
नान्या सुतं त्वदुपमं जननी प्रसूता।
सर्वा दिशो दधति भानि सहस्र-रश्मिं,
प्राच्येव दिग्जनयति स्फुर-दंशु-जालम् ।।२२।।
त्वामा-मनन्ति मुनय: परमं पुमांस-
मादित्य-वर्ण-ममलं तमस: पुरस्तात्
त्वामेव सम्य-गुपलभ्य जयन्ति मृत्युं,
नान्य: शिव: शिव-पदस्य मुनीन्द्र पन्था:।।२३।।
त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं,
ब्रह्माण-मीश्वर-मनन्त-मनंग केतुम्।
योगीश्वरं विदित-योग-मनेक-मेकं,
ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्त:।।२४।।
बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्-
त्वं शंकरोऽसि भुवन-त्रय-शंकरत्वात्।
धातासि धीर शिव-मार्ग-विधे-र्विधानात्,
व्यक्तं त्वमेव भगवन् पुरुषोत्तमो सि।।२५।।
तुभ्यं नम-स्त्रिभुवनार्ति-हराय नाथ,
तुभ्यं नम: क्षिति-तलामल-भूषणाय।
तुभ्यं नमस्त्रिजगत: परमेश्वराय,
तुभ्यं नमो जिन भवोदधि-शोषणाय।।२६।।
को विस्मयोऽत्र यदि नाम गुणैरशेषै-
स्त्वं संश्रितो निरवकाश-तया मुनीश।
दोषै-रुपात्त-विविधाश्रय-जात-गर्वै:,
स्वप्नान्तरेऽपि न कदाचिद-पीक्षितोऽसि।।२७।।
उच्चैर-शोक-तरु-संश्रित-मुन्मयूख-
माभाति रूप-ममलं भवतो नितान्तम्।
स्पष्टोल्लसत्-किरणमस्त-तमो-वितानं,
बिम्बं रवेरिव पयोधर – पार्श्ववर्ति।।२८।।
सिंहासने मणि-मयूख-शिखा-विचित्रे,
विभ्राजते तव वपु: कनका-वदातम् ।
बिम्बं वियद्-विलस-दंशु-लता-वितानं,
तुंगोदयाद्रि – शिरसीव सहस्र – रश्मे:।।२९।।
कुन्दावदात-चल-चामर-चारु-शोभं,
विभ्राजते तव वपु: कलधौत-कान्तम्।
उद्यच्छशांक-शुचि-निर्झर-वारि-धार-
मुच्चैस्तटं सुर-गिरेरिव शात-कौम्भम् ।।३०।।
छत्र-त्रयं तव विभाति शशांक-कान्त-
मुच्चै: स्थितं स्थगित-भानु-कर-प्रतापम्।
मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं,
प्रख्यापयत्-त्रिजगत: परमेश्वरत्वम्।।३१।।
गम्भीर-तार-रव-पूरित-दिग्विभाग-
स्त्रैलोक्य-लोक-शुभ-संगम-भूति-दक्ष:।
सद्धर्म-राज-जय-घोषण-घोषक: सन्,
खे दुन्दुभिर्-ध्वनति ते यशस: प्रवादी।।३२।।
मन्दार-सुन्दर-नमेरु-सुपारिजात ,
सन्तानकादि-कुसुमोत्कर-वृष्टिरुद्धा।
गन्धोद-बिन्दु-शुभ-मन्द मरुत्प्रपाता,
दिव्या दिव: पतति ते वचसां ततिर्वा।।३३।।
शुम्भत्प्रभा-वलय-भूरि-विभा विभोस्ते,
लोकत्रये द्युतिमतां द्युतिमा-क्षिपन्ती।
प्रोद्यद्-दिवाकर-निरन्तर-भूरि-संख्या,
दीप्त्या जयत्यपि निशामपि सोम-सौम्याम्।।३४।।
स्वर्गा-पवर्ग-गममार्ग-विमार्गणेष्ट:,
सद्धर्म तत्त्व-कथनैक-पटुस्-त्रिलोक्या:।
दिव्य-ध्वनिर्-भवति ते विशदार्थ-सर्व-
भाषा-स्वभाव-परिणाम-गुणै: प्रयोज्य:।।३५।।
उन्निद्र – हेम – नवपंकजपुंज-कान्ति-,
पर्युल्लसन्नख-मयूख-शिखा-भिरामौ।।
पादौ पदानि तव यत्र जिनेन्द्र धत्त:,
पद्मानि तत्र विबुधा: परि-कल्पयन्ति।।३६।।
इत्थं यथा तव विभूति-रभूज्जिनेन्द्र,
धर्मोप-देशन विधौ न तथा परस्य।
यादृक् प्रभा दिनकृत: प्रहतान्ध-कारा,
तादृक्कुतो ग्रह-गणस्य विकासिनोऽपि।।३७।।
श्च्योतन्-मदा-विल-विलोल-कपोल-मूल-
मत्त-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम्।
ऐरावताभ – मिभ – मुद्धत – मापतन्तं,
दृष्ट्वा भयं भवति नो भवदा-श्रितानाम्।।३८।।
भिन्नेभ-कुम्भ-गल-दुज्ज्वल-शोणिताक्त-
मुक्ताफल-प्रकर-भूषित-भूमिभाग:।
बद्ध-क्रम: क्रम-गतं हरिणा-धिपोऽपि,
नाक्रामति क्रम-युगाचल-संश्रितं ते।।३९।।
कल्पान्त-काल-पवनोद्धत-वन्हि-कल्पं,
दावानलं ज्वलित-मुज्ज्वल-मुत्स्फुलिंगम्।
विश्वं जिघित्सुमिव सम्मुख-मापतन्तं,
त्वन्नाम-कीर्तन-जलं शमयत्य-शेषम्।।४०।।
रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं,
क्रोधोद्धतं फणिन-मुत्फण-मापतन्तम्।
आक्रामति क्रमयुगेण निरस्त-शंकस्-
त्वन्नाम-नाग-दमनी हृदि यस्य पुंस:।।४१।।
वल्गत्तुरंग – गज – गर्जित – भीम – नाद-
माजौ बलं बलवतामपि भू-पतीनाम्।
उद्यद्-दिवाकर-मयूख-शिखा-पविद्धं,
त्वत्कीर्त्तनात्-तम इवाशु भिदा-मुपैति।।४२।।
कुन्ताग्र-भिन्न-गज-शोणित-वारिवाह-
वेगावतार-तरणातुर-योध-भीमे ।
युद्धे जयं विजित-दुर्जय-जेय-पक्षास्-
त्वत्-पाद-पंकज-वना-श्रयिणो लभन्ते।।४३।।
अम्भो-निधौ क्षुभित-भीषण-नक्र-चक्र-
पाठीन-पीठ-भय-दोल्वण-वाडवाग्नौ।
रंगत्तरंग-शिखर-स्थित-यान-पात्रास्-
त्रासं विहाय भवत: स्मरणाद्-व्रजन्ति।।४४।।
उद्भूत-भीषण-जलोदर-भार-भुग्ना:,
शोच्यां दशा-मुपगताश्च्युत-जीविताशा:।
त्वत्पाद – पंकज – रजोऽमृतदिग्ध – देहा:,
मर्त्या भवन्ति मकर-ध्वज-तुल्य-रूपा:।।४५।।
आपाद-कण्ठ-मुरुश्रृंखल-वेष्टितांगा,
गाढं बृहन्निगड-कोटि-निघृष्ट-जंघा:।
त्वन्नाम-मन्त्र मनिशं मनुजा: स्मरन्त:
सद्य: स्वयं विगत-बन्ध-भया भवन्ति।।४६।।
मत्त – द्विपेन्द्र – मृगराज – दवानलाहि-
संग्राम-वारिधि-महोदर-बन्धनोत्थम्।
तस्याशु नाश-मुपयाति भयं भियेव,
यस्तावकं स्तव-मिमं मतिमान-धीते।।४७।।
स्तोत्र-स्रजं तव जिनेन्द्र गुणैर्-निबद्धां
भक्त्या मया विविध-वर्ण-विचित्र-पुष्पां।
धत्ते जनो य इह कण्ठ-गतामजस्रं-
तं मानतुंगमवशा समुपैति लक्ष्मी:।।४८।।