(संस्कृत विधान)
पूर्व-पीठिका
श्रीमद्गीर्वाणसेव्यं प्रबलतरमहा-मोहमल्लातिमल्लं।
कान्तं कल्याणनाथं, कठिनशठमनो-जातमत्तेभसिंहम्।।
नत्वा श्रीपार्श्वदेवं, कुमुदविधुकृतो, रम्यकल्याणधाम्न।
स्तोत्रस्योच्चैर्विशालं, विधिवदनुपम, पूजनं कथ्यतेऽत्र।।
पंचवर्णेन चूर्णेन, कर्त्तव्यं कमलं वरं।
वेदवार्धिकरं वेद्यां, कर्णिकामध्यमं बुधै:।।
धौतवस्त्रधर: प्राज्ञ:, श्लेष्मादिव्याधिवर्जित:।
बाह्याभ्यन्तर-संशुद्धो, जिनपूजा-विधानवित्।।
गुरोराज्ञां विधायोच्चं, शिरस्या-दरतस्तत:।
पृष्ट्वा सङ्घपतिं पूजा-प्रारंभ: क्रियतेऽञ्जसा।।
आदौ गन्धकुटीपूजां, विधायामल-वस्तुभि:।
पञ्चानामर्हदादीनां, ततोऽर्यां परमेष्ठिनाम्।।
ततो गत्वा गुरोरग्रे, भारती-मुनि-पूजनं।
कृत्वेलाशुद्धिकार्यं च, क्रमेणागमकोविदै:।।
ततोऽम्लानां च सामग्रीं, कृत्वा सद्गी: बुधोत्तम:।
पूजनं पार्श्वनाथस्य, कुर्यान्मंत्र-पुरस्सरम्।।
एतत्पद्यसप्तकं पठित्वा स्वस्तिकस्योपरि पुष्पांजलिं क्षिपेत्।