-वसंततिलका छंद-
तीर्थंकर-स्नपननीर-पवित्रजात:, तुङ्गोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि।
देवेन्द्र-दानव-नरेन्द्र-खगेन्द्रवंद्य:, तं श्रीसुदर्शनगिरिं सततं नमामि।।१।।
यो भद्रसालवन-नंदन-सौमनस्यै:, भातीह पांडुकवनेन च शाश्वतोऽपि।
चैत्यालयान् प्रतिवनं चतुरो विधत्ते, तं श्रीसुदर्शनगिरिं सततं नमामि।।२।।
जन्माभिषेकविधये जिनबालकानाम्, वंद्या: सदा यतिवरैरपि पांडुकाद्या:।
धत्ते विदिक्षु महनीयशिलाश्-चतसृ:, तं श्रीसुदर्शनगिरिं सततं नमामि।।३।।
योगीश्वरा: प्रतिदिनं विहरन्ति यत्र, शान्त्यैषिण: समरसैक-पिपासवश्च।
ते चारणर्द्धि-सफलं खलु कुर्वतेऽत्र, तं श्रीसुदर्शनगिरिं सततं नमामि।।४।।
ये प्रीतितो गिरिवरं सततं नमन्ति, वंदन्त एव च परोक्षमपीह भक्त्या।
ते प्राप्नुवंति किल ‘ज्ञानमिंत’ श्रियं हि, तं श्रीसुदर्शनगििंर सततं नमामि।।५।।