–बसन्ततिलका छन्द–
आदीश्वरादिजिनसूर्ययुगादिनाथ:,
साकेतशासनपति: पुरुदेवनाथ:।
स्वायम्भुव: सकललोकहितंकरो य:,
तं नाभिनन्दनजिनं प्रणमामि नित्यं।।१।।
अद्यापि नाम तव देव! जगत्प्रसिद्ध:,
श्रुत्वा मयापि तव सन्निधमागतो हि।
भक्ता: रमन्त इह भक्तिसुधारसे ते,
तं नाभिनन्दनजिनं प्रणमामि नित्यं।।२।।
कालेऽवसर्पिणि तृतीययुगेऽन्तिमे हि,
जन्मो बभूव वृषभस्य दिवाकरस्य।
मिथ्यान्धकारहरणाय विभो! समर्थ:,
तं नाभिनन्दनजिनं प्रणमामि नित्यं।।३।।
सर्वोच्च मूर्ति: प्रभो। तव राजतेऽत्र,
भक्ता: लभन्त इह बोधमणिं च दृष्ट्वा।
रत्नत्रयं किल विकासयितुं ममेच्छा,
तं नाभिनन्दनजिनं प्रणमामि नित्यं।।४।।
माता तवास्ति जगतीह सुरेन्द्रवंद्या,
भो देव! पादयुगले किल सापि नौति।
बुद्ध्या विनापि क्रियते स्तवनं मया च,
तं नाभिनन्दनजिनं प्रणमामि नित्यं।।५।।
-अनुष्टुप्-
इत्थंभूतां स्तुतिं कृत्वा, नाभेयस्य महात्मन:।
बोधिं समाधिमिच्छामि, चन्दनामतिरार्यिका।।६।।