श्री इन्द्रभूिंत वसुभूतिपुत्रं, पृथ्वीभवं गौतमगोत्ररत्नं।
स्तुवन्ति देवा: सुरमानवेन्द्रा:, स गौतमो यच्छतु वाञ्छितं मे।।१।।
श्री वर्धमानात् समवाप्य दीक्षां, मुहूर्तमात्रेण कृतानि येन।
अङ्गानि पूर्वाणि चतुर्दशानि, स गौतमो यच्छतु वाञ्छितं मे।।२।।
श्रीवीरनाथेन पुरा प्रणीतं, मन्त्रं महानन्दसुखाय यस्य।
ध्यायन्त्यमी सूरिवरा: समग्रा:, स गौतमो यच्छतु वाञ्छितं मे।।३।।
यस्माभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षां भ्रमणस्य काले।
मिष्टान्नपानादिभि: पूर्णकामा:, स गौतमो यच्छतु वाञ्छितं मे।।४।।
अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय।
निशम्य तीर्थातिशयं सुरेम्य:, स गौतमो यच्छतु वाञ्छितं मे।।५।।
त्रिपञ्चसङ्ख्याशततापसानां, तप: कृशानामपुनर्भवाय।
अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं मे।।६।।
शिवं गते भर्तरि वीरनाथे युगप्रधानत्वमिहेव मत्वा।
पट्टाभिषेको विहित: सुरेन्द्रै: स गौतमो यच्छतु वाञ्छितं मे।।७।।
श्री गौतमस्याष्टकमादरेण प्रमोदकाले मुनिपुङ्गवा ये।
पठन्ति ते सूरिपदं च देवा—नन्दं लभन्ते नितरां क्रमेण।।८।।