त्रैलोक्यमंगलात्मान:, सुरासुरनमस्कृता:।
मंगलं मम यच्छन्तु, जितरागादयो जिना:।।१।।
संसार प्रभवो मोहो, यैर्जितोऽत्यन्तदुर्जय:।
अर्हन्तो भगवन्तस्ते, भवंतु मम मंगलम्।।२।।
करस्थामलकं यद्वल्लोकालोकं स्वतेजसा।
पश्यन्त: केवलालोका, भवन्तु मम मंगलम्।।३।।
कर्मणाष्टप्रकारेण, मुक्तास्त्रैलोक्यमूर्द्धगा:।
सिद्धा: सिद्धिकरा: सर्वे, भवन्तु मम मंगलम्।।४।।
कमलादित्यचन्द्रक्ष्मामंदराब्धिवियत्समा:।
आचार्या: परमाधारा, भवन्तु मम मंगलम्।।५।।
परात्मशासनाभिज्ञा:, कृतानुगतशासना:।
सदा सर्वेऽप्युपाध्याया:, कुर्वन्तु मम मंगलम्।।६।।
तपसा द्वादशांगेन, निर्वाणं साधयन्ति ये।
ते सर्वे साधव: शूरा: भवंतु मम मंगलम्।।७।।
चतुर्विंशतितीर्थेशा—स्तुर्यकाले भवा जिना:।
भक्त्या नमामि तान्नित्यं, ते मे कुर्वन्तु मंगलम्।।८।।
चतुा\वशतितीर्थेशां, प्रसिद्धा: शासनेषु ये।
तेऽनुबद्धकेवलिनो, नित्यं कुर्वन्तु मंगलम्।।९।।
शिष्यास्तीर्थकराणां ये, सिद्धिं प्राप्ता मुनीश्वरा:।
सर्वसिद्धिप्रदातारस्ते मे कुर्वन्तु मंगलम्।।१०।।
अनुत्तरगता अत्र, मुनयो जैनशासने।
मूलोत्तरगुणाढ्यास्ते, नित्यं कुर्वन्तु मंगलम्।।११।।
सौधर्मादिग्रैवेयकान्, प्राप्ता ये संयता अपि।
मूलोत्तरगुणाप्त्यै मे, नित्यं कुर्वन्तु मंगलम्।।१२।।
अथ जिनयज्ञप्रतिज्ञापनाय मंडलस्योपरि पुष्पांजिंल क्षिपेत्।