अर्हत: सौख्यदान् सर्वान्, सिद्धान् सिद्धिप्रदान् नुवे।
आचार्यान् पाठकान् साधून्, मार्गदांश्चापि संस्तुवे।।१।।
त्रैकालिकान् मुनीन् वन्दे—ऽनंतानंतान् त्रिशुद्धित:।
येषां भक्त्या तितीर्षामि, भवसागरदुस्तरम्।।२।।
एकादशांगविज्ञा या—स्तीर्थंकरसभास्थिता:।
गणिनीश्चार्यिका: सर्वा: वन्दे रत्नत्रयाप्तये।।३।।
त्रैकालिकार्यिका: सर्वा:, अनंतानंतमातर:।
तास्ता भक्त्या प्रवन्देऽहं, मूलोत्तरगुणाप्तये।।४।।