(निर्वाण भक्ति में)
विबुधपति-खगपति-नरपति-धनदोरग-भूत-यक्षपति-महितम्।
अतुल-सुखविमल-निरुपम-शिव-मचल-मनामयं हि संप्राप्तम्।।१।।
कल्याणैः संस्तोष्ये, पंचभि-रनघं त्रिलोक-परमगुरुम्।
भव्यजन – तुष्टिजननै – र्दुरवापैः सन्मतिं भक्त्या।।२।।
आषाढ़-सुसित षष्ठ्यां, हस्तोत्तरमध्यमाश्रिते शशिनि।
आयातः स्वर्गसुखं भुक्त्वा पुष्पोत्तराधीशः।।३।।
सिद्धार्थ-नृपति-तनयो, भारत-वास्ये विदेह-कुण्डपुरे।
देव्यां प्रियकारिण्यां, सुस्वप्नान्-संप्रदर्श्य विभुः।।४।।
चैत्र सितपक्ष-फाल्गुनि, शशांक-योगे दिने त्रयोदश्यां।
जज्ञे स्वोच्च-स्थेषु, ग्रहेषु सौम्येषु शुभलग्ने।।५।।
हस्ताश्रिते शशांके, चैत्र-ज्योत्स्ने चतुर्दशी-दिवसे।
पूर्वाण्हे रत्नघटै-र्विबुधेन्द्राश्चक्रुरभिषेकम् ।।६।।
भुक्त्वा कुमारकाले, िंत्रशद्-वर्षाण्यनंतगुणराशिः।
अमरोपनीतभोगान्-सहसाभिनिबोधितोऽन्येद्युः।।७।।
नानाविध-रूपचितां, विचित्र-कूटोच्छ्रितां मणिविभूषाम्।
चंद्रप्रभाख्य-शिविका-मारुह्य पुराद्-विनिष्क्रान्तः।।८।।
मार्गशिर-कृष्णदशमी-हस्तोत्तर-मध्यमाश्रिते सोमे।
षष्ठेन त्वपराण्हे, भक्तेन जिनः प्रवव्राज।।९।।
ग्राम-पुर-खेट-कर्वट-मटंब-घोषाकरान् प्रविजहार।
उग्रैस्तपोविधानै – र्द्वादशवर्षाण्यमरपूज्यः।।१०।।
ऋजुकूलायास्तीरे, शालद्रुम-संश्रिते शिलापट्टे।
अपराण्हे षष्ठेना-स्थितस्य खलु जृंभिकाग्रामे।।११।।
वैशाखसित-दशम्यां, हस्तोत्तर-मध्यमाश्रिते चंद्रे।
क्षपकश्रेण्यारूढस्योत्पन्नं केवलज्ञानम् ।।१२।।
अथ भगवान् संप्रापद्, दिव्यं वैभारपर्वतं रम्यम् ।
चातुर्वर्ण्यसुसंघस्तत्राभूद् गौतम – प्रभृति।।१३।।
छत्राशोकौ घोषं, सिंहासनदुंदुभी कुसुमवृष्टिम् ।
वरचामर-भामंडल-दिव्या-न्यन्यानि चावापत् ।।१४।।
दशविध-मनगाराणा-मेकादशधोत्तरं तथा धर्मम् ।
देशयमानो व्यवहरत्त्रिंशद्वर्षाण्यथ जिनेन्द्रः।।१५।।
पद्मवन-दीर्घिकाकुल-विविध-द्रुमखण्ड-मण्डिते रम्ये।
पावानगरोद्याने, व्युत्सर्गेण स्थितः स मुनिः।।१६।।
कार्तिककृष्ण-स्यान्ते, स्वातावृक्षे निहत्य कर्मरजः।
अवशेषं संप्रापद्-व्यजरामरमक्षयं सौख्यम् ।।१७।।
परिनिर्वृतं जिनेन्द्रं, ज्ञात्वा विबुधा ह्यथाशु चागम्य।
देवतरु – रक्तचन्दन – कालागुरु – सुरभिगोशीर्षैैः।।१८।।
अग्नीन्द्राज्जिनदेहं, मुकुटानल-सुरभि-धूपवरमाल्यैः।
अभ्यर्च्य गणधरानपि, गता दिवं खं च वनभवने।।१९।।
इत्येवं भगवति वर्धमानचंद्रे, यः स्तोत्रं पठति सुसंध्ययोर्द्वयोर्हि।
सोऽनंतं परमसुखं नृदेवलोके, भुक्त्वांते शिवपद-मक्षयं प्रयाति।।२०।।