भरतश्चक्रवर्ती त्वं, षट्खंडविजयी महान्।
भरतेश्वरमहं नौमि, भेदविज्ञानप्राप्तये।।१।।
भरतेन सुकैवल्यं, प्राप्तं दीक्षाक्षणे त्वरं।
भरतेशाय मे नित्यं, नमो नमोस्त्वनंतश:।।२।।
भरतात् भारतं वर्षं, पुराणेषु प्रसिद्ध्यति।
भरतस्य त्विदं क्षेत्रं, सर्वदा क्षेममाप्नुयात्।।३।।
भरतेशे भवेद् भक्ति:, स्थिरा स्वपरज्ञानभाक्।
भो! भरतेश! सिद्धात्मन्! स्वात्मसिद्धिं प्रयच्छ मे।।४।।