(प्रमाण विषय)
अथ प्रमाणस्य विषयविप्रतिपत्तिनिराकरणार्थमिदमाह—
तद्द्रव्यपर्यायात्मार्थो बहिरन्तश्च तत्त्वत:।।७।।
प्रमाणमित्यनुवर्तमानमत्र पष्ठ्यन्तमभिसम्बध्यते। अर्थवशाद्विभक्तिपरिणाम इति न्यायात्। अर्यते गम्यते ज्ञायते इत्यर्थो विषयो भवति। कस्य प्रमाणस्य। क: बहिरचेतनो घटादि:। न केवलं बहि: अपि तु अन्तश्च अन्तश्चेतन आत्मा च प्रमाणस्य स्वार्थव्यवसायात्मकत्वेन प्रतिपादितत्वात्। किंविशिष्ट: द्रव्यपर्यायात्मा द्रव्यमन्विताकार: पर्यायश्च व्यावृत्ताकारस्तावात्मानौ स्वभावौ धर्मौ यस्या स तथोक्त:। कथं तत्त्वत: परमार्थत: न कल्पनयेत्यर्थ:। कुतस्तत्कस्माद्धेतो: अर्थत्वान्यथानुपपत्तेरित्यर्थ:। तथाहि प्रमाणार्थो जीवादिर्द्रव्यपर्यायात्मा प्रमाणार्थत्वात्। यो द्रव्यपर्यायात्मा न भवति स न प्रमाणार्थो यथा बन्धास्तनन्धय:। प्रमाणार्थश्च जीवादिस्तस्मात् द्रव्यपर्यायात्मेति। न खल्वेकान्ततो द्रव्यमेव पर्याय एव परस्परनिरपेक्षं तद्द्वयमेव वाऽर्थक्रियासमर्थं यत: प्रमाणविषय: स्यात्। तत्तदेकान्ते क्रमयौगपद्यविरहेणार्थक्रियानुपपत्ते:। तयोरनेकान्तेन व्याप्तत्वात्तद-भाव्यानुपपत्ते:। ताभ्यां चार्थक्रियाया व्याप्यत्वात्। तया च प्रमेयस्य व्याप्यत्वात्। व्यापकानुपलम्भ: परम्परयाऽपि व्याप्याभावं साधयत्येव। व्याप्योपलब्धिर्वा व्यापकविधिं साधयति किं नश्चिन्तया। नन्वर्थक्रिया प्रमेयस्य कथं व्यापिकेति चेन्न। उत्पादव्ययध्रौव्यपरिणतिलक्षणार्थक्रियायामेव बहिरन्तर्वाऽर्थे प्रमाणप्रवृत्ते:। अन्यथा गृहीतग्राहित्वेन निर्विषयत्वेन च ज्ञानानामप्रामाण्यात् असत्त्वाच्च। न खलु तादृगर्थक्रियां विना सत्त्वं स्वप्नेप्युपलब्धम्। न ह्यसत्प्रमेयमतिप्रसङ्गात्। नन्वनेकान्त: क्रमयौगपद्ययो: कथं व्यापक इति चेन्न। पर्यायापेक्षया देशकालक्रमस्य द्रव्यापेक्षया च यौगपद्यस्य सम्भवात्। ननु वैशेषिकमते भेदैकान्ते द्रव्यपर्याययो: प्रमेयत्वमविरुद्धमेव। तथाहि द्रव्यगुणकर्मसामान्यविशेषसमवाया: षट् पदार्था भावरूपा:। तत्र द्रव्यं नवविधं। गुणाश्चतुर्विंशति:। कर्माणि पञ्च। सामान्यं द्विधा। विश्ोषा अनेके। समवाय एक इति। अभावरूपास्तु चत्वार: प्रागभावप्रध्वंसाभावेतरेतराभावात्यन्ताभावा इति। सोऽयं सदसद्वर्ग: परस्परमत्यन्तभिन्न: प्रमाणार्थ, इति चेन्न। अत्यन्तभेदे सम्बन्धानुपपत्ते:। समवायोऽस्तीति चेन्न तस्य सर्वसाधारण्येनानियामकत्वात्। यथैव हि ज्ञानादीनामात्मनि समवायस्तथा पृथिव्यादावपि तत्प्रसङ्गात्। किं च द्रव्याद्भिन्नानां गुणानामद्रव्यत्ववत् सत्तासामान्याद्भिन्नानां द्रव्यादीनामप्यसत्त्वं किं न स्यात् विशेषाभावात्। द्रव्यमनुगतस्वरूपं चेत्सामान्यमेव। व्यावृत्तस्वरूपत्वे तु विशेष एव। एवं गुणादिष्वपि योज्यमिति। पदार्थद्वैतप्रसङ्गश्च। नीरूप: प्रमाणार्थोऽनुपपन्न एव। अन्यथा केशोण्डुकज्ञानादीनां निर्विषयाणामपि प्रामाण्यप्रसङ्गात्। अभावप्रमाणभावो विषयोऽस्तीति चेत् केशोण्डुकज्ञानेऽपि केशोण्डुकमविशेषात्। तत्र केशोण्डुकस्य कल्पितत्वान्मिथ्यात्वमिति चेदभावस्यापि नीरूपत्वान्मिथ्यात्वं किं न स्यात्। अतो दुराग्रहग्रहं परित्यज्य भावाभावात्मक एव कथञ्चित्प्रमाणार्थोऽनुमन्तव्य:। तन्न वैशेषिकमतं सुमतं दृष्टेष्टविरोधात्। अथ प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद-जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानेषु षोडशपदार्थेषु नैयायिकमतेषु आत्मशरीरेन्द्रियार्थबुद्धिमन: प्रवृत्तिदोषप्रेत्यभावफलदु:खापवर्गभेदात् द्वादशविधस्य प्रमेयत्वमुपपद्यत इति चेन्न। अन्नापि भेदैकान्ते सम्बन्धानुपपत्ते:। इंद्रियबुद्धिमनसामर्थोपलब्धिसाधनत्वेन प्रमेयत्वानुपपत्तेश्च। आत्मनश्च प्रमातृत्वात्, प्रमाता प्रमाणं प्रमेयं प्रमितिरित्यन्तर्भेदोपगमात्। संशयादीनामप्रमेयत्वे च व्यवस्थानुपपत्ते:। भेदैकान्ते सङ्गग्रहविरोधात्। प्रत्यक्षादीनामनन्तर्भावाच्च। तन्न षोडशपदार्थव्यवस्था सम्भवति।
तत्त्वचतुष्टयं प्रमेयं चार्वाकपरिकल्पितमत्यन्तभिन्नं युज्यत इति चेन्न। जीवतत्त्वस्य पञ्चमस्य सद्भावात्। तेषां परस्परतोऽत्यन्तभेदासम्भवाच्च। तत्त्वद्वयव्यवस्थानात्। पृथिव्यादिविकार एव चैतन्यं न तत्वान्तरमिति चेत् महदद्भुतमिदं यदत्यन्तविलक्षणयोर्भूतचेतनयोरभेद: सलक्षणानां च पृथिव्यादीनां भेद इति। संविल्लक्षणं हि चैतन्यं स्पर्शादिलक्षणानि भूतानीति भेदस्य स्पर्शादिमत्त्वेन तेषामभेदस्य च प्रतीते:। नन्वस्तु भेदैकान्तेऽयं दोष:। अभेदैकान्ते द्रव्यपर्याययो: प्रमेयत्वं युक्तं भेदानामविद्याकल्पितत्वात्। अनवस्थानाच्च। न खलु भेदा अनन्ता: प्रमीयन्तेऽशक्यत्वात्। प्रत्यक्षेण हि निर्विशेषं प्रमीयते। कल्पना पुनस्तत्र भेदान् कल्पयति ततोऽद्वैतमेव तत्त्वमिति ब्रह्माद्वैतिनो ज्ञानाद्वैतिनश्च मन्यन्ते। तदपि प्रमाणबाधितमेव। क्रियाकारकभेदाभावेऽर्थ-क्रियानुपपत्ते:। असत्त्वात् यदेवार्थक्रियाकारि तदेव परमार्थसदितिवचनात्। अद्वैतशब्द: स्वाभिधेयप्रत्यनीका-विनाभावी नञ्पूर्वाखण्डपदत्वादगौरित्यादिपदवदित्याद्यनुमानबाधितत्वाच्च। कर्मफलपरलोकादिभेदविरोधाच्च। किञ्चाद्वैतसिद्धि: साधनात्तद्विना वा ? यदि साधनात् द्वैतप्रसङ्ग: साध्यसाधनयोर्भेदेन प्रवृत्ते:। तद्विनेति चेत् वाङमात्रेण सर्वं सर्वस्यापि यथेष्टं सिद्ध्यति। ततो नाद्वैतैकान्ते प्रमेयत्वं प्रमाणविरोधात्। ननु सांख्यपरिकल्पिते-ऽभेदैकान्ते प्रकृत्यादितत्त्वस्य प्रमेयत्वमुपपन्नं सर्वत्राविर्भावतिरोभाववशात्प्रधानपरिणाम-सम्भवादिति चेत्तदप्यसङ्गतम्। अभेदैकान्ते खल्वाविर्भावतिरोभावयोरेवासम्भवात् कौतस्कुत: परिणाम:। प्रकृतिपुरुषयोरपि भेदाभावप्रसङ्गात्। अर्थक्रियानुपपत्तेश्च। नह्यभेदैकान्तेऽर्थक्रिया सम्भवति क्रमाभावात्। तदेवं भेदैकान्तवद-भेदैकान्तेऽपि प्रमेयत्वस्यासम्भवात्तत्त्वतो द्रव्यपर्यायात्मकमेव चेतनाचेतनात्मकं प्रमेयमिति सुस्थितम्।
अथैकान्तेऽर्थक्रियाविरोधितामेव सुलक्षणं प्ररूपयति—
अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयो:।
क्रमाक्रमाभ्यां भावानां सा लक्षणतया मता।।१।।
अर्थस्य कार्यस्य क्रिया करणं निष्पत्तिर्न युज्येत न युक्तिमधिरोहेत्। केषां भावानां चेतनाचेनतपदार्थानां। काभ्यां क्रमाक्रमाभ्यां क्रमो देशकालव्याप्ति: अक्रमश्च यौगपद्यं ताभ्यां तावाश्रित्येत्यर्थ:। कयो: नित्यक्षणिकपक्षयो: नित्यपक्ष: सर्वथा कौटस्थ्यपरिग्रह:। क्षणिकपक्षस्तु सर्वथाऽनित्याभिनिवेश: तयोर्द्वयोरपि। तथाहि न खलु कूटस्थनित्यस्य क्रमेण कार्यकरणमुपपन्नं सर्वकार्याणामेककार्योत्पादनकाले एव तस्योत्पादनसामर्थ्यात् सहकारिसान्निध्यस्याकिञ्चित्करत्वात्। तदा तत्करणसामर्थ्याभावे नित्यत्वहानिप्रसङ्गात्। असमर्थस्वभावपरित्यागेन समर्थस्वभावोपादानेन च परिणममानस्यैवानित्यत्वात्। नापि यौगपद्येन, पूर्वसमये कृतकृत्यत्वेन तस्योत्तरसमयेष्वर्थक्रियाविरहात् असत्त्वप्रसंगात् स्वभावनानात्वप्रसङ्गाच्च। न ह्येकेनैव स्वभावेनानेककार्यकरणं युक्तमतिप्रसङ्गात् कार्याभेदप्रसङ्गाच्च। सहकारिवैचित्र्यात्कार्यवैचित्र्यमित्यप्ययुक्तं स्वभावमभिन्दतां सहकारित्वानुपपत्ते:। तत: क्रमयौगपद्यविरहादर्थक्रियाविरह: सिद्ध एव सर्वथानित्यपक्षे इति तस्यासत्त्वमेवेत्यर्थ:।
व्यापकानुपलम्भस्य व्याप्याभावं प्रति गमकत्वात्।
क्षणिकस्यापि न क्रमेण कार्यकारित्वं देशकालक्रमस्य तत्रासम्भवात्।।
यो यत्रैव व तत्रैव यो यदैव तदैव स:।
न देशकालयोर्व्याप्तिर्भावानामिह विद्यते।।१।।
इति वचनात्।। अन्यथा क्षणिकत्वविरोधात्। सन्तानापेक्षया क्रमोऽस्तीति चेन्न। तस्यावस्तुत्वात्। किञ्च संतान एव कार्यकारी स्वलक्षणं वा स्यात् ? आद्यपक्षे तस्यैव वस्तुत्वात् किं क्षणिकवस्तुकल्पनया। द्वितीयपक्षे तु संतानस्यावस्तुत्वात्तदपेक्षं क्रमेण कार्यकारित्वमप्यवास्तवं स्यात्। तृतीयपक्षे कथञ्चिन्नि-त्यानित्यात्मकत्वं वस्तुन आयातम्। तन्न क्रमेण कार्यकारित्वं क्षणिकस्य। नापि यौगपद्येन विभ्रमप्रसङ्गात्। कारणकाल एव कार्यस्योत्पत्तेस्तत्कार्यस्यापि तदैवोत्पत्तेरिति। ननु मा भून्नित्यक्षणिक-पक्षयोरर्थक्रिया का नो हानिरित्याशंक्याह-सेत्यादि-साऽर्थक्रिया ज्ञप्त्युत्पत्तिलक्षणा भावानां सद्भूतानामर्थानां। लक्षणतया लक्ष्यते ज्ञायते अनेनेति लक्षणं लिङ्गमित्यर्थ:। तस्य भावो लक्षणता तया लिङ्गत्वेन मता सकलास्तिवैâरभ्युपगता व्यापकत्वात्। व्यापकानुपलम्भश्च नित्यक्षणिकपक्षयोर्व्याप्यस्य सत्त्वस्य निषेधं साधयतीति भाव:। तथैवाख्यानात्। सत्त्वं हि प्रत्यक्षसिद्धं बहिरन्तश्च स्वव्यापिकामर्थक्रियां गमयति। साऽपि ध्रौव्योत्पादव्य-यपरिणतिलक्षणा क्रमयौगपद्ये स्वव्यापके ज्ञापयति। ते च स्वव्यापकमनेकान्तं साधयत:। तद्विरुद्धं च सर्वथैकान्तं निषेधयत इति भाव:। तत उत्पादव्ययध्रौव्यपरिणामवत एवार्थक्रियासम्भवाद्द्रव्य-पर्यायात्मा प्रमाणविषय इति सुस्थितम्।।
ननु कथमेकस्यानेकाकारव्यापित्वमेकार्थक्रियाकारित्वं च अनेकत्वे वा कथमेकत्वं विरोधात् इति प्रत्यवस्थामवह१स्तयन् अनेकांते विरोधाभावं दर्शयति—
नाभेदेऽपि विरुध्येत विक्रियाऽविक्रियैव वा।।
नैव विरुध्येत प्रत्यक्षादिना न बाध्यते। का विक्रिया विशेषेण कालभेदेने क्रिया पूर्वोत्तराकार-परिहारावाप्तिस्थितिलक्षणपरिणति:। न केवलं विक्रिया, अपित्वविक्रिया वा युगपदनेकाकारव्याप्तिलक्षणाऽपि नैव विरूध्येत। क्व अभेदेऽपि कथंचित् द्रव्यार्थिकनयापेक्षया विवक्षितेऽभेदेऽन्वयेऽनुगताकारेऽपि। तदपेक्षया वस्तुधर्माणामव्यतिरेकात् यदेव हि मृदेकद्रव्यं पिण्डाद्याकारपरिणतं तदेव तमाकारं परिहरत् घटाकरमुत्तरमा-स्कंदत्प्रतीयते। न च प्रतीयमाने विरोध: शक्य: कल्पयितुं तस्यानुपलम्भसाध्यत्वात्। अपिशब्दाद्भेदेऽपीत्या-क्षिप्यते। कथंचित् पर्यायार्थिकनयविवक्षया भेदे व्यतिरेकेऽपि द्रव्यपर्याययोरर्पिते क्रमयौगपद्ये न विरूध्येते यतोऽर्थक्रिया विरुध्येत। पूर्वाकारनिवृत्तावेवोत्तरपर्यायप्रादुर्भावात्। अन्यथा संकरादिदोषप्रसंगात्। तदेवं कथंचिद्भेदाभेदात्मकं नित्यानित्यात्मकं सदसदात्मकं च तत्त्वमभ्युपगंतव्यम्। तत्रैवार्थक्रियासंभवनादन्यथा विरोधात्।
एतदेवानेकान्तात्मकत्वं वस्तुन: सौगताभिप्रेतचित्रज्ञानदृष्टान्तबलेन समर्थयते—
मिथ्येतरात्मकं दृश्यादृश्यभेदेतरात्मकं।।४।।
चित्तं सदसदात्मैकं तत्त्वं साधयति स्वत:।।
विज्ञानवादिनो बौद्धा एवमभिमन्यंते-ज्ञानं बहिराकारविषयत्वेन मिथ्या स्वरूपालंबनत्वेनामिथ्या। स्वरूपापेक्षयाऽदृश्यं ग्राह्याकारापेक्षया दृश्यंं। ग्राह्याग्राहकाकारापेक्षया भेद: संवेदनापेक्षया चाभेद इति। एवं मिथ्यामिथ्यात्मकं दृश्यादृश्यात्मकं भेदाभेदात्मकं च चित्तं ज्ञानं स्वत: स्वरूपेण साधयति ज्ञापयति। किं तत्त्वं जीवाजीवादि। किं विशिष्टं सदसदात्म सत्सत्त्वं असदसत्त्वं ते आत्मानौ स्वभावौ यस्य तत्तथोक्तं। ननु द्रव्यादिसदात्मकं प्रागभावादि चासदात्मकं भिन्नमेव तत्त्वं द्वयमेव सिद्धमिति। तद् व्यवच्छेदार्थमाह- एकमभिन्नं प्रमाणादेशादेकमपि द्रव्यपर्यायार्थादेशात्सदसदात्मकं जीवादि तत्त्वं प्रसिद्धं प्रमाणबलाच्चित्र-ज्ञानवदित्यर्थ:। यतश्चित्रज्ञानमेकमपि मिथ्येतराद्यनेकात्मकमविरुद्धं तद्वज्जीवाद्यपि सदसदात्मकम-विरुद्धमुपलंभात्। एवमेकानेकात्मकं नित्यानित्यात्मकं च वस्तु न्यायबलादनुमंतव्यमुत्पादव्ययध्रौव्य-पीरणतिलक्षणार्थक्रियान्यथानुपपत्तेरिति भाव:। अतो विरोधाभावाद्वैयधिकरण्यमपि निराकृतमेव। एकाधिकरणत्वेन सदसदादिधर्माणामुपलब्धे:। ननु येन रूपेण सत्त्वं तेन सत्त्वासत्त्वयोरनेकांतात्प्रसंग: संकर इति चेन्न। अर्पणाभेदात्। स्वरूपाद्यर्पणया सत्त्वस्यैव पररूपाद्यर्पणया चासत्त्वस्यैव ाfवधानात्। प्रमाणार्पणयैवोभयात्मकत्वप्रतिपादनात्। एतेन व्यतिरेकोऽप्यनेकांते निरस्त:। स्वद्रव्यादिविवक्षयाऽ-सत्त्वस्याप्रतिपादनात्।। स्यान्मतं-सत्त्वासत्त्वयोर्वस्तुनो भेदाभेदात्मकत्वात्तयोरपि ततोऽपर-भेदात्मकत्व१-कल्पनायामनवस्थाप्रसंगादिति। तदेतदविचारितवचनं। द्रव्यार्थिकनयविवक्षया हि वस्त्वभेदात्मकं प्रतिपाद्यते। अभेदश्च द्रव्यमेव, न च तस्यापरं द्रव्यांतरं रूपमस्ति। पर्यायार्थिकनयविवक्षया तु भेदात्मकं। भेदश्च पर्याय एव, न चास्यान्यत्पर्यायांतरं रूपं येनानवस्था स्यात् आदेशवशात्। प्रतिनियतधर्मव्यवस्थानात्। प्रमाणविवक्षया हि वस्त्वनेकांतात्मकं तत्रानवस्थानस्याप्यदोषत्वात्। मूलक्षतेरभावात्। व्यवहारोपयोगि स्वरूपं हि मूलमुच्यते। तच्च द्रव्यं पर्यायस्तदात्मकं वस्तु वा तत्तन्नयप्रमाणप्राधान्यात्सिद्धं व्यवहाराय कल्पते इति। वस्तुन्यनंतधर्माणां व्यवहारानुपयोगात् यतस्तदनवस्था दोषाय स्यात्। ज्ञातृशक्तिवैकल्याच्चानवस्थानं वस्तुधर्माणां तत्साकल्यं तु कस्यचित्सर्वं सुस्थितमेव सकलप्रमाणप्रमेयप्रञ्चव्यापित्वात्तज्ज्ञानस्य। तन्नानवस्थादोषोऽनेकांते संभवति। ननु वस्तुन्यनेकांतात्मनि इदमित्थमिति निर्णयाभावात् संशय: स्याद्यतस्तत्सत्त्वसिद्धिरिति चेन्न। नयार्पणायां सदेव सर्वं स्वरूपादिचतुष्टयापेक्षया। असदेव सर्वं पररूपादिचतुष्टयापेक्षयेति निर्णयसद्भावात्। असदारोपो हि संशयो नाम नायमनेकांतोऽसन् प्रमाणसिद्धत्वात्। यत उभयात्मकग्रहणं संशय: स्यात्तन्न वस्तुनो भाव: प्रकल्पेत निर्णीतस्य भावात्मकत्वात्। ततो विरोधादिदोषरहितमनेकांतात्मकमेकाशीतिविकल्पं वस्तु स्थित्युत्पादव्ययात्मकत्वादवगंतव्यं। भूतभवद्भाविकालभेदात्प्रत्येकं स्थित्यादीनां त्रिविधत्वेन नव भेदा:। तथाहि स्थितं तिष्ठति स्थास्यति। उत्पन्नं उत्पद्यते उत्पत्स्यते। नष्टं नश्यति नंक्ष्यतीति। तत्परिणामानां स्थितत्वादीनां नवानामपि प्रत्येकं स्थितादिनवप्रकारसम्भवादेकाशीतिविकल्पोपपत्ते:। तदेवं सुस्थितो बहिरन्तश्च प्रमाणार्थो द्रव्यपर्यायात्मेति।।
अकलंकप्रभाव्यक्तं प्रमेयमखिलं पुन:।
पश्यंति मादृशा: किं न प्रबुद्धा: शुद्धदृष्टय:।।१।।
इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषण-
संज्ञायां प्रमाणविषयपरिच्छेदो द्वितीय:।।२।।