धर्ममहिंसारूपं संशृण्वन्तोपि ये परित्यक्तुम् ।
स्थावरहिंसामसहास्त्रसहिंसां तेऽपि मुञ्चन्तु।।
अष्टावनिष्टदुस्तरदुरितायतनान्यमूनि परिवर्ज्य।
जिनधर्मदेशनाया भवन्ति पात्राणि शुद्धधियः।।
मद्यं मांसं क्षौद्रं पञ्चोदुम्बरफलानि यत्नेन।
हिंसाव्युपरतिकामैर्मोक्तव्यानि प्रथममेव।।
मद्यपलमधुनिशासन पंचफलीविरतिपंचकाप्तनुतिः।
जीवदयाजलगालनमिति च क्वचिदष्टमूलगुणाः।।
मद्य | पंच उदुम्बर फल, इनका त्याग |
मांस | जीव दया का पालन |
मधु | जल छानकर पीना |
रात्रि भोजन | पंच परमेष्ठी को नमस्कार करना |
मद्यमांसमधुत्यागैः सहाणुव्रतपंचकम्।
अष्टौ मूलगुणानाहुर्गृहिणां श्रमणोत्तमाः।।
पञ्चाणुव्रतनिधयो, निरतिक्रमणाः फलन्ति सुरलोकम्।
यत्रावधिरष्टगुणा, दिव्यशरीरं च लभ्यन्ते।।