‘‘स्यात् सिद्धश्रुतचारित्रशांतिभक्त्यष्टमी क्रिया।अर्थात् प्रत्येक मास की दोनों अष्टमी तिथि के दिन जैन साधु-साध्वियां ’’ सिद्धभक्ति, श्रुतभक्ति, सालोचना चारित्रभक्ति और शांतिभक्ति ऐसी चार भक्तियां करें, ऐसा मूलाचारादि संहिताग्रन्थों में कहा है । उसकी विधि इस प्रकार है- नमोऽस्तु अष्टमीपर्वक्रियायां…..सिद्धभक्तिकायोत्सर्गं करोम्यहं। (पंचांग नमस्कार करके तीन आवर्त एक शिरोनति करके सामायिक दण्डक पढ़कर पुनः तीन आवर्त एक शिरोनति करें। अनन्तर २७ उच्छ्वास में ९ बार मंत्र जपकर तीन आवर्त एक शिरोनति करके थोस्सामि स्तव पढ़कर पुनरपि तीन आवर्त एक शिरोनति करके सिद्ध-भक्ति पढ़ें।)
सिद्धानुद्धूतकर्मप्रकृतिसमुदयान्साधितात्मस्वभावान् ।
वंदे सिद्धिप्रसिद्ध्यै तदनुपमगुणप्रग्रहाकृष्टितुष्टः।।
सिद्धिः स्वात्मोपलब्धिः प्रगुणगुणगणोच्छादिदोषापहारात्।
योग्योपादानयुक्त्या दृषद इह यथा हेमभावोपलब्धिः।।१।।
नाभावः सिद्धिरिष्टा न निजगुणहतिस्तत्तपोभिर्नयुत्ते-
रस्त्यात्मानादिबद्धः स्वकृतजफलभुक् तत्क्षयान्मोक्षभागी।।
ज्ञाता द्रष्टा स्वदेहप्रमितिरुपसमाहारविस्तारधर्मा।
ध्रौव्योत्पत्तिव्ययात्मा स्वगुणयुत इतो नान्यथा साध्यसिद्धिः।।२।।
स त्वन्तर्बाह्यहेतुप्रभवविमलसद्दर्शनज्ञानचर्या-
सम्पद्धेतिप्रघातक्षतदुरिततया व्यञ्जिताचिन्त्यसारैः।।
कैवल्यज्ञानदृष्टिप्रवरसुखमहावीर्य-सम्यक्त्वलब्धि-
ज्योतिर्वातायनादिस्थिरपरमगुणैरद्भुतैर्भासमानः ।।३।।
जानन्पश्यन्समस्तं सममनुपरतं संप्रतृप्यन्वितन्वन्,
धुन्वन्ध्वान्तं नितान्तं निचितमनुसभं प्रीणयन्नीशभावम्।
कुर्वन्सर्वप्रजानामपरमभिभवन् ज्योतिरात्मानमात्मा।।
आत्मन्येवात्मनासौ क्षणमुपजनयन्सत्स्वयंभू प्रवृत्तः।।४।।
छिन्दन्शेषानशेषान्निगलबलकलींस्तैरनन्तस्वभावैः
सूक्ष्मत्वाग्र्यावगाहागुरुलघुकगुणैः क्षायिवै शोभमानः।
अन्यैश्चान्यव्यपोहप्रवणविषयसंप्राप्तिलब्धिप्रभावै-
रूध्र्वंव्रज्यास्वभावात्समयमुपगतो धाम्नि संतिष्ठतेग्र्ये।।५।।
अन्याकाराप्तिहेतुर्न च भवति परो येन तेनाल्पहीनः
प्रागात्मोपात्तदेहप्रतिकृतिरुचिराकार एव ह्यमूर्तः१।
क्षुत्तृष्णाश्वासकासज्वरमरणजरानिष्टयोगप्रमोह –
व्यापत्त्याद्युग्रदुःखप्रभवभवहतेः कोऽस्य सौख्यस्य माता।।६।।
आत्मोपादानसिद्धं स्वयमतिशयवद्वीतबाधं विशालं।
वृद्धिह्रासव्यपेतं विषयविरहितं निष्प्रतिद्वन्द्वभावम् ।
अन्यद्रव्यानपेक्षं निरुपमममितं शाश्वतं सर्वकालं।
उत्कृष्टानन्तसारं परमसुखमतस्तस्य सिद्धस्य जातम् ।।७।।
नार्थः
क्षुत्तृट्विनाशाद्विविधरसयुतैरन्नपानैरशुच्या- नास्पृष्टेर्गन्धमाल्यैर्नहि मृदुशयनैग्र्लानिनिद्राद्यभावात् ।
आतंकार्तेरभावे तदुपशमनसद्भेषजानर्थतावद् दीपानर्थक्यवद्वा व्यपगततिमिरे दृश्यमाने समस्ते।।८।।
तादृक्सम्पत्समेता विविधनयतपः संयमज्ञानदृष्टि- चर्यासिद्धाः समन्तात्प्रविततयशसो विश्वदेवाधिदेवाः।
भूता भव्या भवन्तः सकलजगति ये स्तूयमाना विशिष्टैः तान्सर्वान्नौम्यनंतान्निजिगमिषुररं तत्स्वरूपं त्रिसन्ध्यम् ।।९।।
क्षेपक श्लोक-आर्या- कृत्वा कायोत्सर्गं, चतुरष्टदोषविरहितं सुपरिशुद्धम् ।
अतिभक्ति-संप्रयुक्तो, यो वंदते स लघु लभते परमसुखम्।।
अंचलिका
इच्छामि भंत्ते! सिद्धभत्तिकाउस्सग्गो कओ तस्सालोचेउं सम्मणाण-सम्मदंसण-सम्मचारित्तजुत्ताणं अट्ठविहकम्मविप्पमुक्काणं अट्ठगुणसंपण्णाणं उढ्ढलोयमत्थयम्मि पयट्ठियाणं तवसिद्धाणं-णयसिद्धाणं संजमसिद्धाणं-चरित्तसिद्धाणं अतीताणागदवट्टमाण-कालत्तयसिद्धाणं सव्वसिद्धाणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं। नमोऽस्तु अष्टमीपर्वक्रियायां…….श्रुतभक्तिकायोत्सर्गं करोम्यहं। (पूर्वोक्त सामायिक दण्डक ९ जाप्य, थोस्सामिस्तव पढ़कर श्रुतभक्ति पढ़ें।)
आर्या छंद स्तोष्ये संज्ञानानि, परोक्षप्रत्यक्षभेदभिन्नानि। लोकालोकविलोकनलोलितसल्लोकलोचनानि सदा।।१।।
अभिमुखनियमितबोधनमाभिनिबोधिकमिंनद्रियेंद्रियजं। बह्वाद्यवग्र्हादिककृतषट्त्रिंशत्त्रिशतभेदम् ।।२।।
विविधद्र्धिबुद्धिकोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं। संभिन्नश्रोतृतया सार्धं श्रुतभाजनं वंदे।।३।।
श्रुतमपि जिनवरविहितं, गणधररचितं द्व्यनेकभेदस्थम्। अंगांगबाह्यभावितमनंतविषयं नमस्यामि ।।४।।
पर्यायाक्षरपदसंघातप्रतिपत्तिकानुयोगविधीन् । प्राभृतकप्राभृतकं, प्राभृतकं वस्तु पूर्वं च।।५।।
तेषां समासतोऽपि च, विंशतिभेदान् समश्नुवानं तत्। वंदे द्वादशधोत्तंâ, गभीरवर – शास्त्रपद्धत्या।।६।।
आचारं सूत्रकृतं, स्थानं समवायनामधेयं । व्याख्याप्रज्ञिंप्त च, ज्ञातृकथोपासकाध्ययने।।७।।
वंदेंऽतकृद्दशमनुत्तरोपपादिकदशं दशावस्थम् । प्रश्नव्याकरणं हि, विपाकसूत्रं च विनमामि।।८।।
परिकर्म च सूत्रं च, स्तौमि प्रथमानुयोगपूर्वगते। साद्र्धं चूलिकयापि च, पंचविधं दृष्टिवादं च।।९।।
पूर्वगतं तु चतुर्दश-धोदितमुत्पादपूर्वमाद्यमहम् । आग्रायणीयमीडे, पुरुवीर्यानुप्रवादं च ।।१०।।
संततमहमभिवंदे, तथास्तिनास्तिप्रवादपूर्वं च। ज्ञानप्रवादसत्यप्रवादमात्मप्रवादं च ।।११।।
कर्मप्रवादमीडेऽथ, प्रत्याख्याननामधेयं च। दशमं विद्याधारं पृथुविद्यानुप्रवादं च ।।१२।।
कल्याणनामधेयं, प्राणावायं क्रियाविशालं च। अथ लोकविंदुसारं, वंदे लोकाग्रसारपदं।।१३।।
दश च चतुर्दश चाष्टा-वष्टादश च द्वर्योिद्वषट्कं च। षोडश च विंशतिं च, त्रिंशतमपि पंचदश च तथा।।१४।।
वस्तूनि दश दशान्येष्वनुपूर्वं भाषितानि पूर्वाणाम्। प्रतिवस्तु प्राभृतकानि, विंशतिं विंशतिं नौमि।।१५।।
पूर्वांतं ह्यपरातं धु्रवमधु्रवच्यवनलब्धिनामानि। अधु्रवसंप्रणिधिं चाप्यर्थं भौमावयाद्यं च।।१६।।
सर्वार्थकल्पनीयं, ज्ञानमतीतं त्वनागतं कालं। सिद्धिमुपाध्यं च तथा, चतुर्दशवस्तूनि द्वितीयस्य।।१७।।
पंचमवस्तुचतुर्थ – प्राभृतकस्यानुयोगनामानि। कृतिवेदने तथैव, स्पर्शनकर्मप्रकृतिमेव।।१८।।
बंधननिबंधनप्रक्रमानुपक्रममथाभ्युदयमोक्षौ । संक्रमलेश्ये च तथा, लेश्यायाः कर्मपरिणामौ।।१९।।
सातमसातं दीर्घं, ह्रस्वं भवधारणीयसंज्ञं च। पुरुपुद्गलात्मनाम च, निधत्तमनिधत्तमभिनौमि।।२०।।
सनिकाचितमनिकाचितमथ कर्मस्थितिकपश्चिमश्वकंधौ। अल्पबहुत्वं च यजे, तद्द्वाराणां चतुर्विंशम् ।।२१।।
कोटीनां द्वादशशत-मष्टापंचाशतं सहस्राणाम् । लक्षत्र्यशीतिमेव च, पंच च वंदे श्रुतपदानि।।२२।।
षोडशशतं चतुिंस्त्रशत्कोटीनां त्र्यशीतिलक्षाणि। शतसंख्याष्टासप्तति-मष्टाशीतिं च पदवर्णान् ।।२३।।
सामायिकं चतुर्विंशति-स्तवं वंदना प्रतिक्रमणं। वैनयिकं कृतिकर्म च, पृथुदशवैकालिकं च तथा।।२४।।
वरमुत्तराध्ययनमपि, कल्पव्यवहारमेवमभिवन्दे। कल्पाकल्पं स्तौमि, महाकल्पं पुण्डरीकं च ।।२५।।
परिपाट्या प्रणिपतितोऽस्म्यहं महापुण्डरीकनामैव। निपुणान्यशीतिकं च, प्रकीर्णकान्यङ्गबाह्यानि।।२६।।
पुद्गलमर्यादोत्तं, प्रत्यक्षं सप्रभेदमवधिं च। देशावधिपरमावधि-सर्वावधिभेदमभिवन्दे ।।२७।।
परमनसि स्थितमर्थं, मनसा परिविद्य मंत्रिमहितगुणम्। ऋजुविपुलमतिविकल्पं, स्तौमि मनःपर्ययज्ञानम् ।।२८।।
क्षायिकमनन्तमेकं, त्रिकालसर्वार्थयुगपदवभासम् । सकलसुखधाम सततं, वन्देऽहं केवलज्ञानम् ।।२९।।
एवमभिष्टुवतो मे, ज्ञानानि समस्तलोकचक्षूंषि। लघु भवताज्ज्ञानद्र्धि, ज्र्ञानफलं सौख्यमच्यवनम् ।।३०।।
अंचलिका इच्छामि भंते! सुदभत्तिकाउस्सग्गो कओ तस्सालोचेउं अंगोवंगपइण्णए पाहुडयपरियम्मसुत्तपढमाणुओगपुव्वगयचूलिया चेव१ सुत्तत्थयथुइधम्मकहाइयं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं। नमोऽस्तु अष्टमीपर्वक्रियायां……सालोचनाचारित्रभक्तिकायोत्सर्गं करोम्यहं। (पूर्वोक्त विधि से सामायिक दण्डक, ९ जाप्य और थोस्सामिस्तव पढ़कर चारित्रभक्ति पढ़ें पुनः ‘इच्छामि भंत्ते! अट्ठमियम्मि……’ आदि पाठ पढ़ें।)
येनेन्द्रान्भुवनत्रयस्य विलसत्केयूरहारांगदान्।
भास्वन्मौलिमणिप्रभाप्रविसरोत्तुङ्गोत्तमाङ्गान्नतान् ।।
स्वेषां पादपयोरुहेषु मुनयश्चक्रू प्रकामं सदा।
वंदे पंचतयं तमद्य निगदन्नाचारमभ्यर्चितम् ।।१।।
अर्थव्यंजनतद्द्वयाविकलताकालोपधाप्रश्रयाः।
स्वाचार्याद्यनपन्हवो बहुमतिश्चेत्यष्टधा व्याहृतम्।।
श्रीमज्ज्ञातिकुलेन्दुना भगवता तीर्थस्य कत्र्रांऽजसा।
ज्ञानाचारमहं त्रिधा प्रणिपताम्युद्धूतये कर्मणाम् ।।२।।
शंकादृष्टिविमोहकांक्षणविधिव्यावृत्तिसन्नद्धतां।
वात्सल्यं विचिकित्सनादुपरतिं धर्मोपबृंहक्रियाम् ।।
शक्त्या शासनदीपनं हितपथाद्भ्रष्टस्य संस्थापनम् ।
वंदे दर्शनगोचरं सुचरितं मूध्र्ना नमन्नादरात् ।।३।।
एकान्ते शयनोपवेशनकृतिः संतापनं तानवम् ।
संख्यावृत्तिनिबन्धनामनशनं विष्वाणमद्र्धोदरम् ।।
त्यागं चेन्द्रियदन्तिनो मदयतः स्वादो रसस्यानिशम्।
षोढा बाह्यमहं स्तुवे शिवगतिप्राप्त्यभ्युपायं तपः।।४।।
स्वाध्याय: शुभकर्मणश्चयुतवतः संप्रत्यवस्थापनम् ।
ध्यानं व्यापृतिरामयाविनि गुरौ वृद्धे च बाले यतौ।।
कायोत्सर्जनसत्क्रिया विनय इत्येवं तपः षड्विधं।
वंदेऽभ्यंतरमन्तरंगबलवद्विद्वेषिविध्वंसनम् ।।५।।
सम्यग्ज्ञानविलोचनस्य दधतः श्रद्धानमर्हन्मते।
वीर्यस्याविनिगूहनेन तपसि स्वस्य प्रयत्नाद्यतेः।।
या वृत्तिस्तरणीव नौरविवरा लघ्वी भवोदन्वतो।
वीर्याचारमहं तमूर्जितगुणं वंदे सतामर्चितम् ।।६।।
तिस्रः सत्तमगुप्तयस्तनुमनोभाषानिमित्तोदयाः।
पंचेर्यादिसमाश्रयाः समितयः पंचव्रतानीत्यपि।।
चारित्रोपहितं त्रयोदशतयं पूर्वं न दृष्टं परै-
राचारं परमेष्ठिनो जिनपतेर्वीरं नमामो वयम् ।।७।।
आचारं सहपंचभेदमुदितं तीर्थं परं मंगलं।
निर्ग्रन्थानपि सच्चरित्रमहतो वंदे समग्रान्यतीन् ।।
आत्माधीनसुखोदयामनुपमां लक्ष्मीमविध्वंसिनी-
मिच्छन्केवलदर्शनावगमनप्राज्यप्रकाशोज्वलाम् ।।८।।
अज्ञानाद्यदवीवृतं नियमिनोऽवर्तिष्यहं चान्यथा।
तस्मिन्नर्जितमस्यति प्रतिनवं चैनो निराकुर्वति।।
वृत्ते सप्ततयीं निधिं सुतपसामृद्धिं नयत्यद्भुतं।
तन्मिथ्या गुरु दुष्कृतं भवतु मे स्वं निंदतो निंदितम्।।९।।
संसारव्यसनाहतिप्रचलिता नित्योदयप्रार्थिनः।
प्रत्यासन्नविमुक्तयः सुुमतयः शांतैनसः प्राणिनः।।
मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चैस्तरा-
मारोहन्तु चारित्रमुत्तममिदं जैनेन्द्रमोजस्विनः।।१०।।
इच्छामि भन्ते! चारित्तभत्तिकाउस्सग्गो कओ तस्सालोचेउं। सम्मण्णाणुज्जोयस्स सम्मत्ताहिट्ठिस्स सव्वपहाणस्स णिव्वाणमग्गस्स कम्मणिज्जरफलस्स खमाहारस्स पंचमहव्वयसंपुण्णस्स तिगुत्तिगुत्तस्स पंचसमिदिजुत्तस्स णाणज्झाण-साहणस्स समयाइवपवेसयस्स सम्मचारित्तस्स, णिच्चकालं अंचेमि पूजेमि वन्दामि णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं जिणगुणसंपत्ति होउ मज्झं। चारित्रालोचना-इच्छामि भंते! अट्ठमियम्मि आलोचेउं अट्ठण्हं दिवसाणं अट्ठण्हं राईणं अब्भंतरादो पंचविहो आयारो णाणायारो दंसणायारो तवायारो वीरियायारो चरित्तायारो चेदि। तत्थ णाणायारो, काले, विणए, उवहाणे, बहुमाणे, तहेव अणिण्हवणे, विंजण-अत्थ-तदुभये चेदि णाणायारो अट्ठविहो परिहाविदो, से अक्खरहीणं वा, सरहीणं वा, पदहीणं वा, विंजणहीणं वा, अत्थहीणं वा, गंथहीणं वा, थएसु वा, थुईसु वा, अत्थक्खाणेसु वा, अणियोगेसु वा, अणियोगद्दारेसु वा, अकाले सज्झाओ कओ वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो, काले वा परिहाविदो अच्छाकारिदं, मिच्छा मेलिदं, आमेलिदं, वामेलिदं, अण्णहादिण्णं, अण्णहा पडिच्छिदं, आवासएसु परिहीणदाए, तस्स मिच्छा मे दुक्कडं।।१।।
दंसणायारो अट्ठविहो, णिस्संकिय णिक्कंखिय णिव्विदिगिंछा१ अमूढदिट्ठी य, उवगूहण ठिदिकरणं वच्छल्ल२ पहावणा चेदि। अट्ठविहो परिहाविदो, संकाए कंखाए विदिगिंछाए३ अण्णदिट्ठीपसंसणदाए परपाखण्ड-पसंसणदाए अणायदणसेवणदाए अवच्छल्लदाए अप्पहावणदाए, तस्स मिच्छा मे दुक्कडं।।२।।
तवायारो वारसविहो, अब्भंतरो छव्विहो बाहिरो छव्विहो चेदि तत्थ बाहिरो अणसणं आमोदरियं४ वित्तिपरिसंखा रसपरिच्चाओ सरीरपरिच्चाओ विवित्त-सयणासणं चेदि। तत्थ अब्भंतरो पायच्छित्तं विणओ वेज्जावच्चं सज्झाओ झाणं विउस्सग्गो चेदि। अब्भंतरं बाहिरं बारसविहं तवोकम्मं ण कदं णिसण्णेण, पडिक्कंतं, तस्स मिच्छा मे दुक्कडंं।।३।।
वीरियायारो पंचविहो परिहाविदो वरवीरियपरिक्कमेण जहुत्तमाणेण बलेण वीरिएण परिक्कमेण१ णिगूहियं तवोकम्मं ण कदं णिसण्णेण पडिक्कंतं तस्स मिच्छा मे दुक्कडं।।४।।
चरित्तायारो तेरसविहो परिहाविदो, पंचमहव्वयाणि, पंच समिदीओ, तिगुत्तीओ चेदि। तत्थ पढमं महव्वदं पाणादिवादादो वेरमणं। से पुढविकाइया जीवा असंखेज्जासंखेज्जा, आउकाइया जीवा असंखेज्जासंखेज्जा, तेउकाइया जीवा असंखेज्जासंखेज्जा, वाउकाइया जीवा असंखेज्जासंखेज्जा, वणप्फ-दिकाइया जीवा अणंताणंता, हरिया बीया अंकुरा छिण्णा भिण्णा, तस्स उद्दावणं परिदावणं विराहणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं। बेइंदिया जीवा असंखेज्जासंखेज्जा, कुक्खिकिमिशंख-खुल्लय-वराडय-अक्ख१-रिट्ठ-गंडवाल-संबुक्क२-सिप्पि-पुलविकाइया३ (पुलविआइया) तेसिं उद्दावणं परिदावणं विराहणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं। तेइंदिया जीवा असंखेज्जासंखेज्जा, कुंथुद्देहियविंछिय-गोभिंद-गोजूव-मक्कुण-पिपीलियाइया, तेसिं उद्दावणं परिदावणं विराहणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं। चउरिंदिया जीवा असंखेज्जासंखेज्जा, दंसमंसय (मसय)-मक्खिय-पयंग-कीड-भमर-महुयरि-गोमक्खि-याइया, तेसिं उद्दावणं परिदावणं विराहणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं। पंचिदिया जीवा असंखेज्जासंखेजा, अंडाइया पोदाइया जराइया रसाइया संसेदिमा सम्मुच्छिमा उब्भेदिमा उववादिमा अवि चउरासीदिजोणि-पमुह-सदसहस्सेसु, एदेिंस उद्दावणं परिदावणं विराहणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।१।।
अहावरे१ दुव्वे२ महव्वदे मुसावादादो वेरमणं, से कोहेण वा माणेण वा माएण वा लोहेण वा राएण वा दोसेण वा मोहेण वा हस्सेण वा भएण वा (पदोसेण वा) पमादेण वा पेम्मेण वा पिवासेण वा लज्जेण वा गारवेण वा अणादरेण वा केणवि कारणेण जादेण वा सव्वो मुुसावादो भासिओ भासाविओ भासिज्जंतो वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।२।।
अहावरे तव्वे३ महव्वदे अदिण्णादाणादो वेरमणं, से गामे वा णयरे वा खेडे वा कव्वडे वा मंडबे वा मंडले वा पट्टणे वा दोणमुहे वा घोसे वा आसमे वा सहाए वा संवाहे वा सण्णिवेसे वा तिणं१ वा कट्ठं वा वियडिं वा मणिं वा एवमाइयं अदत्तं गिण्हियं२ गेण्हावियं गेण्हिज्जंतं समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।३।।
अहावरे चउत्थे महव्वदे मेहुणादो वेरमणं, से दिेविएसु वा माणुसिएसु वा तेरिच्छिएसु३ वा अचेयणिएसु वा मणुणामणुणेसु४ रूवेसु मणुणामणुणेसु सद्देसु मणुणामणुणेसु गंधेसु मणुणामणुणेसु रसेसु मणुणामणुणेसु फासेसु चकिंखदियपरिणामे सोदिंदियपरिणामे घाणिंदियपरिणामे जिब्भिंदिय-परिणामे फासिंदियपरिणामे णोइंदियपरिणामे अगुत्तेण अगुत्तिंदिएण णवविहं बंभचरियं५ ण रक्खियं ण रक्खावियं ण रक्खिज्जंतो वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।४।।
अहावरे पंचमे महव्वदे परिग्गहादो वेरमणं, सो वि परिग्गहो दुविहो, अब्भंतरो बाहिरो चेदि तत्थ अब्भंतरो परिग्गहो णाणावरणीयं दंसणावरणीयं वेयणीयं मोहणीयं आउग्गं णामं गोदं अंतरायं चेदि अट्ठविहो, तत्थ बाहिरो परिग्गहो उवयरणभंड-फलह-पीढ-कमंडलु-संथार-सेज्ज-उवसेज्ज-भत्त-पाणादिभेएण अणेयविहो, एदेण परिग्गहेण अट्ठविहं कम्मरयं बद्धं बद्धावियं बद्धज्जंतं पि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।५।।
अहावरे छट्ठे अणुव्वदे राइभोयणादो वेरमणं, से असणं पाणं खाइयं साइयं चेदि चउव्विहो आहारो, से तित्तो वा कडुओ वा कसाइलो वा अमिलो१ वा महुरो वा लवणो वा दुिंच्चतिओ दुब्भासिओ दुप्परिणामिओ दुस्सिमिणिओ रत्तीए भुत्तो भुंजवियो भुज्जिज्जंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।छ।। पंचसमिदीओ ईरियासमिदी भासासमिदी एसणासमिदी आदाण-णिक्खेवणसमिदी उच्चार-पस्सवण-खेल-सिंहाणय-वियडि-पइट्ठावणासमिदी चेदि। तत्थ ईरियासमिदी पुव्वुत्तर-दक्खिण-पच्छिम-चउदिसि-विदिसासु विहर-माणेण जुगंतर-दिट्ठिणा भव्वेण दट्ठव्वा डवडव-चरियाए पमाददोसेण पाण-भूद-जीव-सत्ताणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।६।।
तत्थ भासासमिदी कक्कसा कडुया (कडुआ) परुसा णिट्ठुरा परकोहिणी१ मज्झंकिसा२ अइमाणिणी अणयंकरा छेयंकरा३ भूयाण वहंकरा४ चेदि दसविहा भासा भासिया भासाविया भासिज्जंतो पि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।७।।
तत्थ एसणासमिदी आहाकम्मेण वा पच्छाकम्मेण वा पुराकम्मेण वा उद्दिट्ठयडेण वा णिद्दिट्ठयडेण वा कीडयडेण वा साइया रसाइया सइंगाला सधूमिया अइगिद्धीए अग्गिव छण्हं जीवणिकायाणं विराहणं काऊण अपरिसुद्धं१ भिक्खं अण्णं पाणं आहारादियं आहारियं आहारावियं आहारिज्जंतं पि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।८।।
तत्थ आदाणणिक्खेवणसमिदी चक्कलं वा फलहं वा पोथयं वा कमंडलुं वा वियडिं वा मणिं वा एवमाइयं उवयरणं अप्पडिलेहिऊण गेण्हंतेण वा ठवंतेण वा पाणभूद-जीवसत्ताणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।९।।
तत्थ उच्चार-पस्सवण-खेल-सिंहाणय-वियडि-पइट्ठावणिया समिदी रत्तीए वा वियाले वा अचक्खुविसए अवत्थंडिले अब्भोवयासे२ सणिद्धे सबीए सहरिए एवमाइऐसु अप्पासुगट्ठाणेसु पइट्ठावंतेण पाणभूद-जीवसत्ताणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।१०।।
तिण्णि गुत्तीओ, मणगुत्तीओ वचिगुत्तीओ कायगुत्तीओ१ चेदि, तत्थ मणगुत्ती अट्टे झाणे रुद्दे झाणे इहलोयसण्णाए परलोयसण्णाए आहारसण्णाए भयसण्णाए मेहुणसण्णाए परिग्गहसण्णाए एवमाइयासु जा मणगुत्ती ण रक्खिया ण रक्खाविया व रक्खिज्जंतं पि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।११।।
तत्थ वचिगुत्ती इत्थिकहाए अत्थकहाए भत्तकहाए रायकहाए चोरकहाए वेरकहाए परपासंडकहाए एवमाइयासु जा वचिगुत्ती ण रक्खिया ण रक्खाविया ण रक्खिज्जंतं पि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।१२।।
तत्थ कायगुत्ती चित्तकम्मेसु वा पोत्तकम्मेसु वा कट्ठकम्मेसु वा लेप्पकम्मेसु वा एवमाइयासु जा कायगुत्ती ण रक्खिया ण रक्खाविया ण रक्खिज्जंतं पि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।।१३।।
णव बंभचेरगुत्तीसु, चउसु सण्णासु, चउसु पच्चएसु, दोसु, अट्टरुद्द-संकिलेस-परिणामेसु, तीसु अप्पसत्त्थ-संकिलेस-परिणामेसु, मिच्छाणाण१-मिच्छादंसण-मिच्छाचरित्तेसु, चउसु उवसग्गेसु, पंचसु चरित्तेसु, छसु जीवणिकाएसु, छसु आवासएसु, सत्तसु भएसु, अट्ठसु सुद्धीसु, दससु समणधम्मेसु, दससु धम्मज्झाणेसु, दससु मुंडेसु, बारसेसु संजमेसु, बावीसाए परीसहेसु, पणवीसाए भावणासु, पणवीसाए किरियासु, अट्ठारस-सीलसहस्सेसु,चउरासीदिगुण-सयसहस्सेसु, मूलगुणेसु, उत्तरगुणेसु, अट्ठमियम्मि अइक्कमो वदिक्कम्मो अइचारो अणाचारो आभोगो अणाभोगो जो तं पडिक्कमामि मए पडिक्कंतं, तस्स मे सम्मत्तमरणं समाहिमरणं पंडियमरणं वीरियमरणं दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसम्पत्ती होउ मज्झं। नमोऽस्तु अष्टमीपर्वक्रियायां……शांतिभक्ति कायोत्सर्गं करोम्यहं। (पूर्ववत् कृतिकर्मपूर्वक ९जाप्य करके शांतिभक्ति पढ़ें।)
न स्नेहाच्छरणं प्रयान्ति भगवन् ! पादद्वयं ते प्रजाः। हेतुस्तत्र विचित्रदुःखनिचयः, संसारघोरार्णवः।। अत्यन्तस्फुरदुग्ररश्मिनिकर-व्याकीर्णभूमण्डलो। ग्रैैष्मः कारयतीन्दुपादसलिल-च्छायानुरागं रविः।।१।। कुंद्धाशीर्विषदष्टदुर्जयविषज्वालावलीविक्रमो। विद्याभेषजमन्त्रतोयहवनैर्याति प्रशांतिं यथा।। तद्वत्ते चरणारुणांबुजयुग-स्तोत्रोन्मुखानां नृणाम्। विघ्नाः कायविनायकाश्च सहसा, शाम्यन्त्यहो! विस्मयः।।२।। संतप्तोत्तमकांचनक्षितिधरश्रीस्पद्र्धिगौरद्युते। पुंसां त्वच्चरणप्रणामकरणात्, पीडाः प्रयान्ति क्षयं।। उद्यद्भास्करविस्फुरत्करशतव्याघातनिष्कासिता। नानादेहिविलोचनद्युतिहरा, शीघ्रं यथा शर्वरी।।३।। त्रैलोक्येश्वरभंगलब्धविजयादत्यन्तरौद्रात्मकान् । नानाजन्मशतान्तरेषु पुरतो, जीवस्य संसारिणः।। को वा प्रस्खलतीह केन विधिना, कालोग्रदावानला- न्नस्याच्चेत्तव पादपद्मयुगलस्तुत्यापगावारणम्।।४।।
लोकालोकनिरन्तरप्रविततज्ञानैकमूर्ते! विभो!। नानारत्नपिनद्धदंडरुचिरश्वेतातपत्रत्रय! ।। त्वत्पादद्वयपूतगीतरवतः शीघ्रं द्रवन्त्यामयाः। दर्पाध्मातमृगेन्द्रभीमनिनदाद्वन्या यथा कुञ्जराः।।५।।
दिव्यस्त्रीनयनाभिराम! विपुलश्रीमेरुचूडामणे! भास्वद्बालदिवाकरद्युतिहरप्राणीष्टभामंडल!।। अव्याबाधमचिन्त्यसारमतुलं, त्यक्तोपमं शाश्वतं। सौख्यं त्वच्चरणारविंदयुगलस्तुत्यैव संप्राप्यते।।६।।
यावन्नोदयते प्रभापरिकरः, श्रीभास्करो भासयं- स्तावद्-धारयतीह पंकजवनं, निद्रातिभारश्रमम् ।। यावत्त्वच्चरणद्वयस्य भगवन्न स्यात्प्रसादोदय- स्तावज्जीवनिकाय एष वहति प्रायेण पापं महत्।।७।।
शांतिं शान्तिजिनेन्द्र! शांतमनसस्त्वत्पादपद्माश्रयात्। संप्राप्ताः पृथिवीतलेषु बहवः शांत्यर्थिनः प्राणिनः।। कारुण्यान्मम भाक्तिकस्य च विभो! दृष्टिं प्रसन्नां कुरु। त्वत्पादद्वयदैवतस्य गदतः शांत्यष्टकं भक्तितः।।८।।
शांतिजिनं शशिनिर्मलवक्त्रं, शीलगुणव्रतसंयमपात्रम्। अष्टशतार्चितलक्षणगात्रं, नौमि जिनोत्तममम्बुजनेत्रम्।।९।।
पंचममीप्सितचक्रधराणां, पूजितमिंद्र-नरेन्द्रगणैश्च। शांतिकरं गणशांतिमभीप्सुः षोडशतीर्थकरं प्रणमामि।।१०।।
दिव्यतरुः सुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ। आतपवारणचामरयुग्मे, यस्य विभाति च मंडलतेजः।।११।।
तं जगदर्चितशांतिजिनेन्द्रं, शांतिकरं शिरसा प्रणमामि। सर्वगणाय तु यच्छतु शांतिं, मह्यमरं पठते परमां च।।१२।।
येभ्यर्चिता मुकुटकुंडलहाररत्नैः। शक्रादिभिः सुरगणैः स्तुतपादपद्माः।। ते मे जिनाः प्रवरवंशजगत्प्रदीपाः। तीर्थंकराः सततशांतिकरा भवंतु।।१३।।
संपूजकानां प्रतिपालकानां, यतीन्द्रसामान्यतपोधनानां। देशस्य राष्ट्रस्य पुरस्य राज्ञः, करोतु शांतिं भगवान् जिनेन्द्रः।।१४।।
क्षेमं सर्वप्रजानां प्रभवतु बलवान्धार्मिको भूमिपालः। काले काले च सम्यग्वर्षतु मघवा व्याधयो यांतु नाशं।। दुर्भिक्षं चोरिमारी क्षणमपि जगतां मा स्म भूज्जीवलोके। जैनेन्द्रं धर्मचक्रं प्रभवतु सततं, सर्वसौख्यप्रदायि।।१५।।
क्षेपक श्लोकौ तद्द्रव्यमव्ययमुदेतु शुभः स देशः, संतन्यतां प्रतपतां सततं स कालः। भावः स नन्दतु सदा यदनुग्रहेण, रत्नत्रयं प्रतपतीह मुमुक्षवर्गे।।१६।।
प्रध्वस्तघातिकर्माणः, केवलज्ञानभास्कराः। कुर्वन्तु जगतां शांतिं, वृषभाद्या जिनेश्वराः।।१७।।
इच्छामि भंते! संतिभत्ति काउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाण-संपण्णाणं, अट्ठमहापाडिहेरसहियाणं, चउतीसाति-सयविशेषसंजुत्ताणं, बत्तीसदेवेंदमणिमयमउडमत्थयमहियाणं, बलदेववा-सुदेवचक्कहररिसिमुणिजइअणगारोवगूढाणं, थुइसयसहस्सणिलयाणं उसहाइवीरपच्छिममंगलमहापुरिसाणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिनगुणसंपत्ति होउ मज्झं। नमोऽस्तु अष्टमीपर्वक्रियायां…….सिद्ध-श्रुत-सालोचना-चारित्र-शांति-भक्तीः कृत्वा समाधिभक्तिकायोत्सर्गं करोम्यहं। (पूर्ववत् विधिपूर्वक कायोत्सर्ग करके समाधिभक्ति पढ़ें। कदाचित् समयाभाव में लघु समाधि भक्ति पढ़ लेवें।)
स्वात्माभिमुखसंवित्तिलक्षणं श्रुतचक्षुषा।
पश्यन्पश्यामि देव त्वां, केवलज्ञानचक्षुषा।।१।।
शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदार्यैः।
सद्वृत्तानां गुणगणकथा, दोषवादे च मौनम् ।।
सर्वस्यापि प्रियहितवचो, भावना चात्मतत्त्वे।
सम्पद्यंतां मम भवभवे, यावदेतेऽपवर्गः।।२।।
जैनमार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुतौ मतिः।
निष्कलंकविमलोक्तिभावनाः, सम्भवन्तु मम जन्मजन्मनि।।३।।
गुरुमूले यतिनिचिते, चैत्यसिद्धांतवार्धिसद्घोषे।
मम भवतु जन्मजन्मनि, सन्यसन समन्वितं मरणम्।।४।।
जन्मजन्मकृतं पापं, जन्मकोटिसमार्जितम् ।
जन्ममृत्युजरामूलं, हन्यते जिनवंदनात् ।।५।।
आबाल्याज्जिनदेवदेव! भवतः श्रीपादयोःसेवया।
सेवासक्तविनेयकल्पलतया कालोद्ययावद्गतः।।
त्वां तस्याः फलमर्थये, तदधुना प्राणप्रयाणक्षणे।
त्वन्नामप्रतिबद्धवर्णपठने, कंठोस्त्वकुंठो मम।।६।।
तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम् ।
तिष्ठतु जिनेन्द्र! तावद्यावन्निर्वाणसंप्राप्तिः।।७।।
एकापि समर्थेयं, जिनभक्तिदुर्गिंत निवारयितुम्।
पुण्यानि च पूरयितुं, दातुं मुक्तिश्रियं कृतिन:।।८।।
पंच अरिंजयणामे, पंचय मदिसायरे जिणे वंदे।
पंच जसोयरणामे, पंचय सीमंदरे वंदे१।।९।।
रयणत्तयं च वंदे, चउवीसजिणे च सव्वदा वंदे।
पंचगुरूणां वंदे, चारणचरणं सदा वंदे।।१०।।
अर्हमित्यक्षरब्रह्म – वाचकं परमेष्ठिनः।
सिद्धचक्रस्य सद्बीजं, सर्वतः प्रणिदध्महे।।११।।
कर्माष्टकविनिर्मुत्तं, मोक्षलक्ष्मीनिकेतनम्।
सम्यक्त्वादिगुणोपेतं, सिद्धचक्रं नमाम्यहम्।।१२।।
आकृष्टिं सुरसंपदां विदधते, मुक्तिश्रियो वश्यतां।
उच्चाटं विपदां चतुर्गतिभुवां, विद्वैषमात्मैनसाम्।।
स्तम्भं दुर्गमनं प्रति प्रयततो, मोहस्य सम्मोहनम्।
पायात्पंचनमस्क्रियाक्षरमयी, साराधना देवता।।१३।।
अनंतानन्तसंसार – संततिच्छेदकारणम् ।
जिनराजपदाम्भोज – स्मरणं शरणं मम।।१४।।
अन्यथा शरणं नास्ति, त्वमेव शरणं मम।
तस्मात्कारुण्यभावेन, रक्ष रक्ष जिनेश्वर!।।१५।।
नहि त्राता नहि त्राता, नहि त्राता जगत्त्रये।
वीतरागात्परो देवो, न भूतो न भविष्यति।।१६।।
जिने भक्ति-र्जिने भक्ति-र्जिने भक्ति-र्दिने दिने।
सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे।।१७।।
याचेऽहं याचेऽहं जिन! तव चरणारविन्दयोर्भक्तिम्।
याचेऽहं याचेऽहं पुनरपि तामेव तामेव।।१८।।
विघ्नौघाः प्रलयं यान्ति, शाकिनीभूतपन्नगाः।
विषो निर्विषतां याति, स्तूयमाने जिनेश्वरे।।१९।।
इच्छामि भंते! समाहिभत्तिकाउस्सग्गो कओ तस्सालोचेउं रयणत्तयसरूव-परमप्पज्झाणलक्खण समाहिभत्तीये णिच्चकालं, अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिनगुणसंपत्ति होउ मज्झं।