सिद्धगुण-स्तुति-निरता-नुद्धूतरुषाग्निजाल-बहुल-विशेषान्।
गुप्तिभि-रभिसंपूर्णान्, मुक्तियुतःसत्यवचन-लक्षितभावान् ।।१।।
मुनिमाहात्म्य-विशेषान् जिनशासन-सत्प्रदीप-भासुर-मूर्तीन्।
सिद्धिं प्रपित्सुमनसो, बद्धरजो-विपुल-मूल-घातन-कुशलान् ।।२।।
गुणमणि-विरचित-वपुषः, षड्द्रव्य-विनिश्चितस्य धातृन्सततम्।
रहित-प्रमाद-चर्यान्-दर्शनशुद्धान् गणस्य संतुष्टि-करान् ।।३।।
मोहच्छि-दुग्रतपसः, प्रशस्त-परिशुद्ध-हृदयशोभन-व्यवहारान् ।
प्रासुकनिलया-ननघा-नाशाविध्वंसि-चेतसो हतकुपथान् ।।४।।
धारितविलसन्-मुंडान् वर्जित-बहुदंड-पिंड-मंडल-निकरान् ।
सकल-परीषह-जयिनः क्रियाभि-रनिशं प्रमादतः परि-रहितान् ।।५।।
अचलान्-व्यपेतनिद्रान् स्थान-युतान्-कष्टदुष्ट-लेश्याहीनान् ।
विधिनानाश्रित-वासा-नलिप्तदेहान्विनिर्जितेंद्रियकरिणः।।६।।
अतुला-नुत्कुटिकासान् विविक्तचित्ता-नखंडित-स्वाध्यायान् ।
दक्षिणभावसमग्रान् व्यपगतमद-रागलोभ-शठ-मात्सर्यान् ।।७।।
भिन्नार्तरौद्रपक्षान् – संभावित – धर्मशुक्ल – निर्मलहृदयान्।
नित्यं पिनद्धकुगतीन् पुण्यान् गण्योदयान्विलीनगारव-चर्यान् ।।८।।
तरुमूलयोगयुक्ता – नवकाशा – तापयोग – राग – सनाथान्।
बहुजनहितकरचर्या-नभया-ननघान्महानुभाव विधानान् ।।९।।
ईदृशगुणसंपन्नान् युष्मान्भक्त्या विशालया स्थिरयोगान्।
विधिनानारत-मग्र्यान् मुकुलीकृत-हस्तकमल-शोभितशिरसा।।१०।।
अभिनौमि सकलकलुष-प्रभवोदय-जन्मजरा-मरणबंधन-मुक्तान्।
शिव-मचल-मनघ-मक्षय-मव्याहत-मुक्तिसौख्य-मस्त्विति सततम्।।११।।
इच्छामि भंते! आइरिय-भत्ति-काउस्सग्गो कओ तस्सालोचेउं। सम्मणाण-सम्मदंसण-सम्मचारित्त-जुत्ताणं पंचविहा-चाराणं आयरियाणं, आयारादि-सुदणाणो-वदेसयाणं उवज्झायाणं, तिरयण-गुण-पालण-रयाणं सव्वसाहूणं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो सुगइगमणं समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।