(१) न याचेऽहं स्वर्गं विविध सुखभोगैर्विलसितम्, प्रभुत्वं राज्यं वा न मम मनसे प्रीतिजनकम्।
विदेहे देशे वा भ्रमणममि मह्यं श्रमकरम्, निवासो स्यान्नित्यं सुजनशरणे कुण्डलपुरे।।
(२) महावीरो जातो महति नगरे कुण्डलपुरे, यदीया माताऽऽसीत् विमलचरिता सौम्यत्रिशला।
पिता सिद्धार्थोेऽभून्नरपतिवरो नीतिकुशल:, महावीरो वीरो हरतु घनजाड्यं मम मते:।।
(३) स्वमित्रै: सार्धं य: शिशुवयसि क्रीडासु निरत:, सदा विद्याभ्यासे सुरगुरुरिवासीन्मति निधि:।
सुरो सर्पो भूत्वा न भय विकलं वीरमकरोत्, प्रभुर्वीरो धीरो हरतु मम चित्ताद् भवभयम् ।।
(४) कुमारावस्थायां विषय विमुखोऽभून्नृपसुत:, विरक्तो भोगेभ्यो भवति जलजं वारिणि यथा।
न बद्धुं शक्तास्तं स्वजनसकला: सौधविभवै:, महावीर स्वामी भवतु जगते मंगलकर:।।
(५) तपस्तप्तुं त्यक्त्वा जनकसदने राज्य विभवान्, अगच्छत्कान्तारं सकलजनरुद्धोऽपि बहुश:।
अकार्षीन्मोक्षार्थी बहुकठिनचर्यां हि तपसाम्, कृपाभिर्वीरस्य प्रवहतु मन:शान्तिसरिता।।
(६) महावीरो जातस्त्रिभुवनपति: कुण्डलपुरे, धरित्री यत्रत्या जयति वरदा गौरवमयी।
समस्तैवेयं कुण्डलपुरधरा पावनतमा, प्रभो: पादाम्भोजै: सुरभितकणा स्पर्शसुखदा।।
(७) वरिष्ठा साध्वी सा प्रमुखगणिनी ज्ञान सु मती, विहारं कुर्वन्ती विहितचरणा
कुण्डलपुरे, दशां दृष्ट्वा जाता मनसि विकला तीर्थविषये, तदीयैर्निर्देशै: नयनसुखदं क्षेत्रमभवत् ।।
(८) कृतै: कायाकल्पै: रमयति मन: क्षेत्रमधुना, महन्नन्द्यावर्ते नवलरचना: सन्ति रुचिरा:।
प्रबन्धो यात्रिभ्यां विपुलसुविधादानकुशल:, सुपुण्यानां प्राप्ति: जनननगरी दर्शनफलम् ।।