दर्शनं देवदेवस्य, दर्शनं पापनाशनम् |
दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् || १ ||
दर्शनेन जिनेन्द्राणां, साधूनां वंदनेन च |
न चिरं तिष्टते पापं, छिद्रहस्ते यथोदकम् || २ ||
वीतरागमुखं दृष्ट्वा, पद्मराग-सम-प्रभं |
जन्म-जन्मकृतं पापं, दर्शनेन विनश्यति || ३ ||
दर्शनं जिनसूर्यस्य, संसार-ध्वान्त-नाशनं |
बोधनं चित्त-पद्मस्य, समस्तार्थ-प्रकाशनम् || ४ ||
दर्शनं जिनचद्रंस्य, सद्धर्मामृत-वर्षणम् |
जन्म-दाह-विनाशाय, वर्धनं सुख-वारिधे || ५ ||
जीवादि-तत्व-प्रतिपादकाय, सम्यक्त्व-मुख्याष्ट-गुणार्णवाय |
प्रशांत-रूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय || ६ ||
चिदान्नदैक-रूपाय, जिनाय परमात्मने |
परमात्म-प्रकाशाय, नित्यं सिद्धात्मने नमः || ७ ||
अन्यथा शरणं नास्ति, त्वमेव शरणं मम |
तस्मात्कारूण्य-भावेन, रक्ष रक्ष जिनेश्वर || ८ ||
न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये |
वितरागात्परो देवो, न भूतो न भविष्यति || ९ ||
जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने |
सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे || १० ||
जिनधर्म-विनिर्मुक्तो, माभ्वं चक्रवर्त्यपि |
स्याच्चेटोऽपि दरिद्रोऽपि, जिनधर्मानुवासितः || ११ ||
जन्म-जन्मकृतं पापं, जन्म- कोटिमुपार्जितम् |
जन्म-मृत्यु-जरा-रोगं, हन्यते जिन-दर्शनात् || १२ ||
अद्याभवत्सफलता, नयन-द्वयस्य,
देव त्वदीय-चरणांबुज- वीक्षणेन |
अद्य त्रिलोक-तिलकप्रतिभासते मे,
संसार-वारिधिरयं चुलुक-प्रमाणम् || १३ ||